摩诃婆罗多 · 章 8.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.27.1
तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते ।
स भविष्यति देवेश सारथिस्ते न संशयः ॥ ८.२७.१ ॥
诸神众对他说:“您所任命的人,那人,诸神之主啊,必将成为您的御者,毫无疑问。”
8.27.2
तानब्रवीन्महादेवो मत्तः श्रेष्ठतरो हि यः ।
तं सारथिं कुरुध्वं वै स्वयं सञ्चिन्त्य मा चिरम् ॥ ८.२७.२ ॥
大神对他们说:“请选一位比我更为优越的人作您的御者;你们自己考虑,不要拖延太久。”
8.27.3
एतच्छ्रुत्वा वचो देवाः सर्वे गत्वा पितामहम् ।
प्रणिपत्योचुरेकाग्राः प्रसाद्यैनं महर्षिभिः ॥ ८.२७.३ ॥
诸神听到这番话,都去见祖父,叩拜后,同心合意,与大仙众一起使他欢喜,然后说道。
8.27.4
त्वया यत्कथितं देव त्रिदशारिनिबर्हणे ।
तथा तत्कृतमस्माभिः प्रसन्नश्च वृषध्वजः ॥ ८.२७.४ ॥
“天神啊,您为诛灭三十三天之敌所说的话,我们已完全照办,而牛旗之神也已欢喜。”
8.27.5
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।
सारथिं च न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥ ८.२७.५ ॥
“我们已经准备好一辆装满各式武器的战车;但我们不知道,谁能成为那辆上好战车的御者。”
8.27.6
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम ।
सफलां तां गिरं देव कर्तुमर्हसि नो विभो।
एवमस्मासु हि पुरा भगवन्नुक्तवानसि ॥ ८.२७.६ ॥
“因此,诸神中最优秀的,请任命一位御者;大能者啊,您先前对我们所说的话,为我们使之成就,乃是应当的,尊贵者啊。”
8.27.7
सदैव युक्तो रथसत्तमो वै ।
दुराधर्षो द्रावणः शात्रवाणाम्।
पिनाकधन्वा विहितोऽत्र योद्धा ।
विभीषयन्दानवानुद्यतोऽसौ ॥ ८.२७.७ ॥
他始终严阵以待,是车战勇士中的最优者,能使敌人溃逃,难以战胜。此处被任命为战士,持Pināka神弓,准备震慑达那婆。
8.27.8
तथैव वेदाश्च हया रथाग्र्य ।
धरा सशैला च रथो महात्मनः।
नक्षत्रवंशानुगतो वरूथी ।
यस्मिन्योद्धा सारथिनाऽभिरक्ष्यः ॥ ८.२७.८ ॥
同样,吠陀、马、最好的战车、连同山岳的大地,以及追随星宿族的大德者披甲的战车,其中的战士应由御者护卫。
8.27.9
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ॥ ८.२७.९ ॥
在那里,必须寻找一位具备所有这些品质的出色御者。
8.27.10
तं प्रविष्टा रथं देवा रथयोद्वारमेव च ।
कवचानि च शस्त्राणि कार्मुकं च पितामह ॥ ८.२७.१० ॥
诸神已进入那辆战车,战车武士之门亦然;还有铠甲、武器与弓,啊祖父。
8.27.11
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ।
त्वं हि सर्वैर्गणैर्युक्तोदेवताभ्योऽधिकः प्रभो ॥ ८.२७.११ ॥
除你之外,我们在那里看不到其他御者。主啊,你具备所有这些品质,甚至超越诸神。
8.27.12
त्वं देव शक्तो लोकेश नियन्तुं प्रद्रुतानिमान् ।
वेदांश्च सोपनिषदः सारथिर्भव नः स्वयम् ॥ ८.२७.१२ ॥
啊神,世界之主,唯有你能够阻止这些逃散者。请你亲自做我们的御者,与吠陀和奥义书同在。
8.27.13
योद्वुं बलेन वीर्येण सत्वेन विनयेन च ।
अधिकःसारथिःकार्यो नास्ति चान्योऽधिको भवात् ॥ ८.२७.१३ ॥
作战时,应以力量、勇气、刚毅与谦逊胜过他人者为御者;无人胜过您。
8.27.14
स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्यय ।
भवानभ्यधिकस्त्वत्तो नान्योस्ति भविता त्विह ॥ ८.२७.१४ ॥
愿您救度我们;不朽者啊,请担任御者之职。此间再无胜过您之人。
8.27.15
त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर ।
तं रथं त्वं समारुह्य संयच्छ परमान्हयान् ॥ ८.२७.१५ ॥
您啊,天神之主,确是众人之上,善言者之首。请登上那辆战车,驾驭那些良马。
8.27.16
तव प्रसादाद्वध्येयुर्देव दैवतकण्टकाः ।
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात् ॥ ८.२७.१६ ॥
愿因您的恩典,诸天的荆棘被诛灭。大臂者啊,请您保护我们,免于来自阿修罗的巨大恐惧。
8.27.17
त्वं हि नो गतिरव्यग्र तवं न्त्रे गोप्ता महाव्रत ।
त्वत्प्रसादात्सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो ॥ ८.२७.१७ ॥
您是我们的依归,不动摇者啊;您是我们的守护者,大誓者啊。因您的恩典,诸天神在天界皆受尊崇,主啊。
8.27.18
इति ते शिरसाऽगच्छंस्त्रिलोकेशं पितामहम् ।
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥ ८.२७.१८ ॥
我们听说,诸神便低首前往三界之主的祖父那里,为御者之事而使他欢喜。
8.27.19
एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवात् ।
सारथित्वं करिष्यामि शङ्करस्य महात्मनः ॥ ८.२७.१९ ॥
梵天说:「诸天啊,此言不虚;无人胜过薄婆。我将为大德的湿婆御车。」
8.27.20
सर्वथा रथिनः श्रेयान्कर्तव्यो रथसारथिः ।
तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च सङ्गतान्।
संयच्छामि हयानेष विबुधाय कपर्दिने ॥ ८.२७.२० ॥
车战之士,必须有更优秀的御者。因此,我既明此实情,又见诸位聚集于此,便将亲自为那戴发髻的天神执掌马缰。
8.27.21
एवमुक्त्वा जटाभारं संयम्य प्रपितामहः ।
परिधायाजिनं गाढं सन्न्यस्य च कमण्डलुम्।
प्रतोदपाणिर्भगवानारुरोह रथं तदा ॥ ८.२७.२१ ॥
如此说罢,曾祖父束起那繁重的发髻,紧束鹿皮,放下净瓶,手执鞭策,那位尊贵者便登上了战车。
8.27.22
सारथौ कल्पिते देवैरीशानस्य महात्मनः ।
तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम्।
शिरोभिः पतिता भूमौ तुरगा वेदसम्भृताः ॥ ८.२७.२२ ॥
诸天为大德的伊舍那选定了御者;当他登上那由诸界所造的战车时,由吠陀所成的马匹,头颅垂落,倒在地上。
8.27.23
उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम् ।
ओढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम् ॥ ८.२७.२३ ॥
两位世界之主都登上了这最上乘的战车,吠陀之马无力承载,双膝跪倒在地。
8.27.24
अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः ।
अस्तु वीर्यं च शौर्यं च वेदाश्वानामिति प्रभुः।
रथं सञ्चोदयामास देवानां प्रभुरव्ययः ॥ ८.२७.२४ ॥
世尊举起缰绳,说:“愿吠陀马具有勇力与英武。”于是诸神中不灭的主宰驱车前进。
8.27.25
ततोऽधिरूढे वरदे रथं पशुपतिस्तदा ।
साधुसाध्विति देवेशं स्मयमानोऽभ्यभाषत ॥ ८.२७.२५ ॥
当赐恩者登上战车时,帕舒帕蒂微笑着对诸神之主说:“善哉,善哉!”
8.27.26
याहि देव यतो दैत्याश्चोदयाश्वानरिन्दम ।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥ ८.२७.२६ ॥
“神啊,前往达提耶所在之处;驱策骏马吧,降敌者啊。今日请看我双臂在战场上击杀敌人的力量。”
8.27.27
ततोऽश्वांश्चोदयामास मनोमारुतरंहसः ।
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम् ॥ ८.२७.२७ ॥
于是他驱策那如意念与风一般迅疾的骏马,直指天空中那些强大达那伐的城池。
8.27.28
ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः ।
क्षणेन तेन दैत्यानां पुराणि प्रापयन्हरम् ॥ ८.२७.२८ ॥
于是那些名为吠陀的战车骏马骤然腾起,刹那间便将哈罗带到了达提耶的城池。
8.27.29
अथर्वाङ्गिरसौ चास्तां चक्ररक्षौ महात्मनः ।
अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम्।
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥ ८.२७.२९ ॥
阿闼婆与安祈罗斯守护着那位大德的车轮。于是湿婆张弓搭箭,将那支箭与帕舒帕塔神箭相合,心中专注于三座城市。
8.27.30
तस्मिन्स्थिते ततो राजन्रुद्रे सज्जितकार्मुके ।
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै ॥ ८.२७.३० ॥
大王啊,楼陀罗张弓而立之时,那些城池很快便合而为一。
8.27.31
एकीभावं गते चैव त्रिपुरत्वमुपागते ।
बभूव तुमुलो हर्षो देवतानां महात्मनाम् ॥ ८.२७.३१ ॥
当它们合为一体、成为三城之态时,诸位大德天神之间爆发出一片欢腾。
8.27.32
ततो देवगुणाः सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम् ॥ ८.२७.३२ ॥
于是,诸天神众、成就者与至上仙人皆齐声高呼“胜利!”,赞颂大自在天。
8.27.33
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् ।
अनिर्देश्याग्र्यवपुषो देवस्यासह्यतेजसः ॥ ८.२७.३३ ॥
于是,在杀戮阿修罗的天神面前,三城显现;天神的形貌不可言说而至为殊胜,其威光令人难以承受。
8.27.34
त्रीणि दृष्ट्वैव संस्थानि पुराण्यथ पिनाकधृत् ।
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः।
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ॥ ८.२७.३४ ॥
楼陀罗手持毗那迦弓,见三城并立,便拉开那神弓,将三界精华之箭射向三城。
8.27.35
एकबाणेन तं देवस्त्रिपुरं परमेश्वरः ।
निजघ्ने सासुरगणं देवदेवो महेश्वरः ॥ ८.२७.३५ ॥
天神中的天神、至上主楼陀罗,以一箭便摧毁了那三城及阿修罗众。
8.27.36
बाणतेजोग्निदग्धं तद्विप्रकीर्णं सहस्रधा ।
महदार्तस्वरं कृत्वा नावशेषमुपागतम्।
मद्रेश सासुरगणं प्रापतत्पश्चिमार्णवे ॥ ८.२७.३६ ॥
那城被箭之光焰所焚,分崩成千块,发出巨大的哀号,无一残留。哦,摩德罗之主,连同阿修罗众一起坠入西方的大海。
8.27.37
एवं हि त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥ ८.२७.३७ ॥
三城就这样被焚毁,檀那婆也被彻底消灭,这是由愿三界安乐的愤怒的大自在天所为。
8.27.38
स चात्मक्रोधजो विह्निर्दहेत्युक्तो निवारितः ।
त्रैलोक्यमविशेषेण पुनर्दग्धुं प्रचक्रमे ॥ ८.२७.३८ ॥
那由他自己的愤怒所生之火,虽曾被告知“烧吧”而又被制止,却再次开始不分好坏地焚烧三界。
8.27.39
कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः ।
माकार्षीर्भस्मासाल्लोकानिति त्र्यक्षोऽब्रवीद्वचः ॥ ८.२७.३९ ॥
那火如时间之火般一再升起要焚尽一切,三眼者对它说了这些话:“不要把诸世界化为灰烬。”
8.27.40
ततः प्रकृतिमापन्ना देलोकास्तथर्षयः ।
तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुं त्रिपुरवैरिणम् ॥ ८.२७.४० ॥
于是诸天界与诸仙人也恢复了常态,以最殊胜的言辞赞颂那摧毁三城的不动者(斯坦奴)。
8.27.41
तेऽनुज्ञाता भगवता सर्वे जग्मुर्यथागतम् ।
कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥ ८.२७.४१ ॥
蒙世尊允许后,以生主为首的诸天众愿望已遂,便各自沿原路返回。
8.27.42
एवं रुद्रस्य कृतवान्सारथ्यं तु पितामहः ।
संयच्छ तुरगानस्य राधेयस्य महात्मनः ॥ ८.२७.४२ ॥
正如祖父曾为楼陀罗御车,你也请执掌这位大心者罗陀之子(迦尔纳)的马缰。
8.27.43
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च गुणाधिकः ।
बलतो रूपतो योगादस्त्रसम्पद एव च ॥ ८.२७.४३ ॥
你在德能上胜过克利须那、迦尔纳和胜财(阿周那),无论力量、容貌、技艺还是神兵之富。
8.27.44
समासक्तं महीपाल कुरु मे हितमीप्सितम् ।
युद्वे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ।
तस्माच्छक्तौ युवां जेतुं मच्छत्रून्दिवि वा सुरान् ॥ ८.२७.४४ ॥
啊,大地的守护者,请全心为我谋求所愿的福利。在战斗中,此人如同楼陀罗,而你,无垢者,如同梵天。因此你们二人足以战胜我的敌人,无论他们在大地上,还是天上的诸神。
8.27.45
स यथा शल्य कर्णोऽयं श्वंताश्वं कृष्णसारथिम् ।
प्रमथ्य हन्यात्कौन्तेयं तथा नीतिर्विधीयताम् ॥ ८.२७.४५ ॥
啊,沙利耶,请筹划一个计策,使迦尔纳能够击碎那位白马、以克利须那为御者的贡蒂之子(阿周那)并将其杀死。
8.27.46
त्वयि राज्यं सुखं चैव जीवितं जयमेव च ।
समासक्तं महीपाल कुरु मे हितमीप्सितम् ॥ ८.२७.४६ ॥
王国、幸福、生命乃至胜利,都系于你身。啊,大地的守护者,请全心为我谋求所愿的福利。
8.27.47
संयच्छास्य हयान्त्राजन्मत्प्रियार्थं परन्तप ॥ ८.२७.४७ ॥
啊,国王,灼伤敌人者,为了我所珍爱的,请执掌此人的马缰。