摩诃婆罗多 · 章 8.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.24.1
भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु ।
यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो ॥ ८.२४.१ ॥
摩德罗之主啊,请听我接下来要说的:这是诸神与阿修罗之间那场古老战争的故事,主啊。
8.24.2
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः ।
ब्रुवतस्तदशेषेण मम राजर्षिसत्तम।
निबोध मनसा चात्र न ते कार्या विचारणा ॥ ८.२४.२ ॥
大苦行者摩根德耶对我父亲所说、并完整告诉我的内容,王中圣贤之最啊:请专心领会,对此不要有任何怀疑。
8.24.3
समुत्पन्नो हि राजानः प्रमोह इति निश्चयम् ।
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान् ॥ ८.२४.३ ॥
他们先确定国王中已生出迷惑,然后才对法与利的事务作出决断。
8.24.4
देवानामसुराणां च महानासीत्समुच्छ्रयः ।
सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन्।
ते निरस्तः कृता देवैर्दानवा बलगर्विताः ॥ ८.२४.४ ॥
诸神与阿修罗之间爆发了巨大的纷争。那时,辛醯迦之子们变得骄横,开始压迫诸神;而那些以力量自豪的檀那婆,则被诸神击败并驱逐。
8.24.5
तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः ।
निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः ॥ ८.२४.५ ॥
国王啊,那里第一场战争是塔拉迦之战;之后,据我们所闻,达提耶被诸神征服。
8.24.6
भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा ॥ ८.२४.६ ॥
他们的骄傲被打破,士气全失,于是进入了地底世界。
8.24.7
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥ ८.२४.७ ॥
君王啊,当檀那婆被征服后,塔拉卡有三个儿子:塔拉克沙、迦摩罗沙和毗昙yunmālin。
8.24.8
तप उग्रं समास्थाय नियमे परमे स्थिताः ।
तपसा कर्णयामासुर्देहांस्ताञ्शत्रुकर्शनाः ॥ ८.२४.८ ॥
他们修习严苛的苦行,安住于至高的戒律,这些降伏敌人者以苦行折磨自己的身体。
8.24.9
दमेन तपसा चैव नियमेन समाधिना ।
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ॥ ८.२४.९ ॥
祖父(梵天)因他们的克制、苦行、戒律与三昧而欢喜,这位赐恩者赐予他们一个恩惠。
8.24.10
अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा ।
सहिता वरयामासः सर्वलोकपितामहम् ॥ ८.२४.१० ॥
他们一同向众世界的祖父求取:在一切众生之中永远不被杀害的恩惠。
8.24.11
तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः ।
नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः।
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः ॥ ८.२४.११ ॥
那时,众世界之师、主神对他们说:"完全的不死并不存在。阿修罗们,从此回去吧。另选一个你们喜欢的恩惠。"
8.24.12
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः ।
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन् ॥ ८.२४.१२ ॥
于是,国王啊,他们一同反复深思良久,然后向众世界之主顶礼,对他说了这些话。
8.24.13
वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम् ।
सर्वकामसमृद्वार्थमवध्यं देवदानवैः ॥ ८.२४.१३ ॥
我们希望建造一座吉祥的城市,可随意移动,充满一切愿望的圆满,不受天神与阿修罗的伤害。
8.24.14
यक्षरक्षोरगगणैर्नानाजातिभिरेव च ।
न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम्।
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह ॥ ८.२४.१४ ॥
愿此三城不为夜叉、罗刹、蛇众所毁,不为各类众生所毁,不为咒术、兵器所毁,亦不为梵语者的咒诅所毁。神啊,曾祖,请赐予此恩。
8.24.15
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥ ८.२४.१५ ॥
我们仅在此大地上的三座城中安居,以你的恩典为先,将在这世间游行。
8.24.16
ततो वर्षसहस्रेषु समेष्यामः परस्परम् ।
एकीभावं गभिष्यन्ति पुराण्येतानि चानघ ॥ ८.२४.१६ ॥
此后经过千年,我们将相聚;无罪者啊,这些城将合而为一。
8.24.17
समागतानि चैतानि यो हन्याद्भगवांस्तदा ।
एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥ ८.२४.१७ ॥
当这些城聚合之时,若有那位尊神、诸神之最,一箭射中它们,他便将成为我们的死亡。
8.24.18
तेषां तद्वचनं श्रुत्वा दानवानां पितामहः ।
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥ ८.२४.१८ ॥
祖父神听了那些檀那婆的话,回答说:“就这样吧。”便进入了天界。
8.24.19
ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् ।
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः।
विश्वकार्माणमजरं दैत्यदानवपूजितम् ॥ ८.२४.१९ ॥
这些大车战士获得了恩赐,心中欢喜,彼此商议后,选定摩耶来建造三座城池;他如同不朽的毗首羯摩,为提奢与檀那婆所敬拜。
8.24.20
ततो मयः स्वतपसा चक्रे धीमान्पुराणि च ।
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा ॥ ८.२४.२० ॥
于是智慧的摩耶凭借自身苦行之力,建造了三座城:一座由黄金,一座由白银,一座由黑铁。
8.24.21
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।
आयसं चाभवद्भौमं तदा तेषां परन्तप ॥ ८.२४.२१ ॥
金城在天上,银城在空中,铁城则在地上——啊,灭敌者。
8.24.22
एकैकं योजनशतं विस्तृतं तावदायतम् ।
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम् ॥ ८.२४.२२ ॥
每座城宽一百由旬,长亦如此;城池坚固,设有望楼,有宏大的城墙与城门。
8.24.23
गृहप्रवरसम्बाधमसम्बाधमहापथम् ।
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम् ॥ ८.२४.२३ ॥
此城屋宇华美、人烟稠密,大道宽阔,并以各式楼阁与城门装饰。
8.24.24
त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक् ।
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम ॥ ८.२४.२४ ॥
那三座城中各有国王,皆为身着天上花环与衣裳的提奢,啊,诸王中最优秀的。
8.24.25
काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः ।
राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥ ८.२४.२५ ॥
伟大者塔拉卡克莎的神圣城市是金制的,卡玛拉克莎的是银制的,维迪尤特马林的是铁制的。
8.24.26
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा ।
आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः ॥ ८.२४.२६ ॥
那三位达蒂亚之王以其威力迅速征服三界,站立起来说:“究竟谁是造物主?”
8.24.27
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ।
कोट्याश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ॥ ८.२४.२७ ॥
那些主要檀那婆的数十万与数百万,以及无敌英雄的千万之众,从四面八方聚集而来。
8.24.28
मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा ।
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥ ८.२४.२८ ॥
他们是食肉且极其傲慢的,昔日曾被诸神击败,为了追求伟大的权势,便退入难以攻克的三城。
8.24.29
सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः ।
तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः ॥ ८.२४.२९ ॥
摩耶是掌握一切方略的人,是他们所有人,乃至这些人的依靠;依靠他,他们都无所畏惧地生活。
8.24.30
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः ।
तस्मै तस्मै मयस्तं तं विदधे मायया तदा ॥ ८.२४.३० ॥
三城之居者心中所思的任何愿望,摩耶便以幻术为他当场变现出来。
8.24.31
तारकाक्षसुतश्चासीद्वरिर्नाम महाबलः ।
तपस्तेपे परमकं येनातुष्यत्पितामहः ॥ ८.२४.३१ ॥
塔拉卡克莎之子名为瓦里,是大力之士。他修习至上的苦行,使祖父(梵天)心生欢喜。
8.24.32
सन्तुष्टमवृणोद्देवं वापी भवतुः नः पुरे ।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥ ८.२४.३२ ॥
神灵喜悦,他请求一个恩赐:愿我们城中有一池,被武器杀死者投入其中,将变得更加强大。
8.24.33
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ।
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो ॥ ८.२४.३३ ॥
那位英雄,塔拉卡克莎之子哈里,获得恩赐后,主啊,在那里造出了那池能使死者复活的水池。
8.24.34
येन रूपेण यो दैत्यो येन वेषेण चाप्यथ ।
क्षिप्यते निहतो वाप्यां तादृशेनैव जायते।
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः ॥ ८.२४.३४ ॥
无论以何种形貌、何种装束的阿修罗被杀后投入池中,便以同样的形貌重生。大王啊,他会具备完整的力量、精力与勇武。
8.24.35
एवं वीर्येण संयुक्तां कृतां तेन महात्मना ।
तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे ॥ ८.२४.३५ ॥
三城的阿修罗如此得到了那池——它充满力量,由那位大德所造——便压迫了一切世界。
8.24.36
महता तपसा सिद्धाः सुराणां भयवर्धनाः ।
एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान्।
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन ॥ ८.२४.३६ ॥
他们以大苦行成就,使诸天畏惧。一个阿修罗被杀,便化生十个阿修罗。大王啊,在战斗中,他们无论如何也不会灭亡。
8.24.37
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।
निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः ॥ ८.२४.३७ ॥
于是他们被贪欲与迷惑所征服,失去理智而无所畏惧,众人聚集在一起,同样贪婪地安立下来。
8.24.38
विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा ।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥ ८.२४.३८ ॥
他们到处驱赶诸神及其随从,时时如此,凭自己的意愿游荡,因所得的恩赐而骄傲自大。
8.24.39
देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम् ।
ऋषीणामाश्रमान्पुण्यान्रम्याञ्चनपदांस्तथा।
उत्सादयन्त मर्यादां दानवा दुष्टचारिणः ॥ ८.२४.३९ ॥
诸天的一切园林与住所、仙人们神圣而美好的修行处以及各个城邑,都被行为邪恶的檀那婆摧毁,破坏了既定的秩序。
8.24.40
निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह ।
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः ॥ ८.२४.४० ॥
诸神、仙人与祖先都失去了居所;那些与诸神为敌的达蒂亚们侵占了三界。
8.24.41
पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः ।
पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः ॥ ८.२४.४१ ॥
当世界遭受压迫之时,手持金刚杵、被诸风神环绕的因陀罗,从四面八方攻打那些城池。
8.24.42
नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः ।
पुराणि वरदत्तानि धात्रा तेन नराधिप ॥ ८.२४.४२ ॥
人主啊,当城池毁灭者因陀罗无法攻破那些坚不可摧的城池时——那些城池是造物主所赐予的恩赐。
8.24.43
तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ ।
तैरेव विबुधैः सार्धं पितामहमरिन्दम।
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः ॥ ८.२४.४३ ॥
于是恐惧的众神之主舍弃了那些城市,与那些天神一同,啊,降伏敌人者,前往祖父处,陈述非天众所造成的侮辱。
8.24.44
ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च ।
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन् ॥ ८.२४.४४ ॥
他们述说了全部真相,俯首顶礼,说道:“世尊啊,请告诉我们杀死他们的方法。”
8.24.45
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।
श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम् ॥ ८.२४.४५ ॥
闻此,世尊天神对诸天说:“三十三天的天神们,你们都听着这话的分量。”
8.24.46
दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम ।
न शक्नुवन्ति ते सर्वे युष्मान्वै पीडयन्ति ते ॥ ८.२४.४६ ॥
邪恶的阿修罗始终如此,天神也是我的;他们不能胜过你们,却都在折磨你们。
8.24.47
अहं समस्तु सर्वेषां भूतानां नात्र संशयः ।
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः ॥ ८.२४.४७ ॥
我对一切众生平等,此中无疑;但不驯服者应当被杀,我如此对你们说。
8.24.48
एकेषुणा विभेद्यानि तानि दुर्गाणि नान्यथा ।
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः ॥ ८.२४.४८ ॥
那些堡垒只能用一支箭射穿,别无他法;只有三眼神能够随意以此箭射穿它们。
8.24.49
ते यूयं स्थाणुमीशानं जिष्मुमक्लिष्टकारिणम् ।
योद्वारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान् ॥ ८.२४.४९ ॥
你们快速选择不动的斯塔努、主宰伊until……
8.24.50
ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः ।
दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः।
शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम् ॥ ८.२४.५० ॥
受那些话的鼓舞,诸神俯首而立;修行了千个神圣之年的苦行后,那些心地纯净、伟大的诸神中的雄杰前往那以公牛为旗的神。
8.24.51
ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः ।
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम् ॥ ८.२४.५१ ॥
以梵天为先,他们作为寻求庇护者来到庇护者面前;以至高的苦行,颂赞永恒的梵,他们前来。
8.24.52
अनङ्गमथनं सर्वे भवं सर्वात्मना गताः ।
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम् ॥ ८.२४.५२ ॥
他们全心全意地投靠了湿婆(Bhava)——爱神的毁灭者:诸神之神、至高者、不动的斯塔努、赐予恩惠者、三眼者、吉祥的湿婆。
8.24.53
शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम् ।
तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम्।
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना ॥ ८.२४.५३ ॥
他们以激昂的言辞赞颂湿婆:尊号为沙婆、值得赞颂、不生者、楼陀罗、发间带月之神——在险难中给予无畏者、不朽者、一切的自我、大我,以他的自我遍满整个世界。
8.24.54
तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः ।
यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वेशे सदा ॥ ८.२४.५४ ॥
通过种种特殊的苦行而了知自我之瑜伽者;以自我而知数论者;其自我常住于身中者。
8.24.55
तं ते ददृशुरीशानं तेजोराशिमुमापतिम् ।
परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम्।
अनन्यसदृशं लोके प्रतपन्तमकल्मषम् ॥ ८.२४.५५ ॥
诸天以极大努力得见他:伊舍那,光明之聚,乌玛之主——婆婆、濕婆、主宰,他在世间无与伦比,光辉照耀,清净无垢。
8.24.56
एकश्च भगवांस्तत्र नानारूपमकल्पयत् ।
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि।
परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥ ८.२४.५६ ॥
彼处,独一的世尊从自身化现出种种形相,与自身相似的形相;在那位大灵之中,众人看见了它们,个个惊讶万分,彼此相视。
8.24.57
सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम् ।
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥ ८.२४.५७ ॥
诸天与梵仙见到这由一切众生所成、无生、世界之主的他,便以头触地。
8.24.58
तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः ।
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥ ८.२४.५८ ॥
湿婆(商羯罗)为他们祝福、礼拜并扶起,然后面带微笑说道:“说吧,说吧!”
8.24.59
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः ।
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम् ॥ ८.२४.५९ ॥
得到三目者的许可后,他们心情安定,向婆婆说:“礼敬,礼敬,礼敬您,主啊!”
8.24.60
नमो देवाधिदेवाय प्रियाधाघ्नेऽतिमन्यवे ।
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते ॥ ८.२४.६० ॥
礼敬神中之神,毁灭所爱之物、极度愤怒者;礼敬毁灭生主祭祀者,被诸生主所赞颂者。
8.24.61
नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे ।
विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥ ८.२४.६१ ॥
敬礼被赞颂者、值得赞颂者、正被赞颂者、湿婆(Śambhu)。敬礼赤色者、楼陀罗、蓝颈者、持三叉戟者。
8.24.62
अमोघाय मृगाक्षाय प्रवरायुधयोधिने ।
अर्हाय चैव शुद्वाय क्षयाय क्रथनाय च ॥ ८.२४.६२ ॥
敬礼无失者、鹿眼者、持最胜兵器的战士、可敬者与清净者。敬礼毁灭者与杀戮者。
8.24.63
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ।
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे ॥ ८.२४.६३ ॥
敬礼不可阻挡者、光明者、梵、梵行者。敬礼主宰者、不可量者、杀戮者、披兽皮者。
8.24.64
तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे ।
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ॥ ८.२४.६४ ॥
敬礼专修苦行者、黄褐色者、持戒者、披兽皮者。敬礼童子之父、三眼者、持最胜兵器者。
8.24.65
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने ।
वनस्पतीनां पतये वनानां पतये नमः ॥ ८.२४.६५ ॥
敬礼消除归依者苦难者、摧破仇视梵者之众者。敬礼树木之主,敬礼森林之主。
8.24.66
गवां च पतये नित्यं यज्ञानां पतये नमः ।
नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥ ८.२४.६६ ॥
常向牛群之主、祭祀之主致敬。向携军的三眼者、无量威力者致敬。神啊,请以恩慈眷顾我们,我们以意、语、身归依于你。
8.24.67
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च ।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥ ८.२४.६७ ॥
于是欢喜的世尊以欢迎之礼向他们致意,说道:愿你们的恐惧消散;说吧,我为你们做什么?
8.24.68
देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः ॥ ८.२४.६८ ॥
诸神听了湿婆(Śarva)的话,心中充满欢喜。