摩诃婆罗多 · 章 8.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.26.1
तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने ।
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम् ॥ ८.२६.१ ॥
诸神将一半的光辉赐予大德的湿婆,又前往不朽的毗首羯摩,
8.26.2
ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति ।
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत् ॥ ८.२६.२ ॥
众神商议后说:「应当设计一辆战车。」毗首羯摩思虑之后,也造出了一辆神圣的战车。
8.26.3
समेतां पृथिवीं देवी विशालां पुरमालिनीम् ।
सपर्वतवनद्वीपां चक्रे भूतधरां रथम् ॥ ८.२६.३ ॥
他把统一、广阔、以城市为花环、拥有山岳森林与岛屿的大地女神,造成承载万物的战车。
8.26.4
ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम् ।
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम् ॥ ८.२६.४ ॥
星宿之轴与辕,以大山须弥为华盖,还有覆盖着无数树木的至上宝藏之海。
8.26.5
हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम् ।
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा ॥ ८.२६.५ ॥
喜马拉雅与温底耶山,遍布众多树木藤蔓,他当时便将其造成战车的下部与底座。
8.26.6
अस्तंगिरिमधिष्ठानं नानाद्विजगणायुतम् ।
चकार भगवांस्त्वष्टा उदयं रथकूबरम् ॥ ८.२६.६ ॥
吉祥的特瓦什特里将东方的日出之山造作成战车的中部,以西方的日落之山为基座,其上满是众多鸟群。
8.26.7
मीननक्रझषावासं दानवालयमुत्तमम् ।
समुद्रमक्षं विदधे पत्तनाकरशोभितम् ॥ ८.२६.७ ॥
他以海洋为轴,海洋是鱼、鳄和水族的居所,是檀那婆的至上居所,点缀着城市与矿藏。
8.26.8
चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम् ।
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम् ॥ ८.२६.८ ॥
他以一轮为缀满星群的月亮,另一轮为戴着光环的太阳。
8.26.9
गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः ।
अलङ्कारा रथस्यासन्नापगाः सरितस्तथा ॥ ८.२६.९ ॥
世界的不灭创造者以恒河和萨拉斯瓦蒂做箭袋;战车的装饰同样是河流与溪流。
8.26.10
त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम् ।
अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः ॥ ८.२६.१० ॥
他以咒语将三火造成战车的三节辕杆;战车上燃烧的牵引杆与覆盖物也成为星辰。
8.26.11
ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत् ।
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः ॥ ८.२६.११ ॥
这位全能者以草药、藤蔓和闪亮的铃网装饰战车;又以月、半月与季节装饰它。
8.26.12
अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा ।
द्यां युगं युगपर्वाणि संवर्तकबलाहरकान् ॥ ८.२६.१२ ॥
以昼夜、时分、瞬间与至点;以天、时代、时代之节以及劫灭之云……
8.26.13
शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च ।
ऋग्वेदं सामवेदं च धुर्यावश्वावकल्पयत् ॥ ८.२६.१३ ॥
沙米亚、坚定、智慧、安住与敬顺,以及《梨俱吠陀》和《娑摩吠陀》——他将这些造成战车轭上的两匹马。
8.26.14
पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा ।
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम् ॥ ८.२६.१४ ॥
作为后辔之马,设立了《夜柔吠陀》与同样的《阿闼婆吠陀》;他又造作了马的装饰与它们步伐的聚合。
8.26.15
सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम् ।
योक्ताणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान्। ॥ ८.२६.१५ ॥
西尼瓦利、阿奴玛蒂、库护、罗迦与光明的苏普拉跋,他造作为马的缰绳;又造作了枸桑魔与诸蛇。
8.26.16
तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ ।
इतरे चाभवन्नागा हयानां वाहबन्धनम् ॥ ८.२६.१६ ॥
多罗跋利史多、其后那呼沙、迦尔柯吒迦与达难闍耶,其余诸龙成为马的系缚之索。
8.26.17
अभीशवः षडङ्गानि कल्पितानि महीपते ।
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा ॥ ८.२६.१७ ॥
哦,大地之主,缰绳与六分支已被造作;唵字成为它的形体,其策杖由毗首羯磨所造。
8.26.18
यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः ।
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती ॥ ८.२६.१८ ॥
诸祭祀各自安置,车之部件也分别制成;心为其座,萨罗私瓦蒂为其环行之路。
8.26.19
नानावर्णानि शस्त्राणि पताकाः पवनेरिताः ।
विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत् ॥ ८.२६.१९ ॥
各色兵器与被风吹动的旗幡,配以闪电与彩虹,他以光辉使那辆战车焕然生辉。
8.26.20
वर्म योद्धुं च विहितं नमो ग्रहगणाकुलम् ।
अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम् ॥ ८.२६.२० ॥
为战斗而备的甲胄,布满群星;坚不可摧,明耀如日,奇妙非凡,并刻有时轮的印记。
8.26.21
एवमस्मिन्महाराज कल्पिते रथसत्तमे ।
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने ॥ ८.२६.२१ ॥
大王啊,如此,在由陀湿多所造、使敌人恐惧增长的那辆最上战车之上,人中虎啊,
8.26.22
स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे ।
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम् ॥ ८.२६.२२ ॥
湿婆将自己的神圣武器置于那辆战车上;以天空为旗杆,在其上立起牛(难提)的标志。
8.26.23
ब्रह्मदण्डः कालदम्डो रुद्रदण्डश्च ते ज्वराः ।
परिष्कारा र्थस्यासन्समन्ताद्दिशमुद्धताः ॥ ८.२६.२३ ॥
梵杖、时杖与楼陀罗杖——这些如热病般灼烧的兵器——是战车的装饰,从四面八方高高竖起。
8.26.24
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम् ॥ ८.२६.२४ ॥
他以六季构成的岁月制成那张奇妙的弓,又造出自己的影像;弓弦不朽而坚固。
8.26.25
कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः ।
तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा ॥ ८.२६.२५ ॥
时间确是尊贵的楼陀罗,那一年便是弓。因此,楼陀罗的时间黑夜被制成弓弦,即衰老。
8.26.26
ततो रथे रथाश्वांस्तानृषयः समयोजयन् ।
एकैकशः सुसंहृष्टानादाय सुधृतव्रताः ॥ ८.२६.२६ ॥
于是恪守誓愿的仙人们十分欢喜,逐一牵来那些战车马,将它们套在战车上。
8.26.27
दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः ।
सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः ॥ ८.२६.२७ ॥
大王,诵咒精通者将《梨俱吠陀》置于右辕,大仙们则将《娑摩吠陀》系于左边。
8.26.28
पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः ।
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः ॥ ८.२६.२८ ॥
在后右侧,诸天与再生者系上了《夜柔吠陀》;大王,另一侧的后方同样系上了《阿闼婆吠陀》。
8.26.29
एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे ।
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः ॥ ८.२६.२९ ॥
如此,由通晓祭祀者套在战车上的那些马,闪耀如同行进于祭祀之中。
8.26.30
कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत् ।
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम् ॥ ८.२६.३० ॥
备好神圣的战车之后,他思念不灭的哈里毗湿奴——以祭祀为坐骑者——然后制成了箭。
8.26.31
शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः ।
तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा ॥ ८.२६.३१ ॥
大心的毗首羯摩构思了一支箭,随后也制作了它的羽翎与箭扣。
8.26.32
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ।
अग्नीषोमौ शरमुखे कल्पयामास वै तदा ॥ ८.२६.३२ ॥
诸王之最!他那时将带来圣洁香气的风,以及阿耆尼与苏摩,置于箭头之上。
8.26.33
अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत् ।
विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥ ८.२६.३३ ॥
整个世界被说成是由阿耆尼与苏摩构成、属于毗湿奴的;毗湿奴是无量光明的神圣婆婆(湿婆)的自我。
8.26.34
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै ।
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः ॥ ८.२६.३४ ॥
因此,那位主宰忍受了弓弦触及箭身,并在那支箭中注入了锐利而难以忍受的愤怒。
8.26.35
भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः ।
स नीललोहितो धूम्रः कृत्तिवासा भयानकः ॥ ८.२६.३५ ॥
那团由婆利古与安吉罗之怒所生的愤怒之火,极其难以忍受;它呈深青红色,烟雾缭绕,身披兽皮,令人恐惧。
8.26.36
आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः ।
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः ॥ ८.२६.३६ ॥
婆婆(湿婆)与万个太阳相等,被光焰所包围;难行的遮瓦伽是胜利者,是诛杀婆罗门之敌者中最优秀的。
8.26.37
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् ।
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम् ॥ ८.२६.३७ ॥
这整个动与不动的世界依托于他的肢体而立,大王啊,他以奇妙的形象光辉闪耀。
8.26.38
दृष्टा तु तं रथं दिव्यं कवची स शरासनी ।
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम् ॥ ८.२६.३८ ॥
他见到那辆神车,披甲持弓的他取起了由月神、毗湿奴、火神与风神所生的神箭。
8.26.39
तमादाय महादेवस्त्रासयन्दैत्यदानवान् ।
आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥ ८.२६.३९ ॥
大神取过此箭,使提迪亚与达那婆惊惧,随即准备就绪,登上战车,仿佛要撼动天地。
8.26.40
महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः ।
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः ॥ ८.२६.४० ॥
受众大仙赞颂,受游吟歌者礼拜,并有擅长舞蹈的阿普萨拉群在他面前起舞。
8.26.41
स शोभमानो वरदः खङ्गी बाणी शरासनी ।
हसन्निवाब्रवीद्देवः सारथिः को भवेदिति ॥ ८.२६.४१ ॥
闪耀的赐福者,持剑、持箭、持弓的那位神仿佛微笑着说:“谁来做御者呢?”