Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.21.1

ततः कर्णं पुरस्कृत्य त्वदीया युद्वदुर्मदाः ।
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ॥ ८.२१.१ ॥

于是以迦尔纳为先锋,你方因战斗而狂傲的战士再次回转,展开了如同天神与阿修罗之战的大战。

8.21.2

द्विरदनररथाश्वशङ्खशब्दैः ।
परिहृषिता विविधैश्च शस्त्रपातैः।
द्विरदरथपदातिसादिसङ्घाः ।
परिकुपिताभिमुखाः प्रजघ्निरे ते ॥ ८.२१.२ ॥

在象、人、车、马的螺号声和各式兵器的落下声中欢欣鼓舞,象兵、车兵、步兵与骑兵的部队愤怒地迎面冲杀。

8.21.3

शितपरश्वथसासिपट्टसै… ।
रिषुभिरनेकविधैश्च सूदिताः।
द्विरदरथहया महाहवे ।
वरपुरुषैः पुरुषाश्च वाहनैः ॥ ८.२१.३ ॥

被利斧、长矛、利剑和铁棍……以及各种箭矢所击碎;在那场大战中,象、车、马、优秀的勇士、其他人与坐骑都被杀死。

8.21.4

कमलदिनकरेन्दुसन्निभैः ।
सितदशनैः सुमुखाक्षिनासिकैः।
रुचिरमकुटकुण्डलैर्मही ।
पुरुषशिरोभिरुपस्तृता बभौ ॥ ८.२१.४ ॥

大地被人头覆盖,那些头颅如莲花、日、月般美丽,牙齿洁白,面容、眼睛、鼻子俊秀,戴着华美的冠与耳环,大地闪耀。

8.21.5

परिघमुसलशक्तितौमरै… ।
र्नखरभुशुण्डिगदाशतैर्हताः।
द्विरदनरहयाः सहस्रशो ।
रुधिरनदीप्रवहास्तदाऽभवन् ॥ ८.२१.५ ॥

被铁棒、木杵、枪与标枪……以及利爪、bhuśuṇḍī与成百铁锤击杀,成千上万的象、人与马被杀;于是血流成河。

8.21.6

प्रहतरथनराश्वकुञ्जरं ।
प्रतिभयदर्शनमुल्बणव्रणम्।
तदहितहतमाबभौ बलं ।
पितृपतिराष्ट्रमिव प्रजाक्षये ॥ ८.२१.६ ॥

那支军队被车、人、马、象击倒,可怖可见,伤口惨烈,被敌人所杀,在众生毁灭之时,犹如祖先之主阎摩的国度般闪耀。

8.21.7

अथ तव नरदेव सैनिका… ।
स्तव च सुताः सुरसूनुसन्निभाः।
अमितबलपुरः सरा रणे ।
कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥ ८.२१.७ ॥

于是,人主啊,你的士兵……以及你的诸子,如同天神之子,在无量勇力者的率领下,在战场上向希尼之子进发。

8.21.8

तदतिरुधिरभीममाबभौ ।
पुरुषवराश्वरथद्विपाकुलम्।
लवणजलसमुद्वतस्वनं ।
बलमसुरामरसैन्यसप्रभम् ॥ ८.२१.८ ॥

那支军队因血污而极为可怖地闪耀,挤满了优秀的战士、马匹、战车与象群,如同翻涌的咸水大海般咆哮,宛如阿修罗与天神的军队。

8.21.9

सुरपतिसमविक्रमस्तत… ।
स्त्रिदशवरावरजोपमं युधि।
दिनकरकिरणप्रभैः पृषत्कै ।
रवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥ ८.२१.९ ॥

如同天主般勇武的他随即……如同三十天神中最优者之弟,在战场上以如日光般明亮的箭矢,日神之子击中了希尼的第一勇士。

8.21.10

तमपि सरथवाजिसारथिं ।
शिनिवृषभो विविधैः शरैस्त्वरन्।
भुजगविषसमप्रभै रणे ।
पुरुषवरं समवास्तृणोत्तदा ॥ ८.२१.१० ॥

希尼的雄牛迅速以各种如毒蛇之毒般闪亮的箭矢,在战场上将那位人中之尊,连同他的战车、马匹与御者,一并遮覆。

8.21.11

शिनिवृषभशरैर्निपीडितं ।
तव सुहृदो वसुषेणमभ्ययुः।
त्वरितमतिरथा रथर्षभं ।
द्विरदरथाश्वपदातिभिः सह ॥ ८.२१.११ ॥

你的朋友们迅速向被希尼雄牛之箭所压制的伏苏舍那进发。大车战士们与象、车、马和步兵一同,向车战之雄牛而来。

8.21.12

तदुदधिनिभमाद्रवद्बलं ।
त्वरिततरैः समभिद्रुतं परैः।
द्रुपदसुतमुखैस्तदाऽभवत् ।
पुरुषरथाश्वगजक्षयो महान् ॥ ८.२१.१२ ॥

那如大海般的军队向前奔涌;敌人在德鲁帕达之子的率领下,以极快的速度发动攻击,于是人、车、马、象遭受了巨大的毁灭。

8.21.13

अथ पुरुषवरौ कृताह्निकौ ।
भवमभिपूज्य यथाविधि प्रभुम्।
अरिवधकृतनिश्चयौ द्रुतं ।
तव बलमर्जुनकेशवौ सृतौ ॥ ८.२१.१३ ॥

随后,这两位人中俊杰完成日常仪式,依法礼敬主神薄伽(湿婆),决意诛杀敌人,迅速向你的军队进发——阿周那与克舍婆。

8.21.14

जलदनिनदनिःस्वनं रथं ।
पवनविधूतपताककेतनम्।
सितहयमुपयान्तमन्तिकं ।
कृतमनसो ददृशुस्तदाऽरयः ॥ ८.२१.१४ ॥

此时,心意坚定的敌人看见那辆战车逼近:轰鸣如雷云,旗帜与幡饰随风飘动,驾着白马。

8.21.15

अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः ।
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ॥ ८.२१.१५ ॥

于是阿周那拉开甘狄拔神弓,仿佛在战车上起舞,用箭矢充满了天空、四方与四隅。

8.21.16

रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान् ।
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥ ८.२१.१६ ॥

于是他以箭矢淹没了那些如天车般的战车,连同兵器、旗幡与御者一并摧毁,如风吹散云彩一般。

8.21.17

गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् ।
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥ ८.२१.१७ ॥

他以箭矢将象群与象夫、带着胜利旗、兵器与旌旗的队伍、骑兵、马匹和步兵,统统送往阎摩的住所。

8.21.18

तमन्तकमिव क्रुद्धमनिवार्यं महारथम् ।
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः ॥ ८.२१.१८ ॥

杜尔约达纳独自迎向那位大车士,他愤怒而不可阻挡,如同死神,以笔直飞行的箭矢射击他。

8.21.19

तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः ।
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा ॥ ८.२१.१९ ॥

阿周那以箭射毁他的弓、御者、马匹与旗帜,又以一支羽箭斩断了他的华盖。

8.21.20

नवमं च समाधाय व्यसृजत्प्राणघातिनम् ।
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत् ॥ ८.२१.२० ॥

他搭上第九支夺命之箭射向难敌;德罗纳之子却将这支上好的箭斩成七段。

8.21.21

ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः ।
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः ॥ ८.२१.२१ ॥

随后,般度之子斩断了德罗纳之子的弓,以箭射伤其马与战车,又斩断了克里帕那张极为凶猛的弓。

8.21.22

हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत् ।
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात् ॥ ८.२१.२२ ॥

他斩断了希尔迪基亚(克里塔瓦尔曼)的弓,随即射倒了他的旗帜与马匹;接着又斩断了难降的弓,向罗陀之子迦尔纳逼近。

8.21.23

अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः ।
विद्व्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः ॥ ८.२१.२३ ॥

于是迦尔纳舍弃萨谛奇,急速行动,以三支箭射中阿周那,随后以二十支箭屡次射中黑天与阿周那。

8.21.24

न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून् ।
रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः ॥ ८.२१.२४ ॥

迦尔纳在战场上射出许多箭,击杀敌人,毫无倦意,宛如愤怒的百祭(因陀罗)。

8.21.25

अथ सात्यकिरागत्य कर्णं विद्द्वा शितैः शरैः ।
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत् ॥ ८.२१.२५ ॥

那时萨提亚基上前,以锐利的箭射中迦尔纳;以九十九支猛烈的箭,又以一百支箭,再次射伤了他。

8.21.26

ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन् ।
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ ८.२१.२६ ॥

于是般度之子的所有勇士都逼迫迦尔纳:优陀摩尼、施坎迪、德罗波蒂的诸子以及普罗巴德拉卡。

8.21.27

उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च ।
चेदिकारूशमात्स्यानां केकयानां च यद्बलं ॥ ८.२१.२७ ॥

优多摩奥阇、尤尤特苏、双生子、帕尔沙塔,以及车底、迦如沙、鱼国和建牙人的兵力。

8.21.28

चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ।
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ॥ ८.२१.२८ ॥

勇猛的遮吉塔纳和坚守誓愿的法王;他们与战车、马匹、象群及英勇凶猛的步兵同行。

8.21.29

परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ।
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः ॥ ८.२१.२९ ॥

他们在战场上包围迦尔纳,以各种武器向他倾泻,都决意要杀死迦尔纳,口中说着严厉的话语。

8.21.30

तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः ।
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः ॥ ८.२१.३० ॥

迦尔纳以锐利的箭多方斩断那箭雨,并以神箭之威将其驱散,如同狂风折断大树。

8.21.31

रथिनः समहामात्रान्गजानश्वान्ससादिनः ।
पत्तिव्रातांश्च सङ्क्रुद्वो निघ्नन्कर्णो व्यदृश्यत ॥ ८.२१.३१ ॥

愤怒的迦尔纳被看见正在击杀车战士、连同大象御者的象群、马匹及其骑手,以及步兵队伍。

8.21.32

तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा ।
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम् ॥ ८.२१.३२ ॥

般度之子的那支军队在迦尔纳箭势的威力下被杀戮,兵器与旗帜尽失,大多转身逃走了。

8.21.33

अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन् ।
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥ ८.२१.३३ ॥

于是阿周那微笑着以自己的箭破解了迦尔纳的箭,并以箭雨遮蔽了四方、天空与大地。

8.21.34

मुसलानीव सम्पेतुः परिघा इव चेषवः ।
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे ॥ ८.२१.३४ ॥

箭矢如铁棒、铁杵般落下;有的如百杀器,另有的如可怖的雷杵。

8.21.35

तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् ।
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च ॥ ८.२१.३५ ॥

那支军队在箭下被杀,连同步兵、马匹、战车与象群,闭着眼睛大为奔走,并且咆哮。

8.21.36

निष्कैवल्यं तदा युद्वं प्रापुरश्वनरद्विपाः ।
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः ॥ ८.२१.३६ ॥

此时战斗已无退路;马匹、人员与象群被箭射中,痛苦而恐惧,纷纷逃散。

8.21.37

त्वदीयानां तदा युद्वे संसक्तानां जयैषिणाम् ।
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥ ८.२१.३७ ॥

那时,你方战士正陷入激战,渴望胜利,光辉的太阳到达山顶,落下了。

8.21.38

तमसा च महाराज रजसा च विशेषतः ।
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम् ॥ ८.२१.३८ ॥

大王啊,因为黑暗,尤其是尘土,我们什么也看不见,无论吉利还是不吉。

8.21.39

ते त्रस्यन्तो महेष्वासा रात्रियुद्वस्य भारत ।
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः ॥ ८.२१.३९ ॥

婆罗多啊,那些大弓箭手因夜战而恐惧,与所有战士一起撤退了。

8.21.40

कौरवेष्वपयातेषु तदा राजन्दिनक्षये ।
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥ ८.२१.४० ॥

大王啊,当俱卢人在日暮时撤退后,普利塔之子们心怀喜悦,获得胜利,回到了自己的营地。

8.21.41

वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः ।
परानुवहन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥ ८.२१.४१ ॥

伴着各种乐器的声响,伴着狮吼与咆哮,向敌人宣告,并赞颂阿周那与阿017, 他们前行。

8.21.42

कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते ।
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः ॥ ८.२१.४२ ॥

当那些英雄完成撤退后,所有士兵和众王便向般度五子说出祝福之语。

8.21.43

ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः ।
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः ॥ ८.२१.४३ ॥

于是停战之后,般度之子在那里欢喜;夜里回到营地,诸王便在那里住下。

8.21.44

ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः ।
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम् ॥ ८.२१.४४ ॥

于是罗刹、毕舍遮与猛兽成群结队地前往那可怖的战场,那里好似楼陀罗的游戏之地。