摩诃婆罗多 · 章 8.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.28.1
इमं चाप्यपरं भूय इति हासं निबोध मे ।
पितुर्मम सकाशे वै ब्राह्मणः प्राह धर्मवित् ॥ ८.२८.१ ॥
请听我再讲一个故事,那是在我父亲面前,一位通晓法的婆罗门所讲。
8.28.2
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थतत्त्ववित् ।
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥ ८.२८.२ ॥
沙利耶啊,听了这番奇妙的话,既然通晓因、果与目的之真理,就请坚定地作出决定吧,此处不应再有犹疑。
8.28.3
भार्गवाणां कुले जातो जमदग्निर्महातपाः ।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ ८.२८.३ ॥
在婆利古(Bhṛgu)族中生出了大苦行者伽玛达格尼;他具有光辉之德的儿子,以“罗摩”之名闻名于世。
8.28.4
स तीव्रं तप आस्थाय सम्प्रसादितवान्भवम् ।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ ८.२८.४ ॥
他修持严酷的苦行,为求兵器而使婆婆(湿婆)欢喜;心境平和,克己自持,诸根调伏。
8.28.5
तस्मै तुष्टो महादेवो भक्त्या च प्रशमेन च ।
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः।
प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः ॥ ८.२८.५ ॥
大天神湿婆(Śaṅkara)因他的虔诚与平和而欢喜,知晓他心中所想,便显现于他面前,现出自身之形,他是众生的庇护者。
8.28.6
राम तुष्टोऽस्मि भद्रं ते विदितं तव चेप्सितम् ।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥ ८.२८.६ ॥
罗摩啊,我很欢喜,愿你吉祥。我知道你的心愿。请净化你自己;这一切你都将得到。
8.28.7
दास्यामि ते तदाऽस्त्राणि यदा पूतो भविष्यसि ।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥ ८.२८.७ ॥
待你清净之时,我便把那些兵器赐予你。婆利古之子啊,兵器会焚毁不配且无能之人。
8.28.8
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना ।
प्रत्युवाच महात्मानं शिरसाऽवनतः प्रभुम् ॥ ८.२८.८ ॥
众神之神、持三叉戟者如此说道,耶摩达格尼之子低首,回答那位大德之主。
8.28.9
यदा जानासि देवेश पात्रं मामस्त्रधारणे ।
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥ ८.२८.९ ॥
天神之主啊,若您知道我堪持兵器,那么您便应当把兵器赐予我。我愿意侍奉。
8.28.10
ततः स तपसा चैव व्रतेन नियमेन च ।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥ ८.२८.१० ॥
于是他以苦行、誓愿与戒律,并以伴随火祭与咒语的供养、礼物与祭献来崇拜他。
8.28.11
समाराधितवाञ्शर्वं बहुवर्षगणांस्तदा ।
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ ८.२८.११ ॥
于是他多年来以供养取悦湿婆(沙尔瓦),大天神对那位大德的婆利古之子感到欢喜。
8.28.12
असकृच्चाब्रवीत्तस्य गुणान्देव्याः सकाशतः ।
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ ८.२८.१२ ॥
他在女神面前一再称述他的德行:“这位罗摩始终对我虔诚,立誓坚定。”
8.28.13
एवमस्य गुणान्प्रीतो बहुशो कथयद्विभुः ।
देवतानां पितॄणां च समक्षमरिसूदन ॥ ८.२८.१३ ॥
如此,欢喜的主神在众神与祖先面前多次讲述他的德行,啊,敌人的摧毁者。
8.28.14
एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः ।
तैस्तदा दर्पमोहाद्वै अबाध्यन्त दिवौकसः ॥ ८.२८.१४ ॥
就在那时,有强大的达蒂亚,他们因傲慢与迷惑而压迫天界的居民。
8.28.15
ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः ।
चक्रुः शत्रुवधे यत्नं दैत्याञ्चेतुमशक्नुवन् ॥ ८.२८.१५ ॥
于是诸神聚集在一起,决心杀死他们;因无法战胜达蒂亚,便努力消灭敌人。
8.28.16
अभिगम्य ततो देवा महेश्वरमुमापतिम् ।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति ॥ ८.२८.१६ ॥
于是诸神来到乌玛之主摩醯湿伐罗面前,以虔敬之心使他欢喜,说:“请消灭敌人的军队!”
8.28.17
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् ।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥ ८.२८.१७ ॥
允诺消灭诸神的敌人之后,天神湿婆召来婆利古之子罗摩,对他说道。
8.28.18
रिपून्भार्गव देवानां जहि सर्वान्समागतान् ।
लोकानां हितकामार्थं मत्प्रियार्थं तथैव च ॥ ८.२८.१८ ॥
啊,婆利古之子,为世界的福祉,也为了使我欢喜,请消灭所有聚集起来的诸神之敌。
8.28.19
का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे ।
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥ ८.२८.१९ ॥
天神之主啊,我未习兵器,何以能在战斗中杀尽所有精通兵器、因好战而狂妄的檀那婆?
8.28.20
गच्छ त्वं मदनुज्ञानान्निहनिष्यसि शात्रवान् ।
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥ ८.२८.२० ॥
去吧,凭我的允许,你将杀死敌人;战胜一切敌人之后,你将获得丰厚的功德。
8.28.21
एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः ।
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥ ८.२८.२१ ॥
罗摩听了这些话并全部接受,举行了吉祥仪式,便向檀那婆出发了。
8.28.22
ततोऽजयद्देवशत्रून्महादर्पबलान्वितान् ।
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥ ८.२८.२२ ॥
于是婆利古之后以如雷电般的打击,战胜了天神的敌人,那些骄傲而强大的敌人。
8.28.23
स दानवैः क्षततनुर्जामदग्न्यो नृपोत्तम ।
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समपद्यत ॥ ८.२८.२३ ॥
王中至尊啊,被檀那婆伤了身体的耶摩达格尼,被树桩一触,立即伤口愈合,毫发无伤。
8.28.24
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै ।
वरान्प्रादाद्बहुविधान्भार्गवाय महात्मने ॥ ८.२८.२४ ॥
那位世尊天神因此行而欢喜,便赐予伟大的婆利古之后种种恩惠。
8.28.25
उक्तश्च प्रीतियुक्तेन देवदेवेन शूलिना ॥ ८.२८.२५ ॥
持三叉戟的神中之神欢喜地这样说道。
8.28.26
निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा ।
तया ते मानुषं कर्म व्यपोहं भृगुनन्दन।
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितं ॥ ८.२८.२६ ॥
婆利古之子啊,武器的打击在你身上所造成的痛楚,这人间之事我将消除。你可随心所欲地从我这里取得神圣的武器。
8.28.27
ततोऽस्त्राणि समग्राणि वरांश्च मनसेप्सितान् ।
लब्ध्वा बहुविधान्रामः प्रणम्यशिरसा शिवम्।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ॥ ८.२८.२७ ॥
于是罗摩获得了全部武器和心中所愿的种种恩赐,向湿婆低首致敬,得到天神之主的许可,那位大苦行者便离去了。
8.28.28
एवमेतत्पुरावृत्तं तथा कथितवानृषिः ॥ ८.२८.२८ ॥
这古老的事情确实如此,正如那位仙人所说。
8.28.29
भार्गवोऽपि ददौ सर्वं धनुर्वेदं महात्मने ।
कर्णाय पुरुषव्याघ्रः सुप्रीतेनान्तरात्मना ॥ ८.२८.२९ ॥
婆利古之子也将全部弓箭之学传给了伟大的迦尔纳;那人中之虎怀着极度欢喜的内心这样做了。
8.28.30
वृजिनं न भवेत्किञ्चिदस्य कर्णस्य पार्थिव ।
सूतेन वर्धितो नित्यं न सूतो नृप एव सः ॥ ८.२८.३० ॥
国王啊,愿迦尔纳不遭任何祸害。他虽然一直由御者抚养,实际上他并不是御者,国王啊。
8.28.31
विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदाद्भृगुः ।
नापि सूतकुले जातं मन्ये कर्णं कथञ्चन।
देवपुत्रमदं मन्ये क्षत्रियाणां कुलोद्भवम् ॥ ८.२८.३१ ॥
婆里古知其血统纯正,授予他神圣的武器。我认为迦尔纳绝不是出生于御者之家。我认为他是天神之子,出生于刹帝利之族。
8.28.32
विसृष्टमविबोधार्थं कुलस्येंति मतिर्मम ।
सर्वथा न ह्यसो शल्य कर्णः सूतकुलोद्भवः ॥ ८.२८.३२ ॥
我的看法是,他因无知而被家族抛弃。哦,沙利耶,迦尔纳绝非出生于御者之家。
8.28.33
सकुण्डलं सकवचं दीर्घबाहुमरिन्दमम् ।
कथमादित्यसङ्काशं मृगी सिंहं प्रसूयते ॥ ८.२८.३३ ॥
佩戴耳环与铠甲,臂膀修长,制服敌人,如太阳般光耀。母鹿怎能生出这样的狮子?
8.28.34
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ ।
वक्षः पश्य विशालं च सर्वशस्त्रसहं रणे ॥ ८.२८.३४ ॥
看他粗壮的手臂,如象王的鼻子。看他宽阔的胸膛,能承受战场上的一切兵器。
8.28.35
न त्वेव प्राकृतः कश्चित्कर्णो वैकर्तनो वृषा ।
महात्माह्येष राजेन्द्र रामशिष्यः प्रतापवान् ॥ ८.२८.३५ ॥
迦尔纳绝非凡人;他是毗迦尔摩之子,雄牛。哦,王中之王,这位大德是罗摩的弟子,威力无比。