摩诃婆罗多 · 章 8.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.18.1
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् ।
यथा वायुः समासाद्य तूलराशिं समन्ततः ॥ ८.१८.१ ॥
大王,白马的(阿周那)也冲散了你的军队,如同狂风吹向棉絮堆,将其四散吹开。
8.18.2
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह ।
वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः ॥ ८.१८.२ ॥
三伽多人、尸毗人与俱卢人一同迎上前去,还有婆沙提人、萨尔瓦人以及著名的牧人。
8.18.3
सत्यदेवः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः ।
सौश्रुतिश्चन्द्रदेवश्च मित्रवर्मा च भारत ॥ ८.१८.३ ॥
萨提耶提婆、萨提耶启提、弥多提婆、室鲁坦阇耶、萨室鲁提、月天,以及弥多跋摩,婆罗多啊。
8.18.4
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः ।
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः ॥ ८.१८.४ ॥
三伽多国王在战场上被他的兄弟和儿子们围住,这些儿子都是精通各种兵器的大弓箭手。
8.18.5
व्यसृजन्त शस्त्रातान्किरन्तोऽर्जुनमाहवे ।
अभ्यवर्तन्त सहसा वार्योघा इव सागरम् ॥ ८.१८.५ ॥
他们在战斗中向阿周那倾泻兵器的洪流,突然向他猛冲过去,如同水流奔向大海。
8.18.6
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः ।
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ ८.१८.६ ॥
可是那成千上万的勇士一旦接近阿周那,便全都覆没,如同蛇见到迦楼罗一般。
8.18.7
ते हन्यमानाः समरे न जहुः पाण्डवं रणे ।
हन्यमाना महाराज शलभा इव पावकम् ॥ ८.१८.७ ॥
他们在战斗中被击中,却不离弃战场上的般度之子;大王啊,他们如飞蛾扑火般被杀。
8.18.8
सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् ।
मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेवस्तु सप्तभिः ॥ ८.१८.८ ॥
真天在战中以三箭射中般度之子;弥多天以六十三箭,月天以七箭。
8.18.9
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः ।
श्रुतंजयस्तु विंशत्या सुशर्मा नवभिः शरैः ॥ ८.१८.९ ॥
弥多跋摩以七十三箭,萨乌什鲁提亦以七箭;室鲁陀阇耶以二十箭,苏舍尔摩以九箭。
8.18.10
स विद्वो बहुभिः सङ्ख्ये प्रतिविव्याध तान्नृपान् ।
सौश्रुतिं सप्तभिर्विद्व्वा चन्द्रदेवं त्रिभिः शरैः ॥ ८.१८.१० ॥
他虽在战中被众人所射,却反射那些国王:以七箭射中萨乌什鲁提,以三箭射中月天。
8.18.11
श्रुतंजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः ।
मित्रदेवं शतेनैव सत्यदेवं त्रिभिः शरैः ॥ ८.१८.११ ॥
以二十箭射室鲁陀阇耶,以八箭射月天;以百箭射弥多天,以三箭射真天。
8.18.12
नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः ।
श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः ॥ ८.१८.१२ ॥
以九箭射弥多跋摩,同样以八箭射苏舍尔摩;国王室鲁陀阇耶在那里被以石上磨利之箭所杀。
8.18.13
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ।
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥ ८.१८.१३ ॥
他连同头盔将索舒鲁提的头从身上斩下;又迅速以箭将月天送往阎摩之所。
8.18.14
तथेतरान्महाराज यतमानान्महारथान् ।
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥ ८.१८.१४ ॥
大王,他同样以各五支箭阻挡其余每一位奋力作战的大车将。
8.18.15
सत्यदेवस्तु सङ्क्रुद्वस्तोमरं व्यसृजन्महत् ।
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥ ८.१८.१५ ॥
萨提亚提婆怒不可遏,投出一支大标枪,在战场上以克里希纳为目标,发出狮子般的吼声。
8.18.16
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः ।
अयस्मयः स्वर्णदण्डो जगाम धरणीं तदा ॥ ८.१८.१६ ॥
那支带金柄的铁制标枪刺穿了大心者摩陀婆的左臂,随即坠落于地。
8.18.17
माधवस्य तु विद्धस्य तोमरेण महारणे ।
प्रतोदः प्रापतद्वस्ताद्रश्मयश्च विशाम्पते ॥ ८.१८.१७ ॥
人主啊,在那场大战中,被标枪所伤的摩陀婆手中的鞭子掉落,缰绳也随之脱落。
8.18.18
वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः ।
क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह ॥ ८.१८.१८ ॥
见婆薮提婆身体受伤,普利塔之子达南闍耶怒火中烧,对克里希纳说了这番话。
8.18.19
प्रापयाश्वान्महाबाहो सत्यदेवं प्रति प्रभो ।
यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ ८.१८.१९ ॥
啊,大臂之主,请驱马向萨蒂亚提婆而去,直到我用锐利的箭把他送往阎摩之居。
8.18.20
प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम् ।
वाहयामास तानश्वान्सत्यदेवरथं प्रति ॥ ८.१८.२० ॥
他拿起鞭子,收拢缰绳,迅速将那些马驱向萨蒂亚提婆的战车。
8.18.21
विष्वक्सेनं सुनिर्विद्वं दृष्ट्वा पार्थो धनञ्जयः ।
सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः ॥ ८.१८.२१ ॥
看到毗首羯摩(克里希那)身受重伤,大车手般的普利塔之子达南阇耶以锐利的箭阻止了萨蒂亚提婆。
8.18.22
ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः ।
कुम्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥ ८.१८.२२ ॥
于是,他以极锐利的钹箭,在军中将那位国王佩戴耳环的大头从身上斩下。
8.18.23
तन्निकृत्य शितैर्बाणैर्भित्रवर्माणमाक्षिपत् ।
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ ८.१८.२३ ॥
斩下那颗头后,他以锐利的箭击倒了铠甲被刺穿的人;啊,尊者,他又以锐利的牛犊齿箭击倒了他的御者。
8.18.24
ततः शरशतैर्भूयः संशप्तकगणान्बली ।
पातयामास सङ्क्रुद्वः शतशोऽथ सहस्रशः ॥ ८.१८.२४ ॥
于是,这位愤怒的勇士又以数百支箭,将三誓者的部队成百上千地射倒。
8.18.25
ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः ।
मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः।
सुशर्माणं सुसङ्क्रुद्धो जत्रुदेशे समाहनत् ॥ ८.१८.२५ ॥
大王,那位大车勇士极为愤怒,以银羽的剃刀箭斩下了大心者弥陀提婆的头颅,并射中苏沙尔曼的锁骨部位。
8.18.26
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् ।
शस्त्रौघैर्ममृदुः क्रुद्वा नादयन्तो दिशो दश ॥ ८.१८.२६ ॥
于是所有三亡者围住财胜,愤怒地以兵器如潮般逼迫他,怒吼之声震动十方。
8.18.27
अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः ।
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ॥ ८.१८.२७ ॥
虽被逼迫,那位与因陀罗同等勇武、灵魂无量的大车勇士,却显出了因陀罗之箭。
8.18.28
ततः शरसहस्राणि प्रादुरासन्विशाम्पते ।
कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः ॥ ८.१८.२८ ॥
于是,人主啊,从般度之子、光明无量的普利塔之子的弓中,涌现出了千万支箭。
8.18.29
ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा ।
रथानां सपताकानां तूणीराणां युगैः सह ॥ ८.१८.२९ ॥
于是,旗帜、弓、带旗的车、箭袋与车轭,都被斩碎之时——
8.18.30
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह ।
कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ ८.१८.३० ॥
在战斗中,车轴、车轮、轭带、缰绳、车辕、车甲与斑点箭也都被斩断。
8.18.31
अश्वानां पततां चापि प्रासानामृष्टिभिः सह ।
गदानां परिघानां च शक्तितोमरपट्टसैः ॥ ८.१८.३१ ॥
还有倒下的马匹、长矛与投枪;还有铁棒、大槌、标枪、托马罗与宽刃剑。
8.18.32
शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह ।
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ ८.१८.३२ ॥
还有沙塔格尼投射器与战轮;还有手臂与大腿;还有项链、臂钏与臂环,啊,尊者。
8.18.33
हाराणामथ निष्काणां तनुत्राणां च भारत ।
छत्राणां व्यजनानां च शिरसां कुमुटैः सह।
राशयश्चात्र दृश्यन्ते पतितानां महीतले ॥ ८.१८.३३ ॥
项链、金饰、铠甲、华盖与拂尘,还有带着冠冕的头颅,啊,婆罗多;此处地上可见倒下者堆积如山。
8.18.34
सकुण्डलानि स्वक्षीमि पूर्णचन्द्रनिभानि च ।
शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे ॥ ८.१८.३४ ॥
带着耳环、眼睛美丽、宛如满月的头颅出现在大地上,如同天空中的星网。
8.18.35
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च ।
शरीराणि व्यदृश्यन्त निहतानां महीतले ॥ ८.१८.३५ ॥
被杀者的身体,饰以精美花环,穿着华服,涂抹檀香膏,躺在地上可见。
8.18.36
रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा ॥ ८.१८.३६ ॥
那时,那恐怖的战场如同楼陀罗的游戏场。
8.18.37
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः ।
अर्जुनेन महाराज तत्रतत्र महारणे ॥ ८.१८.३७ ॥
大王啊,在那场大战中,被阿周那杀死的王子和大力刹帝利到处横卧。
8.18.38
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही ।
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः ॥ ८.१८.३८ ॥
战场上倒地的象与马使大地变得无法通行,仿佛布满了崩裂的山岳。
8.18.39
नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः ।
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चास्यतो महत् ॥ ८.१८.३९ ॥
那位大德的般度之子以投枪击杀敌人,并射向象与马,他的战车已无路可行。
8.18.40
स्वानुगा इव सीदन्ति रथचक्राणि मारिष ।
चरतस्तस्य सङ्ग्रामे तस्मिंल्लोहितकर्दमे ॥ ८.१८.४० ॥
尊者啊,在那场战斗中,他行走于血泥之中,战车的轮子陷下去,仿佛是他自己的随从。
8.18.41
सीदमानानि चक्राणि समुहूस्तुरगा भृशम् ।
श्रमेण महता युक्ता मनोमारुतरंहसः ॥ ८.१८.४१ ॥
车轮陷下,那如意念与风一样迅疾的马匹,因极度疲惫而被拖拽着前行。
8.18.42
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना ।
प्रायशो विमुखं सर्वं नावतिष्ठत भारत ॥ ८.१८.४२ ॥
婆罗多之子啊,那整支军队被般度之子这位射手击杀,大多转身溃逃,无法站立。
8.18.43
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् ।
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन् ॥ ८.१८.४३ ॥
阿周那在战场上战胜了他们以及众多三火部众,那时他光辉耀眼,如同无烟的熊熊烈火。