摩诃婆罗多 · 章 8.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.20.1
अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
त्वत्तोऽहं सञ्जयाश्रौषं पुत्राणां चैव सङ्क्षयम् ॥ ८.२०.१ ॥
桑奢耶啊,我从你这里听到了许多极其剧烈、难以忍受的痛苦,以及我儿子们的毁灭。
8.20.2
यथा त्वं मे कथयसे यथा युद्वमवर्तत ।
न सन्ति सूत कौरव्या इति मे निश्चिता मतिः ॥ ८.२०.२ ॥
御者啊,从你讲述战斗经过的方式看,我确信般度之敌的考拉瓦已不复存在。
8.20.3
दुर्योधनश्च विरथः कृतस्तत्र महारथः ।
धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम् ॥ ८.२०.३ ॥
那里,杜尔约达那被夺去了战车;法之子如何对待他,或那位君王做了什么?
8.20.4
अपराह्णे कथं युद्वमभवद्रोमहर्षणम् ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥ ८.२०.४ ॥
午后那场令人毛骨悚然的战斗是如何发生的?请如实告诉我,桑奢耶啊,你在此方面很精通。
8.20.5
संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशाम्पते ॥ ८.२०.५ ॥
人主啊,当军队相互纠缠、被逐段杀戮时,你的儿子登上了另一辆战车。
8.20.6
क्रोधेन महता युक्तः सविषो भुजगो यथा ।
दुर्योधनः समालक्ष्य धर्मराजं युधिष्ठिरम्।
प्रोवाच सूतं त्वरितो याहियाहीति भारत ॥ ८.२०.६ ॥
杜尔约达那充满大怒,如同毒蛇一般,看见法王坚战,便急忙对御者说:“快走,快走!”婆罗多啊。
8.20.7
तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।
ध्रियमाणातप्रतेण राजा राजति दंशितः ॥ ८.२०.७ ॥
御者啊,快送我到般度之子那里去吧;那位打着华盖的国王身披铠甲,闪闪发光。
8.20.8
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥ ८.२०.८ ॥
那御者受国王催促,在战场上将国王的良车径直驱向坚战。
8.20.9
ततो युधिष्ठिरः क्रुद्वः प्रभिन्न इव कुञ्जरः ।
सारथिं चोदयामास याहि यत्र सुयोधनः ॥ ८.२०.९ ॥
于是坚战愤怒如发情的象,催促御者道:“去,到苏耶驮那所在之处!”
8.20.10
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ॥ ८.२०.१० ॥
那两位英勇的兄弟,最优秀的车战勇士,彼此迎面相遇。
8.20.11
समेत्य च महावीरौ संरब्धौ युद्वदुर्मदौ ।
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥ ८.२०.११ ॥
两位大英雄相遇,怒火中烧,沉醉于战斗的狂热,二人皆是大弓箭手,在战中互相倾泻箭雨。
8.20.12
ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ॥ ८.२०.१२ ॥
那时,先生,国王难敌以在石上磨利的钺形箭,在战中斩断了法德的坚战之弓。
8.20.13
तं नामृष्यत सङ्क्रुद्धो ह्यवमानं युधिष्ठिरः ।
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ॥ ८.२०.१३ ॥
盛怒的坚战无法忍受这份羞辱。他抛开断弓,双目因愤怒而通红……
8.20.14
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ।
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ ८.२०.१४ ॥
持另一把弓,法之子在军阵前端斩断了难敌的旗帜和他的弓。
8.20.15
अथान्यद्वनुरादाय पुत्रस्ते भरतर्षभ ।
युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान्।
रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान् ॥ ८.२०.१५ ॥
婆罗多之雄,此时你的儿子又取一弓,向坚战射出饰以黄金的箭,金羽、锐利的箭头,宛如毒蛇。
8.20.16
तावन्योन्यं सुसङ्क्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम् ।
सिंहाविव सुसंरब्धौ परस्परजिगीषया ॥ ८.२०.१६ ॥
二人彼此盛怒,如狮子般勇猛激昂,想要战胜对方,于是倾泻出密集的兵器之雨。
8.20.17
जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव ।
अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ ॥ ८.२०.१७ ॥
二位大车士在战场上彼此击打,如公牛般咆哮,并四处寻找对方的破绽。
8.20.18
ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ ।
विरेजतुर्महाराज किंशुकाविव पुष्पितौ ॥ ८.२०.१८ ॥
于是,二人被满弓射出的箭所伤,大王啊,他们闪耀如盛开的金苏树。
8.20.19
ततो राजन्विमुञ्चन्तौ सिंहनादान्मुहुर्मुहुः ।
तलयोश्च तथा शब्दान्धनुषश्च महाहवे ॥ ८.२०.१९ ॥
于是,大王啊,二人反复发出狮子般的吼声,在那场大战中拍打手掌、弓弦作响。
8.20.20
शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरौ ।
अन्योन्यं तौ महाराज पीडयांचक्रतुर्भृशम् ॥ ८.२०.२० ॥
那两位人主也吹奏了美妙的螺号声,大王啊,他们彼此极力相互折磨。
8.20.21
ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः ।
आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः ॥ ८.२०.२१ ॥
于是国王坚战愤怒地用三支如雷霆般迅疾、难以抵挡的箭射中你的儿子胸部。
8.20.22
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः ।
पञ्चभिर्निशितैर्बाणैः स्वर्णपुङ्खैः शिलाशितैः ॥ ८.२०.२२ ॥
你的儿子,大地之主,立即以五支锋利的箭还击,箭羽为金,并在石上磨利。
8.20.23
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥ ८.२०.२३ ॥
于是国王难敌,婆罗多啊,投出了一支全铁制成、锋利的枪,那时它宛如一颗巨大的流星。
8.20.24
तामापतन्तीं सहसा धर्मराजः शितैः शरैः ।
त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः ॥ ८.२०.२४ ॥
法王见它突然向他飞来,立刻以三支锋利的箭将其斩断,随后又以五支箭射中了他。
8.20.25
निपपात ततः साऽथ स्वर्णदण्डा महास्वना ।
निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा ॥ ८.२०.२५ ॥
于是那支金柄之物发出巨响坠落;坠落时它如大流星般闪耀,宛如火焰。
8.20.26
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते ।
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥ ८.२०.२६ ॥
你的儿子见自己的投枪被摧毁,人主啊,便以九支锋利的阔头箭射向坚战。
8.20.27
सोऽतिविद्वो बलवता शत्रुणआ शत्रुतापनः ।
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥ ८.२०.२७ ॥
他被强大的敌人重创,身为敌人的折磨者,迅速取出一支瞄准难敌的箭。
8.20.28
समाधत्त च तं बाणं धनुर्मध्ये महाबलः ।
चिक्षेप च महाराज ततः क्रुद्वः पराक्रमी ॥ ८.२०.२८ ॥
这位大力者将箭搭在弓的中央,大王啊,于是他愤怒而勇猛地将箭射出。
8.20.29
स तु बाणः समासाद्य तव पुत्रं महारथम् ।
व्यामोहयत राजानं धरणीं च ददार ह ॥ ८.२०.२९ ॥
那支箭到达了你那位大车战士之子,令国王昏迷,又穿透了大地。
8.20.30
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।
विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत् ॥ ८.२०.३० ॥
于是难敌愤怒地举起铁杵,迅猛地冲向法王,想要结束这场争斗。
8.20.31
तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम् ।
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ॥ ८.२०.३१ ॥
见他高举铁杵而来,如手持杖的阎摩,法王(坚战)向你的儿子掷出一支大神矛。
8.20.32
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ।
यमदण्डनिभां घोरां कालरात्रिमिवापराम् ॥ ८.२०.३२ ॥
光芒闪耀、速度极快,如燃烧的大流星,可怖如阎摩之杖,仿佛另一个死亡之夜(迦罗罗陀利)。
8.20.33
रथस्थः स तया विद्वो वर्म भित्त्वा स्तनान्तरे ।
भृशं संविग्नहृदयः पपात च मुमोह च ॥ ८.२०.३३ ॥
他立于战车之上,被它击中,穿透铠甲,直插胸膛之间;心神大为震动,他倒地昏迷。
8.20.34
नभस्तमाह च ततः प्रतिज्ञामनुपालय ।
नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत ॥ ८.२०.३४ ॥
于是有人对他说:“守住你的誓言;大王,此人不该由你杀死。”如此被告知,他便转身返回。
8.20.35
ततस्त्वरितमागम्य कृतवर्मा तवात्मजम् ।
प्रत्यपद्यत राजानं निम्नं व्यसनार्णवे ॥ ८.२०.३५ ॥
随后,克里塔瓦尔曼急速赶来,到达了陷入灾难之海的你的儿子、那位国王身边。
8.20.36
गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम् ।
अभिदुद्राव वेगेन कृतवर्माणमाहवे ॥ ८.२०.३६ ॥
怖军也拿起饰有金带的铁杵,在战场上疾速冲向克里塔瓦尔曼。
8.20.37
एवं तदभवद्युद्धं त्वदीयानां परैः सह ।
अपराह्णे महाराज काङ्क्षतां विजयं युधि ॥ ८.२०.३७ ॥
大王啊,午后你的部众与敌人如此交战,双方都渴望在战斗中获胜。