摩诃婆罗多 · 章 8.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.19.1
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् ।
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ॥ ८.१९.१ ॥
大王啊,当坚战射出许多箭时,国王难敌亲自迎战,仿佛毫无畏惧。
8.19.2
तमापतन्तं सहसा तव पुत्रं महारथम् ।
धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत् ॥ ८.१९.२ ॥
忽然,法王迅速以箭射中向他冲来的你的儿子——那位大车将,并喊道:“站住,站住!”
8.19.3
स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः ।
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ॥ ८.१९.३ ॥
他(难敌)怒不可遏,以九支锐箭回击坚战,并用一支钺头箭猛击其御者。
8.19.4
ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलीमुखान् ।
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥ ८.१९.४ ॥
大王啊,于是坚战向难敌射出十三支金羽、在石上磨砺的箭。
8.19.5
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः ।
पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत् ॥ ८.१९.५ ॥
这位大车将以四箭射杀他的四匹马,又以第五箭将御者的头从身上斩下。
8.19.6
षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम् ।
अष्टमेन तथा खङ्गं पातयामास भूतले।
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ॥ ८.१९.६ ॥
第六箭射倒国王的旗帜,第七箭射断他的弓,第八箭使他的剑落地;坚战又以五箭猛烈地重创了国王本人。
8.19.7
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव ।
उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत ॥ ८.१९.७ ॥
马匹被杀之后,你的儿子从那辆战车上跃下,陷入极大的困境,站立在地上。
8.19.8
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः ।
अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम् ॥ ८.१९.८ ॥
见他陷入困境,迦尔纳、德罗纳之子、克里帕等人立即冲上前去,想要保护这位人王。
8.19.9
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् ।
अन्वयुः समरे राजंस्ततो युद्धमवर्तत ॥ ८.१९.९ ॥
于是般度的诸子围绕在坚战周围,跟随他投入战斗;大王啊,此时战斗便开始了。
8.19.10
ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे ॥ ८.१९.१० ॥
于是在那场大战中,成千上万的乐器齐鸣。
8.19.11
क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्महीपते ।
यत्राभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ॥ ८.१९.११ ॥
大地之主啊,在般遮罗人与俱卢人交战之处,喊声与 kilakila 的呼号声四起。
8.19.12
नरा नरैः समाजग्मुर्वारणा वरवारणैः ।
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ॥ ८.१९.१२ ॥
人与人相遇,良象与良象相遇,战车与车兵相遇,战马与骑士相遇。
8.19.13
द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे ।
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ॥ ८.१९.१३ ॥
大王啊,战场上发生了多种多样、难以想象、持械而战的卓越单挑,令人叹为观止。
8.19.14
ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च ।
अयुध्यन्त महावेगाः परस्परवधैषिणः ॥ ८.१९.१४ ॥
那些英雄在战场上皆奋勇争斗,灵巧而娴熟,快如疾风,各自寻求置对方于死地。
8.19.15
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ।
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ॥ ८.१९.१५ ॥
他们恪守武士之誓,在战场上相互击打;无论如何,他们从不从背后作战。
8.19.16
मुहूर्तमेव तद्युद्वमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ ८.१९.१६ ॥
那场战斗只在片刻间看来甘美;然后,大王啊,它便如疯狂之人一般,毫无节制地持续下去。
8.19.17
रथी नागं समासाद्य दारयन्निशितैः शरैः ।
प्रेषयामास कालाय शरैः सन्नतपर्वभिः ॥ ८.१९.१७ ॥
一名车战士接近大象,以锐利的箭将其射穿,又以弯曲羽翎的箭将其送入死亡。
8.19.18
नागा हयान्समासाद्य विक्षिपन्तो बहून्रणे ।
दारयामासुरत्युग्रं तत्रतत्र तदातदा ॥ ८.१९.१८ ॥
大象逼近马匹,在战场上掀翻许多马,到处、一次又一次地、极其猛烈地将它们撕碎。
8.19.19
हयारोहाश्च बहवः परिवार्य हयोत्तमान् ।
तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः ॥ ८.१९.१९ ॥
许多骑手包围了那些优良的战马,拍打手掌发出声响,四处奔驰。
8.19.20
धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान् ।
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः ॥ ८.१९.२० ॥
那时,骑手们从两侧和后方攻击那些奔跑逃窜的大象。
8.19.21
विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः ।
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥ ८.१९.२१ ॥
大王啊,发情狂暴的大象驱散了许多战马;有的用象牙刺击,有的则猛烈地践踏。
8.19.22
साश्वारोहांश्च तुरगान्विषामैर्विव्यधू रुषा ।
अपरे चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तदा ॥ ८.१९.२२ ॥
他们怒气冲冲,用长矛刺穿马匹和骑手;其他力大无比的人则抓起它们,猛力掷出。
8.19.23
पादातैराहता नागा विवरेषु समन्ततः ।
चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश ॥ ८.१९.२३ ॥
大象被步兵从四面八方击中,从缝隙中发出可怕的哀嚎,向十方四散奔逃。
8.19.24
पदातीनां तु सहसा प्रद्रुतानां महाहवे ।
उत्सृज्याभरणं तूर्णमववव्रू रणाजिरे ॥ ८.१९.२४ ॥
在那场大战中,步兵突然逃散;他们抛弃了身上的饰物,急忙把它们扔在战场上。
8.19.25
निमित्तं मन्यमानास्तु परिणाम्य महागजाः ।
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ॥ ८.१९.२५ ॥
大象们以此为征兆,转身抓住五彩的饰物,将其撕碎。
8.19.26
तांस्तु तत्र प्रसक्तान्वै परिन्वार्य पदातयः ।
हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः ॥ ८.१९.२६ ॥
步兵包围了攀附在那里的象骑手并将其杀死;他们速度极快,力量凶猛。
8.19.27
अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे ।
निपतन्तो विषाणाग्रैर्भृशं विद्वाः सुशिक्षितैः ॥ ८.१९.२७ ॥
另一些人在大战中被象鼻甩向空中,坠落时又被训练有素的象牙尖猛烈刺穿。
8.19.28
अपरे सहसा गृह्य विषाणैरेव सूदिताः ।
सेनान्तरं समासाद्य केचित्तत्र महागजैः ॥ ८.१९.२८ ॥
另一些人突然被抓住,被象牙直接刺杀;还有些人冲入军阵中央,在那里被大象杀死。
8.19.29
क्षुण्णगात्रा महाराज विक्षिप्य च पुनःपुनः ।
अपरे व्यजनानीव विभ्राम्य निहता मृधे ॥ ८.१९.२९ ॥
大王啊,他们肢体折断,被一次又一次地抛掷;另一些人则像扇子一样被旋转,在战斗中被杀。
8.19.30
पुरःसराश्च नागानामपरेषां विशाम्पते ।
शरीराण्यतिविद्वानि तत्रतत्र रणाजिरे ॥ ८.१९.३० ॥
人主啊,有些大象冲在最前列,另一些大象的尸体被刺得千疮百孔,散落在战场各处。
8.19.31
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे ।
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥ ८.१९.३१ ॥
另一些象在甲片、象颞和象牙套上被矛、投枪与标枪牢牢钩住。
8.19.32
निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः ।
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ॥ ८.१९.३२ ॥
一些象被两侧那些极其凶猛的车兵、骑马者和骑兵抓住并刺穿,便倒在那里的地上。
8.19.33
सहयाः सादिनस्तत्र तोमरेण महामृधे ।
भूमावमृद्रन्वेगेन सचर्माणं पदातिनम् ॥ ८.१९.३३ ॥
在那场大战中,骑兵与战马以投枪迅猛地将持盾的步兵践踏在地上。
8.19.34
चछा सावरणान्कांश्चित्तत्रतत्र विशाम्पते ।
रथान्नागाः समासाद्य परिगृह्य च मारिष।
व्याक्षिपन्सहसा तत्र घोररूपे भयानके ॥ ८.१९.३४ ॥
人民之主啊,象群在各处追上并抓住了一些披甲的战车,突然将它们抛掷于那可怖、骇人的战场之上。
8.19.35
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः ।
पर्वतस्येव शिखरं वज्ररुग्णं महीतले ॥ ८.१९.३५ ॥
被铁箭射倒的大力象也倒在地上,如同被雷霆击碎的山峰。
8.19.36
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि ।
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह ॥ ८.१९.३६ ॥
战士们逼近战士,在战斗中以拳击打;彼此揪住头发,相互掷击撕扯。
8.19.37
उद्यम्य च भुजानन्ये निक्षिप्य च महीतले ।
पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः ॥ ८.१९.३७ ॥
有人举起手臂摔倒在地,以脚踩住大腿,砍下仍在抽搐者的头颅。
8.19.38
पततश्चापरो राजन्विजहारासिना शिरः ।
मृतमन्यो महाराज पदा ताडितवांस्तदा ॥ ८.१९.३८ ॥
大王啊,有人以剑斩下倒下者的头颅;大王啊,又有人以脚踢打已死者。
8.19.39
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् ।
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत।
तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम् ॥ ८.१९.३९ ॥
同样,又有人把兵器刺入尚在活着之人的身体。婆罗多啊,那里爆发了勇士们的大拳斗,凶猛的揪发厮打,以及可怖的臂力搏斗。
8.19.40
समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः ।
जहार समरे प्राणान्नानाशस्तैरनेकधा ॥ ८.१९.४० ॥
一人与敌缠斗,被另一人所杀;同样,一个未被察觉的人在战场上以各种兵器,用多种方式夺走了生命。
8.19.41
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले ।
कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः ॥ ८.१९.४१ ॥
当勇士们相互纠缠、混乱仍在继续之时,成百上千无头的躯干站立起来。
8.19.42
शोणितैः सिच्यमानानि शस्त्राणि कवचानि च ।
महारागानुरक्तानि वस्त्राणीव चकाशिरे ॥ ८.१९.४२ ॥
被鲜血洒满的兵器与铠甲闪耀着,如同深深染上艳红的衣裳。
8.19.43
एवमेतन्महद्युद्वं दारुणं शस्त्रसङ्कुलम् ।
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत् ॥ ८.१९.४३ ॥
这场宏大、可怖、充满兵器的战斗,如同狂怒的恒河,以其喧声充满了整个世界。
8.19.44
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः ।
योद्वव्यमिति युध्यन्ते राजानो जयगृद्विनः ॥ ८.१९.४४ ॥
大王啊,在箭矢的折磨中,已无法辨认出自己人或敌人;贪求胜利的诸王想着“必须作战”,便厮杀不已。
8.19.45
स्वान्स्वे जघ्नुर्महराज परांश्चैव समागतान् ।
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ॥ ८.१९.४५ ॥
大王啊,勇士们杀死了自己人,也杀死了前来的敌人;两军都陷入了混乱。
8.19.46
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः ।
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ॥ ८.१९.४६ ॥
大王啊,那里布满了破碎的战车、倒下的象、倒毙的马和被打倒的人。
8.19.47
अगम्यरूपा पृथिवी क्षणेन समपद्यत ।
क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी ॥ ८.१९.४७ ॥
转瞬之间,大地变得面目全非;护地之王啊,转瞬之间,它成了血流奔涌的大地。
8.19.48
पाञ्चालानहतत्कर्णस्त्रिगर्तांश्च धनञ्जयः ।
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ॥ ८.१९.४८ ॥
迦尔纳击杀了般遮罗人,达那阇耶(阿周那)击杀了三伽陀人,大王啊,婆罗多之子毗摩森击杀了俱卢人和象军,无一幸免。
8.19.49
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।
अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः ॥ ८.१९.४९ ॥
如此,库鲁与般度军队之间发生了这场杀戮。午后已过,太阳西沉之时,这发生在那些渴望巨大荣耀的人们身上。