摩诃婆罗多 · 章 8.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.17.1
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे ।
यथा दृष्ट्वा वने सिंहं शरभो वारयेद्युधि ॥ ८.१७.१ ॥
桑闍耶说:大王啊,犹如沙罗跋在林中见到狮子便加以阻挡,克利巴在战斗中阻挡了德里什塔笈门。
8.17.2
निरुद्वः पार्षतस्तेन गौतमेन बलीयसा ।
पदात्पदं विचलितुं नाशकत्तत्र भारत ॥ ८.१७.२ ॥
婆罗多啊,被强大的瞿昙所阻,般沙塔之子在那里连一步也无法前进。
8.17.3
गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति ।
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥ ८.१७.३ ॥
看见瞿昙的战车朝德里什塔笈门的战车而去,一切众生都战栗起来,认为毁灭已经降临。
8.17.4
तदा जल्पन्ति पाण्डूनां रथिनः सादिनस्तथा ।
द्रोणस्य निधनान्नूनं सङ्क्रुद्वो द्विपदां वरः ॥ ८.१७.४ ॥
那时,般度之子的车兵与骑兵议论说:因德罗纳之死而愤怒的人中之最,必定正在前来。
8.17.5
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः ।
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥ ८.१७.५ ॥
今天德里什塔笈门能否从沙罗德瓦陀之子瞿昙手中得以平安?他是大光辉者、精通神圣兵器、心胸高尚的人。
8.17.6
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् ।
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥ ८.१७.६ ॥
这整支军队能否脱离大恐惧?或者这位婆罗门不会杀死我们在此集结的所有人吗?
8.17.7
यादृशं दृश्यते रूपमन्तकप्रतिमं रणे ।
गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः ॥ ८.१७.७ ॥
在战场上形如死神的那位乔答摩(克里帕),今日将走上婆罗堕阇(德罗纳)的道路。
8.17.8
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि ।
अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ॥ ८.१७.८ ॥
阿阇梨(德罗纳)手法敏捷,在战斗中常胜,精通武器,勇力充沛,满怀愤怒。
8.17.9
पार्षतश्च महायुद्वे विमुखोऽद्याभिलक्ष्यते ।
इत्येवं विविधा वाचस्तावकानां परैः सह।
व्यश्रूयन्त महाराज तयोस्तत्र समागमे ॥ ८.१७.९ ॥
而般遮罗之子(德里什塔笈春那)今日在大战中被看见已转身退却。大王啊,在两人相遇之时,你方与敌方都传来各种各样的话语。
8.17.10
विनिःश्वस्य ततः क्रोधात्कृपः शारद्वतो नृप ।
पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु ॥ ८.१७.१० ॥
于是,大王啊,沙罗堕多之子克里帕因愤怒而深深叹息,击中般遮罗之子(德里什塔笈春那),并在所有要害处将其打伤,使其无法动弹。
8.17.11
स हन्यमानः समरे गौतमेन महात्मना ।
कर्तव्यं न स्म जानाति मोहेन महता वृतः ॥ ८.१७.११ ॥
在战斗中被伟大的乔答摩(克里帕)击伤,他被巨大的迷惑所笼罩,不知道该做什么。
8.17.12
तमब्रवीत्ततो यन्ता कञ्चित्क्षेमं तु पार्षत ।
ईदृशं व्यसनं युद्धे न ते दृष्टं मया क्वचित् ॥ ८.१७.१२ ॥
于是御者对他说:“般遮罗之子啊,你安好吗?我从未在战斗中见你遭受如此厄运。”
8.17.13
दैवयोगात्तु ते बाणा नापतन्मर्मभेदिनः ।
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः ॥ ८.१७.१३ ॥
由于命运的安排,那位婆罗门之首从四面朝要害处射来、能穿透要害的你的箭,没有落下。
8.17.14
व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात् ।
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥ ८.१७.१४ ॥
我迅速调转战车,如同河流之水从大海折返。我认为那位婆罗门不可被杀,因为正是他挫败了你的威勇。
8.17.15
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः ।
मुह्यते मे मनस्तात गात्रस्वेदश्च जायते ॥ ८.१७.१५ ॥
于是,大王,达湿多延缓缓说道:亲爱的,我的心神迷乱,肢体间渗出了汗水。
8.17.16
वेपथुश्च शरीरे मे रोमहर्षश्च सारथे ।
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः ॥ ८.१७.१६ ॥
我全身颤抖,毛发竖立,御者啊。在战斗中避开那位婆罗门,缓缓驾车前往阿周那所在之处。
8.17.17
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे ।
क्षेममद्य भवेन्मह्यमिति मे नैष्ठिकी मतिः ॥ ८.१७.१७ ॥
在战场上抵达阿周那或毗摩森,愿我今日得安全,御者啊——这是我坚定的决心。
8.17.18
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् ।
यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥ ८.१७.१८ ॥
于是,大王,御者催促马匹前行,前往大弓手毗摩与你的士兵交战之处。
8.17.19
प्रद्रुतं च रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष ।
किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥ ८.१७.१९ ॥
主啊,见德律什塔笃怒姆那的战车逃走,乔达摩(克利帕)便发出数百支箭,紧追不舍。
8.17.20
शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः ।
पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा ॥ ८.१७.२० ॥
降伏敌人者一再吹响海螺,使波栗沙之子(德律什塔笃怒姆那)惊惧,恰如因陀罗使那牟之惊惧。
8.17.21
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् ।
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥ ८.१७.२१ ॥
战场上成为毗湿摩之死、难以接近的湿伽因迪,被希尔迪基亚(克里塔瓦尔曼)一再阻挡,他仿佛在微笑。
8.17.22
शिखण्डी तु समासाद्य हृदिकानां महारथम् ।
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समाहनत् ॥ ८.१७.२२ ॥
湿伽因迪到达希迪迦人的大车战士身边,以五支锐利的婆罗箭射中他的锁骨部位。
8.17.23
कृतवर्मा तु सङ्क्रद्धो भित्त्वा षष्ट्या पतत्रिभिः ।
धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥ ८.१७.२३ ॥
然而,克利塔瓦尔曼勃然大怒,以六十支有羽箭射穿了他,然后,大王啊,这位大车战士笑着,一箭便斩断了他的弓。
8.17.24
अथान्यद्वनुरादाय द्रुपदस्यात्मजो बली ।
तिष्ठतिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ॥ ८.१७.२४ ॥
于是德鲁波陀之子,力大无穷者,又取一弓,怒气冲冲地对希尔迪迦之子说:“站住,站住!”
8.17.25
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् ।
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥ ८.१७.२५ ॥
随后,他向其射出九十支金羽、锋利无比的箭。王中之王啊,它们从他的铠甲上滑落了。
8.17.26
वितथांस्तान्समालक्ष्य पतितांश्च महीतले ।
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम् ॥ ८.१७.२६ ॥
见那些箭无效地落在地上,他用一支极其锋利的剃刀头箭将其弓完全斩断。
8.17.27
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् ।
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत् ॥ ८.१७.२७ ॥
随后,他愤怒地以八十支箭射向他的双臂和胸膛,那时他的弓已断,如同断角的公牛。
8.17.28
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः क्षतविक्षतः ।
ववाम रुधिरं गात्रैः कुम्भवक्रादिवोदकम् ॥ ८.१७.२८ ॥
然而,被箭重伤的克里达瓦尔曼愤怒了。鲜血从他的肢体涌出,如同水从罐口流出。
8.17.29
रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत ।
वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः ॥ ८.१७.२९ ॥
浑身浴血的克里达瓦尔曼闪耀着光芒,大王啊,如同被雨水浸透的赤土山。
8.17.30
अथान्यद्वनुरादाय समार्गणगुणं प्रभुः ।
शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत् ॥ ८.१७.३० ॥
于是这位强大者拿起另一把弓,带着箭与弦,以一群箭射向希坎丁的肩膀。
8.17.31
स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत ।
शाखाप्रशाखाविपुलः सुमहान्पादपो यथा ॥ ८.१७.३१ ॥
尸犍低身上肩部插着箭矢,闪耀如同枝叶繁茂的大树。
8.17.32
तावन्योन्यं भृशं विद्व्वा रुधिरेण समुक्षितौ ।
पोप्लुयमानौ हि यथा महान्तौ शोणितहदे।
तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ ॥ ८.१७.३२ ॥
二人相互猛烈刺伤,浑身浸透鲜血,宛如两头大象在血池中沐浴,光彩照人。
8.17.33
यथा च किंशुकौ फुल्लौ पुष्पमासे समागते ।
रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ।
भुजगाविव सङ्क्रुद्धौ रेजतुस्तौ नरोत्तमौ ॥ ८.१७.३३ ॥
如同花月时节盛开的两株金苏木,全身溅满鲜血、涂着红檀,这两位人中俊杰宛如两条愤怒的蛇闪耀。
8.17.34
तावुभौ शरवनुन्नाङ्गौ परस्परशरक्षतौ ।
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥ ८.१७.३४ ॥
二人身体被箭林覆盖,彼此被对方的箭所伤,又被对方的角所撞,宛如两头公牛般闪耀。
8.17.35
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ ।
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥ ८.१७.३५ ॥
二位大车战士竭力想杀死对方,在那里驾车绕行了成千上万圈。
8.17.36
कृतवर्मा महाराज पार्षतं निशितैः शरैः ।
रणे विव्याध सप्तत्या स्वर्णपुङ्गैः शिलाशितैः ॥ ८.१७.३६ ॥
大王啊,迦利多跋摩在战场上用七十支锐利的箭射穿了般沙多之子,箭羽镀金,箭头在石上磨利。
8.17.37
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः ।
जीवितान्तकरं घोरं व्यसृजत्त्वरयाऽन्वितः ॥ ८.१७.३७ ॥
于是,在战斗中,最善于攻击的婆阇(Bhoja)急速射出一支足以夺命的可怕箭矢。
8.17.38
स तेनाभिहतो राजन्मूर्च्छामाशु समाविशत् ।
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥ ८.१७.३८ ॥
大王啊,他被那支箭击中,很快陷入昏迷,被晕厥所笼罩,突然抓住了旗杆。
8.17.39
अपोवाह रणात्तूर्णं सारथी रथिनां वरम् ।
हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनःपुनः ॥ ८.१७.३९ ॥
他的御者迅速将车战勇士中的翘楚带离战场,他被希尔迪基亚的箭所折磨,一再地喘息。
8.17.40
पराजिते ततः शूरे द्रुपदस्यात्मजे प्रभो ।
व्यद्रवत्पाण्डवी सेना व्यधमाना समन्ततः ॥ ८.१७.४० ॥
主啊,那时德鲁帕达之子那位英雄被击败,般度之子的军队便四散奔逃。