摩诃婆罗多 · 章 8.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.22.1
स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः ।
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ॥ ८.२२.१ ॥
阿周那出于自愿,明明白白地杀尽了我们所有人;在战场上,连死神也救不了他的敌人。
8.22.2
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् ।
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥ ८.२२.२ ॥
普利塔之子一人夺取了那处吉祥之地(肯达瓦林),一人令火神满足;一人征服此大地,使诸王皆成纳贡之臣。
8.22.3
एको निवातकवचनानहनद्दिव्यकार्मुकः ।
एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥ ८.२२.३ ॥
他独自以神弓杀死了尼婆多卡伐恰;独自与化作猎人模样站立的湿婆(Śarva)交战。
8.22.4
एको ह्यरक्षद्भरतानेको भवमतोषयत् ।
तेनैकेन जिताः सर्वे मदीया ह्युग्रतेजसः ॥ ८.२२.४ ॥
他独自保护了婆罗多族,独自使婆婆(湿婆)欢喜;我那些勇猛威烈之人,都被此一人所击败。
8.22.5
न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत् ।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ॥ ८.२२.५ ॥
他们不值得责备,而值得称赞。你说说他们做了什么。然后,御者啊,杜尔约达那后来做了什么?
8.22.6
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः ।
दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः ॥ ८.२२.६ ॥
被击伤、击倒、溃散,失去铠甲、武器与车骑;声音悲哀,痛苦不堪;这些自负之人为敌人所败。
8.22.7
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः ।
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः ॥ ८.२२.७ ॥
留在营中的俱卢人再次商议,如同断了毒牙、毒液已尽、被脚踩踏的毒蛇。
8.22.8
तानब्रवीत्ततः कर्णः क्रुद्वः सर्प इव श्वसन् ।
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम् ॥ ८.२२.८ ॥
于是愤怒的迦尔纳像蛇一样嘶嘶作响,双手相握,望着你的儿子,对他们说道。
8.22.9
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा ।
सम्बोधयति चाप्येनं यथाकालमधोक्षजः ॥ ८.२२.९ ॥
阿周那始终警觉、坚定、熟练而有毅力,不退之主(黑天)也适时地激励他。
8.22.10
सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः ।
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ॥ ८.२२.१० ॥
他突然发射神箭,今日我们被他欺骗;但明日,王啊,我将摧毁他的全部计划。
8.22.11
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् ।
तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे ॥ ८.२२.११ ॥
他听后说“就这样吧”,于是遣散了诸位上等的国王;被遣散的诸王都回到了各自的宫殿。
8.22.12
सुखोषितास्तां रजनीं हृष्टा युद्वाय निर्ययुः ।
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्।
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥ ८.२२.१२ ॥
他们安稳度过那夜,欣喜地出发参战;他们看见了法王所布的不可战胜的阵形,那是俱卢之杰依照歌诗提与乌尚那的学说精心布置的。
8.22.13
अथ प्रतीपकर्तारं प्रवीरं परवीरहा ।
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥ ८.२२.१३ ॥
此时,杀害敌方英雄的难敌想起了勇猛对抗敌人的迦尔纳,那位肩如公牛的英雄。
8.22.14
पुरन्दरसमं युद्वे मरुद्गणसमं बले ।
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ॥ ८.२२.१४ ॥
国王的心思转向迦尔纳,他在战斗中如因陀罗,力量如摩录多群,勇猛如卡尔塔维里耶。
8.22.15
सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः ।
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥ ८.२२.१५ ॥
所有军队的心思都只转向迦尔纳,正如危难之时人们想到亲人一样——那位御者之子、伟大的弓箭手。
8.22.16
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ।
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति ॥ ८.२२.१६ ॥
御者啊,那时难敌之后做了什么?愚人们,你们的心为何转向毗迦尔塔那之子迦尔纳?
8.22.17
अप्यपश्यत राधेयं शीतार्ता इव भास्करम् ।
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ॥ ८.२२.१७ ॥
当军队撤退、战斗再度开始时,他们是否像受寒之人仰望太阳一样,望向罗陀之子迦尔纳?
8.22.18
दुर्योधनं च तत्राजौ पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वाऽपि भृशार्दितम् ॥ ८.२२.१८ ॥
在那场战斗中,他们看到难敌被般度之子重创,也看到勇猛的般度诸子,他们也都十分痛苦。
8.22.19
कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ।
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥ ८.२२.१९ ॥
桑闍耶啊,那里的毗伽尔摩那·迦尔纳是如何作战的?那里所有的般度子孙又是如何与这位御者之子交战的?
8.22.20
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृञ्जयान् ।
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि ॥ ८.२२.२० ॥
唯独迦尔纳,大臂者,能够与娑闍耶族一同杀死般度之子。在战斗中,迦尔纳双臂的威力与帝释天和毗湿奴相等。
8.22.21
तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः ।
कर्णमाश्रित्य सङ्ग्रामे मत्तो दुर्योधनो नृपः ॥ ८.२२.२१ ॥
那位大心者拥有可怕的武器与威力。在战斗中依靠迦尔纳,国王难敌变得骄狂起来。
8.22.22
दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारथः ॥ ८.२२.२२ ॥
随后,见难敌被般度之子重重击伤,又见勇猛的般度诸子,啊,大车手……
8.22.23
कर्णमाश्रित्य सङ्ग्रामे मन्दो दुर्योधनः पुनः ।
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥ ८.२२.२३ ॥
难敌愚昧,依靠迦尔纳在战斗中,又想要战胜般度之子,连同他们的儿子与克沙瓦一起。
8.22.24
यः सौबलं तथा तात नीतिमानिति मन्यते ।
कर्णं चाग्रतिमं युद्वे देवैरपि दुरुत्सहम् ॥ ८.२२.२४ ॥
孩子啊,他(难敌)认为苏波罗之子(沙恭尼)精通政略,而迦尔纳作为战斗中的首位,连天神也难以抵挡……
8.22.25
मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम् ।
विजेष्यति रणे कर्ण एकः पर्थान्ससोमकान्।
मम चैव सदा मन्दः शंसते नित्यमग्रतः ॥ ८.२२.२५ ॥
他认为迦尔纳胜过普利塔之子,这一想法已深植于他心中:迦尔纳独自便能在战斗中击败般度之子与索摩迦人。那愚人总在我面前这样宣称。
8.22.26
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे ।
नातरद्रभसः कर्णो दैवं नूनं परायणम् ॥ ८.२२.२६ ॥
唉,多么大的悲痛啊!在战斗中,勇猛的迦尔纳竟未能战胜般度之子。毫无疑问,命运才是至高的归宿。
8.22.27
अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ॥ ८.२२.२७ ॥
唉,这场掷骰游戏的可怕后果如今正在发生。
8.22.28
अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम् ।
सोढा घोराणि बहुशः शल्यभूतानि सञ्जय ॥ ८.२२.२८ ॥
唉,我多次忍受了难德耶檀所造成的剧烈苦痛,那些苦痛可怕,如刺般扎心。啊,桑闍耶!
8.22.29
सौबलं च तदा तात नीतिमानिति मन्यते ।
कर्णश्च रभसो नित्यं राजा त चाप्यनुव्रतः ॥ ८.२२.२९ ॥
亲爱的,那时他认为苏跋罗之子(沙恭尼)精通政略;迦尔纳总是冲动急躁,国王也追随着他。
8.22.30
यदेवं वर्तमानेषु महायुद्वेषु सञ्जय ।
अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान् ॥ ८.२२.३० ॥
啊,桑闍耶!当这样的大战不断进行时,我不断听到我的儿子们被不停地杀死、彻底战败的消息。
8.22.31
न पाण्डवानां समरे कश्चिदस्ति हतः किल ।
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम् ॥ ८.२२.३१ ॥
在战斗中,般度之子中确实无人被杀;他们冲入战场,如同进入女人之中。然而天命远比人力强大。
8.22.32
राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय। ॥ ८.२२.३२ ॥
大王啊,请思考先前那些最合乎法的征兆。
8.22.33
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः ।
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥ ८.२२.३३ ॥
人对已经过去的事情事后忧虑;然而这忧虑并不能使事情不曾发生,人反因忧虑而毁灭。
8.22.34
तदिदं तव कार्यं तु दूरप्राप्तं विजानता ।
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम् ॥ ८.२२.३४ ॥
因此,这件事由你负责,其后果深远;明智之人本应当考虑。然而你先前并未思量什么可以得到、什么不能得到。
8.22.35
उक्तोऽसि बहुधा राज्ञन्मा युध्यस्वेति पाण्डवैः ।
न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते ॥ ८.२२.३५ ॥
大王啊,般度之子曾多次对你说:“不要作战。”但人主啊,你出于憎恨,没有接受他们的话。
8.22.36
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु ।
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥ ८.२२.३६ ॥
你对般度之子犯下了可怕的恶行;因你之故,诸王正遭受可怕的屠杀。
8.22.37
तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ ।
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते ॥ ८.२२.३७ ॥
如今那已经过去,婆罗多族的雄牛啊,不要悲伤。请听发生的一切经过:那可怕的屠杀现在要讲述了。
8.22.38
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् ।
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत् ॥ ८.२२.३८ ॥
夜晚过去、黎明到来时,迦尔纳去见国王。与难敌相见后,这位大臂者说道。
8.22.39
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना ।
निहनिष्यामि तं वीरं स वा मां निहनिष्यति ॥ ८.२२.३९ ॥
今天,大王,我将与那位著名的般度之子相遇。我要杀死那位英雄,否则他会杀死我。
8.22.40
बहुत्वान्मम कार्याणां तथा पार्थस्य भारत ।
नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥ ८.२२.४० ॥
婆罗多啊,因为我和普利塔之子各自的诸多事务,大王,我与阿周那一直没有相遇。
8.22.41
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते ।
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥ ८.२२.४१ ॥
请听我依照智慧所说的话,人主啊:婆罗多啊,我若不在战场上杀死普利塔之子,便不会回来。
8.22.42
हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि ।
अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम् ॥ ८.२२.४२ ॥
当这支军队的英雄们都已阵亡,而我仍立于战场时,普利塔之子将攻击失去因陀罗之力的我。
8.22.43
ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर ।
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च ॥ ८.२२.४३ ॥
那么,人主啊,请听那有益之事:我的武器之威力,以及阿周那神圣武器之威力。
8.22.44
कार्यस्य महतो भेदे लाघवे दूरपातने ।
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः ॥ ८.२२.४४ ॥
论破除大事、手法轻捷、远距离击杀、技艺娴熟及发射兵器,萨维亚萨钦不及我。
8.22.45
प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत ।
निमित्तज्ञानयोगे च सव्यसाची न मत्समः ॥ ८.२२.४५ ॥
论生命力、英勇、智识与勇武,婆罗多之子啊,以及善用占兆之术,萨维亚萨钦不及我。
8.22.46
सर्वायुधमहामात्रं विजयं नाम तद्वनुः ।
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा ॥ ८.२२.४६ ॥
那张名为'胜利'的弓,乃诸兵器之大臣,是毗首羯摩为因陀罗、欲使其欢喜而制造的。
8.22.47
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः ।
यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश ॥ ८.२२.४७ ॥
大王啊,因陀罗(百祭者)正是以此击败了达提耶诸军;其吼声使达提耶的十方皆陷于迷乱。
8.22.48
तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम् ।
तद्दिव्यं भार्गवो मह्यमददद्वनुरत्तमम् ॥ ८.२२.४८ ॥
因陀罗将那张最受尊崇的弓赠予婆利古之子(Bhārgava);那张神圣的至上之弓,婆利古之子又赠予了我。
8.22.49
तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ।
यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान्।
निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान् ॥ ८.२२.४९ ॥
我将以那弓与臂力强大的阿周那作战,他是胜者中的最强者。正如因陀罗在战场上诛灭了所有聚集的达提耶,我也将在战斗中战胜所有般度之子。
8.22.50
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते ।
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता ॥ ८.२२.५० ॥
罗摩所赐的那张可怕之弓胜过甘狄拔,用它曾二十一次征服大地。
8.22.51
धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः ।
तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम् ॥ ८.२२.५१ ॥
婆利古之子宣说了此弓的神奇功用,因此罗摩将它赠予我,我将用它与般度之子作战。
8.22.52
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् ।
निहत्य समरे वीरमर्जुनं जयतां वरम् ॥ ८.२२.५२ ॥
杜尔约达那啊,今日我将使你与你的亲族欢喜,在战斗中杀死英雄、胜者中最优秀的阿周那。
8.22.53
सपर्वतवनद्वीपा हतवीरा ससागरा ।
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥ ८.२२.५३ ॥
君王啊,山岳、森林、岛屿与海洋所环绕的大地,待英雄们被杀之后,今日将确立于你的子孙之中。
8.22.54
नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः ।
सम्यग्धर्मानुरक्तस्य सिद्विरात्मवतो यथा ॥ ८.२२.५४ ॥
今日为了你的喜悦,尤其是对我而言,没有任何事是不可能的,正如成就属于那些忠于正法、克制自我的人。
8.22.55
न हि मे विक्रमं सोढुं स शक्तोऽग्निं तरुर्यथा ।
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥ ८.२२.५५ ॥
他不能承受我的威力,正如树木不能承受火焰。然而我必须说明,我在哪些方面不如法尔古那。
8.22.56
ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी ।
सारथिस्तस्य गोविन्दो मम तादृङ्ग विद्यते ॥ ८.२२.५६ ॥
他弓的弓弦是神圣的,他那两个伟大的不竭箭囊也是如此。他的御者是郭文达,而我也有这样的一位。
8.22.57
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि ।
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ॥ ८.२२.५७ ॥
他的神圣而卓越的弓是甘狄拔,战场上无人能胜;而我伟大、神圣、至上的弓是胜利。
8.22.58
तत्राहमधिकः पार्थाद्वनुषा तेन पार्थिव ।
येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे ॥ ८.२२.५८ ॥
国王啊,凭借那张弓,我胜过普塔;至于那位英雄般般度之子为何又胜过我,请从我这里听来。
8.22.59
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ।
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ॥ ८.२२.५९ ॥
执缰者是达沙尔哈,受一切世界礼敬;而阿耆尼所赐的神圣战车,以黄金装饰。
8.22.60
अच्छेद्याः सर्वतो वीर वाजिनश्च मनोजवाः ।
ध्वजश्च दिव्यो द्युतिमान्वानरोपि भयङ्करः ॥ ८.२२.६० ॥
勇士啊,他的马从各方面都无法被斩断,快如心念;他的旗帜神圣而光耀,其上的猴子也令人畏惧。
8.22.61
कृष्णश्च जगतः स्रष्टा रथं तमभिरक्षति ।
एभिस्त्रिभिरहं हीनो युद्वुमिच्छामि पाण्डवम् ॥ ८.२२.६१ ॥
创造世界的黑天守护着那辆战车。失去这三者的我,想要与般度之子作战。
8.22.62
अयं तु सदृशः शौरेः शल्यः समितिशोभनः ।
सारथ्यं यदि मे कुर्याद्द्रुवस्ते विजयो भवेत् ॥ ८.२२.६२ ॥
这位沙利耶与舒罗之子(黑天)相当,在战场上光彩夺目。若他为我驾车,你的胜利必定无疑。
8.22.63
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः ।
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥ ८.२२.६३ ॥
愿沙利耶成为我的御者,敌人难以战胜他。愿满载利箭与鹫羽箭的车辆为我而行。
8.22.64
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः ।
आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥ ८.२२.६४ ॥
王中之王啊,愿以良马驾驭的主要战车常随我身后而来。婆罗多之牛啊!
8.22.65
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् ।
शल्योप्यभ्यधिकः कृष्णादर्जुनादपिचाप्यहम् ॥ ८.२२.६५ ॥
如此,我在德行上将胜过般度之子(阿周那)。沙利耶也将胜过黑天,我也将胜过阿周那。
8.22.66
यथाऽश्वहृदयं वेद दाशार्हः परवीरहा ।
तथा शल्यो विजानीते हयज्ञानं महारथः ॥ ८.२२.६६ ॥
正如斩杀敌方英雄的达莎尔哈(黑天)通晓马之心,大车手沙利耶也精通马的学问。
8.22.67
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन ।
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः ॥ ८.२२.६७ ॥
论臂力,无人能与摩德罗王相比;论兵器,无人能与我这弓手相比。
8.22.68
तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन ।
सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम ॥ ८.२२.६८ ॥
同样,论马术,无人能与沙利耶相比。因此我的这辆战车将胜过克里希纳的战车。
8.22.69
एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात् ।
विजयेयमहं सङ्ख्ये फल्गुनं कुरुसत्तम ॥ ८.२२.६९ ॥
如此行事,我立于战车之上,德行胜过阿周那,将在战场上战胜法尔古那,库鲁之最。
8.22.70
समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः ।
एतत्कृतं महाराज त्वयेच्छामि परन्तप ॥ ८.२२.७० ॥
即便诸天与因陀罗同来,也无法攻击它。伟大的国王、制敌者啊,我希望这由你来完成。
8.22.71
क्रियतामेष कामो मे मा वः कालोऽत्यगादयम् ।
एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति ॥ ८.२२.७१ ॥
请实现我这个愿望;不要让你们的时机白白流逝。如此行事,我的一切都将由你成就。
8.22.72
ततो द्रक्ष्यसि सङ्ग्रामे यत्करिष्यामि भारत ।
सर्वथा पाण्डवान्सङ्ख्ये विजेष्ये वै समागतान् ॥ ८.२२.७२ ॥
那时,婆罗多后裔啊,你将看到我将做什么。在战场上,我必定会全面战胜聚集的般度五子。
8.22.73
न हि मे समरे शक्ताः समुद्यातुं सुरासुराः ।
किमु पाण्डुसुता राजन्रणे मानुषयोनयः ॥ ८.२२.७३ ॥
大王啊,在战场上连天神与阿修罗也不能与我抗衡,何况是生为人类的般度之子呢?
8.22.74
एवमुक्तस्तव सुतः कर्णेनाहवशोभिना ।
सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत् ॥ ८.२२.७४ ॥
光耀于战场的迦尔纳如此说罢,你的儿子敬重他,心中欢喜,便对罗陀之子说道。
8.22.75
एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे ।
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे ॥ ८.२२.७५ ॥
迦尔纳啊,你怎么想,我就怎么做;带着箭袋的战车与马匹,将在战斗中紧随你。
8.22.76
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु ते ।
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥ ८.२२.७६ ॥
愿你的车辆载运铁杆箭与鹫羽箭;迦尔纳啊,我们众王都将跟随你。
8.22.77
एवमुक्त्वा महाराज तव पुत्रः प्रतापवान् ।
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥ ८.२२.७७ ॥
大王啊,你那勇猛的儿子如此说罢,便走到摩德罗国王身边,说出了这番话。