摩诃婆罗多 · 章 8.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.25.1
पितृदेवर्षिसङ्घेभ्योऽभये दत्ते महात्मना ।
सत्कृत्य शंकरं प्राह ब्रह्मा लोकपितामहः ॥ ८.२५.१ ॥
当伟大者赐予祖先、天神和仙人众以安稳后,世界之祖梵天尊敬湿婆,说道:
8.25.2
इमान्यसुरदुर्गाणि लोकांस्त्रीनाक्रमन्ति हि ।
कश्च प्रजापतिर्घोरांस्तान्स्रर्वाञ्जहि मा चिरम् ॥ ८.२५.२ ॥
这些阿修罗的堡垒正在侵犯三界。造物主啊,请立即击灭那些可怕的敌人,不要迟延。
8.25.3
वरातिसर्गाद्देवेश प्राजापत्यमिदं परम् ।
मयाऽधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥ ८.२५.३ ॥
天神之主啊,我掌握着属于生主的这一至高恩赐时,曾赐予檀那婆们一个伟大的恩典。
8.25.4
नास्त्यन्यो युधि तेषां वै निहन्ता इति नः श्रुतम् ।
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति।
त्वामृते सर्वभूतेश त्वं ह्येषां प्रत्यरिर्वधे ॥ ८.२५.४ ॥
我们听说在战斗中杀死他们的,除你以外别无他人。能够消灭这些逾越界限者的,唯有你。万物之主啊,在消灭他们这件事上,你正是他们的敌人。
8.25.5
स त्वं देव प्रपन्नानां याचतां च दिवोकसाम् ।
कुरु प्रसादं वरद दानवाञ्जहि संयुगे ॥ ८.२५.५ ॥
天神啊,请向投靠你的人和向你祈求的天界居民施以恩惠。赐予恩惠者啊,请在战斗中击杀檀那婆!
8.25.6
त्वत्प्रसादाज्जगत्सर्वं सुखमैधत मानद ।
शरण्यस्त्वं हि देवानां वयं त्वां शरणं गताः ॥ ८.२५.६ ॥
赐予尊荣者啊,因你的恩惠,整个世界在幸福中繁荣。你是诸神的依归,所以我们来到你这里寻求庇护。
8.25.7
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः ।
न त्वेकश्चोत्सहे हन्तुं बलिनः सुरविद्विषः ॥ ८.२५.७ ॥
"所有敌人都应被杀,这是我的看法。但我一人无法杀死这些强大的诸神之敌。"
8.25.8
ते यूयं सहिताः सर्वे मदीयेनापि तेजसा ।
जयध्वं युधि तान्सर्वान्सङ्घातेन महाबलान् ॥ ८.२५.८ ॥
"你们一同,并借我的光辉,在战斗中以合力战胜那些大力之敌。"
8.25.9
अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव वा ।
तत्तेषामिति मन्यामो दृष्टतेजोबला हि ते ॥ ८.२५.९ ॥
"我们认为,他们的光辉与力量与我们相当,甚至加倍,因为我们已经见识过他们的光辉与力量。"
8.25.10
वध्यास्ते सर्वथा पापा ये युष्मास्वपराधिनः ।
मम तेजोबलार्धेन सर्वे मृद्गथ शात्रवान् ॥ ८.२५.१० ॥
"凡冒犯你们的罪人,都理应被彻底诛杀。以我的光辉与力量的一半,你们众人去碾碎那些敌人吧。"
8.25.11
बिभर्तुं तव तेजोर्धं न शक्ष्याम सुरेश्वर ।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ ८.२५.११ ॥
"诸神之主啊,我们连你光辉的一半也承受不住。请你以我们所有人力量的一半,独自杀灭那些敌人吧。"
8.25.12
वयं च सर्वथा देव रक्षणीयास्तथैव च ।
स नो रक्ष महादेव त्वमेव जहि शात्रवान् ॥ ८.२५.१२ ॥
"神啊,我们也理应得到全方位的护佑。大神啊,请护佑我们;请你独自杀灭那些敌人吧。"
8.25.13
मम तेजो न शक्ता हि सर्वे धारयितुं यदि ।
अहमेनान्वधिष्यामि युष्मत्तेजोर्धसंयुतः ॥ ८.२५.१३ ॥
若你们众人不能承受我的威光,我便与你们一半的威光相合,将杀死他们。
8.25.14
बलार्धं यदि मे देवा न धारयितुमाहवे ।
शक्ताः सर्वे हि सङ्गम्य यूयं तत्प्रब्रवीमि वः ॥ ८.२५.१४ ॥
诸神啊,若你们合力也不能在战斗中承受我一半的力量,我便将此告诉你们。
8.25.15
समा भवन्ति मे सर्वे दानवाश्चामराश्च ये ।
शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥ ८.२५.१५ ॥
檀那婆与不死者对我而言一视同仁。我对一切众生皆为吉祥;因此,诸神啊,我的吉祥也及于他们。
8.25.16
किन्त्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः ।
तस्माद्वध्या मयाप्येते युष्माकं च हितेप्सया ॥ ८.२५.१६ ॥
然而,这些诸神之敌行非法之事,因此我也为了你们的利益而必须杀死他们。
8.25.17
शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् ।
साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून् ॥ ८.२५.१७ ॥
对于投靠你们、并以法求胜的人,我将给予帮助,我将杀死你们的敌人。
8.25.18
दीयतां च बलार्धं मे सर्वैरपि पृथक्पृथक् ।
पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु पीडिताः ॥ ८.२५.१८ ॥
愿你们各自分别给我你们一半的力量;愿所有受苦的世界为我承担兽性(被束缚的状态)。
8.25.19
पशूनां तु पतित्वं मे भवत्वद्य दिवौकसः ।
एवं न पापं प्राप्स्यामि पशून्हत्वा सुरद्विपः ॥ ८.२५.१९ ॥
愿今日众生之主权归我,诸天之居者啊;如此杀死作为诸天之敌的牲畜,我便不会招致罪过。
8.25.20
कल्पयध्वं रथं दिव्यं रथाश्वांश्चैव पारगान् ।
धनुः शरं सारथिं च ततो जेष्यामि वो रिपून् ॥ ८.२५.२० ॥
为我备好神圣的战车、优良的马匹、弓、箭和御者;然后我就能战胜你们的敌人。
8.25.21
इति श्रुत्वा वचो देवा देवदेवस्य भूपतेः ।
विषादमगमन्सर्वे पशुत्वं प्रति शङ्किताः ॥ ८.२५.२१ ॥
诸神听了神中之神、大地之主的这些话,都为变成牲畜而忧惧,陷入了绝望。
8.25.22
तेषां भावं भवो ज्ञात्वा देवस्तानब्रवीदिदम् ।
मा वोस्तु पशुभावेऽस्मिन्भयं विबुधसत्तमाः ॥ ८.२५.२२ ॥
婆婆知道他们的心境,便对他们说:诸神中最优秀者啊,你们不必畏惧这牲畜之境。
8.25.23
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ॥ ८.२५.२३ ॥
请听从摆脱牲畜之境的方法,并去实行它。
8.25.24
यो वः पशुपतेश्चर्यां चरिष्यति स मोक्ष्यते ।
पशुत्वादिति सत्यं वः प्रतिजाने समागमे ॥ ८.२५.२४ ॥
你们中间行持帕舒帕提之修行者,将从牲畜之境解脱;我在此集会中以真实向你们承诺。
8.25.25
ये चाप्यन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति तेऽपि च ॥ ८.२५.२५ ॥
其他行此誓願者,也將得到解脫。
8.25.26
नैष्ठिकं द्वादशाब्दं वा अर्धमब्दमृतुत्रयम् ।
मासं द्वादशरात्रं गुह्यं व्रतं दिव्यं चरिष्यथ ॥ ८.२५.२६ ॥
十二年、或半年、或三季、或一月、或十二夜的誓願——這秘密神聖的誓願你們將要奉行。
8.25.27
तं तथेत्यब्रुवन्देवा देवदेवनमस्कृतम् ।
ऊचुश्चेदं गृहाणेदं तेजसोऽर्धमिति प्रभुम् ॥ ८.२५.२७ ॥
诸天对这位受天神之神礼拜的主说:「就这样吧。」又说:「请接受这个,这是你们光辉的一半。」
8.25.28
प्रत्युवाच तथेत्येव शूलधृद्राजसत्तम ।
ततस्ते प्रददुः सर्वे तेजसोऽर्धं महात्मने ॥ ८.२५.२८ ॥
执三叉戟者答道:「就这样吧。」于是他们都将自己光辉的一半献给了这位大德者。
8.25.29
सर्वमादाय सर्वेषां तेजसोऽर्धं दिवौकसाम् ।
तेजसाप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत् ॥ ८.२५.२९ ॥
他取得了诸天居民所有光辉的一半,光辉更胜一筹,再次变得极为强大。
8.25.30
ततः प्रभृति देवानां देवदेवोऽभवद्भवः ।
पतिश्च सर्वभूतानां पशूनां चाभवत्तदा ॥ ८.२५.३० ॥
从那时起,婆婆成为神中之神,也成为一切众生与牲畜之主。
8.25.31
तस्मात्पशुपतिश्चोक्तो भवत्वाच्च भवेति वै ।
अर्धमादाय सर्वेषां तेजसा प्रज्वलन्निव। ॥ ८.२५.३१ ॥
因此他被称为帕舒帕蒂,也被称为婆verse(Bhava)与“婆婆”。取众生之半,以其光辉如同燃烧般闪耀。
8.25.32
भासयामास तान्सर्वान्देवदेवो महाद्युतिः ।
ततोऽभिषिषिच्युः सर्वे सुरा रुद्रं पुरारिणम्। ॥ ८.२५.३२ ॥
神中之神,大光明者,照耀了他们所有人。随后诸天神为灭城之敌楼陀罗行了灌顶之礼。
8.25.33
महादेव इति ह्यासीद्देवदेवो महेश्वरः ॥ ८.२५.३३ ॥
因此他被称为摩诃提婆,即神中之神,大自在天。