Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.29.1

एवं स भगवान्देवः सर्वलोकपितामहः ।
सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी ॥ ८.२९.१ ॥

如此,那位世界之祖的世尊之神在那里担任御者;梵天成为御者,楼陀罗成为车中战士。

8.29.2

रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः ।
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ॥ ८.२९.२ ॥

勇士啊,御者应当胜过车中的战士;因此,人中之虎啊,你要在战斗中勒住马匹。

8.29.3

यथा देवगणैस्तत्र वृतो यत्नात्पितामहः ।
तथाऽस्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः ॥ ८.२९.३ ॥

正如那里诸神之众小心地护卫着祖父,我们也慎重地选择了您,认为您甚至胜过迦尔纳。

8.29.4

यथा देवैर्महाराज ईश्वरादधिको वृतः ।
तथा देवैर्महाराज क्षिप्रं रुद्रस्यव पितामहः।
नियच्छ तुरगान्युद्वे राधेयस्य महाद्युते ॥ ८.२९.४ ॥

正如诸神选择了超越主宰者的人,大王啊,诸神也迅速选择了楼陀罗的祖父。光辉的人啊,在战斗中勒住罗陀之子(迦尔纳)的马匹吧。

8.29.5

मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः ।
कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम् ॥ ८.२९.५ ॥

最优秀的人啊,关于这两位人中之狮,我也多次听人讲述过这个神圣而超凡的故事。

8.29.6

यथा च चक्रे सारथ्यं भवस्य प्रपितामहः ।
यथाऽसुराश्च निहता इषुणैकेन भारत ॥ ८.२९.६ ॥

薄婆(湿婆)的曾祖如何担任御者,以及阿修罗如何被一支箭所杀,婆罗多啊。

8.29.7

कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत् ॥ ८.२९.७ ॥

克里希那早已知晓这一切。

8.29.8

यथा पितामहो जज्ञे भगवान्सारथिस्तदा ।
अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः ॥ ८.२९.८ ॥

正如彼时始祖世尊曾为御者,克里希那也真实地知晓未来与过去。

8.29.9

एतदर्थं विदित्वाऽपि सारथ्यमुपजग्मिवान् ।
स्वयम्भूरिव रुद्रस्य कृष्णः पार्थस्य भारत ॥ ८.२९.९ ॥

克里希那明知其故,仍来为般度之子(阿周那)御车,如自生者(梵天)为楼陀罗御车一般,婆罗多啊。

8.29.10

यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चनः ।
दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः ॥ ८.२९.१० ॥

若御者之子不知何故杀了贡蒂之子,克舍婆见般度之子已死,便会亲自出战。

8.29.11

शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम् ।
न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः।
स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव ॥ ८.२९.११ ॥

他手持螺号、轮盘与铁锤,将焚毁你的军队。在那位震怒的伟大灵魂、韦湿尼族后裔面前,你的任何一位国王都无法在敌阵中站稳。

8.29.12

सञ्जय उवाच ।
तं तथा भाषमाणं तु मद्रराजमरिन्दमः।
प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव ॥ ८.२९.१२ ॥

桑贾耶说:摩德罗王如此说话时,你的儿子——降伏敌人的、臂力强大、心志不屈的人——回答了他。

8.29.13

मावमंस्था महाबाहो कर्णं वैकर्तनं रणे ।
सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपरागम् ॥ ८.२९.१३ ॥

啊,大臂者,在战场上不要轻视毗迦尔坦那之子迦尔纳;他是一切持武器者中最优秀的,精通一切论典之义。

8.29.14

यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत् ।
पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश ॥ ८.२९.१४ ॥

听到其弓弦之可怖巨响,般度之子的军队便四散奔逃,逃向十方。

8.29.15

प्रत्यक्ष ते महाबाहो यथा रात्रौ घटोत्कचः ।
मायाशतानि कुर्वाणो हतो मायापुरस्कृतः ॥ ८.२९.१५ ॥

啊,大臂者,正如夜间的迦托迦差,化作数百种幻术、以幻术为先,被杀害,此事就发生在你的眼前。

8.29.16

न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन ।
एतांश्च दिवसान्सर्वान्भयेन महता वृतः ॥ ८.२९.१६ ॥

在这些日子里,被巨大恐惧所包围的毗跋蹉(阿周那)始终无法坚定地抵挡敌军。

8.29.17

भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः ।
उक्तश्च संज्ञया राजन्मूढ औदरिको यथा ॥ ८.२९.१७ ॥

力大的毗摩森那被弓梢所驱使,啊,国王,他像愚蠢的贪食者一样被以手势召唤。

8.29.18

माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे ।
कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष ॥ ८.२९.१८ ॥

先生,他在大战中战胜了摩德丽的两位英勇之子,却并未在战斗中杀死他们,而是出于某种考量。

8.29.19

येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः ।
निर्जित्य समरे शूरो विस्थश्च बलात्कृतः ॥ ८.२९.१९ ॥

他在战斗中击败了吠瑟尼英雄中的翘楚、萨特瓦塔中的最优者萨谛奇,并以武力制服了英雄毗什塔。

8.29.20

सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः ।
असकृन्निर्जिताः सङ्ख्ये स्मयमानेन संयुगे ॥ ८.२९.२० ॥

以德里湿陀衍王为首的所有圣阁耶人及其他战士,都被那位含笑作战的勇士在战斗中屡次击败。

8.29.21

तं कथं पाण्डवा युद्वे विजेष्यन्ति महारथम् ।
यो हन्यात्समरे क्रुद्वो वज्रहस्तं पुरन्दरम् ॥ ८.२९.२१ ॥

般度之子如何能在战斗中战胜那位大车将?他若愤怒,便能在战斗中杀死手持金刚杵的补兰达罗(因陀罗)。

8.29.22

त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः ।
बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन ॥ ८.२९.२२ ॥

你是通晓一切兵器的英雄,精通一切学问与兵器;论臂力,大地上没有人能与你相比。

8.29.23

त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे ।
ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन ॥ ८.२९.२३ ॥

你对敌人而言如同尖刺,在勇武上令人难以忍受;因此,国王啊,灭敌者,你被称为“沙利耶”(刺)。

8.29.24

तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः ।
तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः ॥ ८.२९.२४ ॥

遇到你的臂力,所有萨特瓦塔人都无法抵挡;国王啊,克里希那在力量上难道胜过你的臂力吗?

8.29.25

यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते ।
तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम् ॥ ८.२९.२५ ॥

正如法尔古那(阿周那)被杀时,克里希那必须承受巨大的力量,同样,在迦尔纳陨落之时,你也必须承受巨大的力量。

8.29.26

किमर्थं समरे सैन्यं वासुदेवो न्यवारयत् ।
किमर्थं च भवान्सैन्यं न हनिष्यति मारिष ॥ ८.२९.२६ ॥

在战斗中,婆苏提婆为何阻止了军队?噢,尊贵的人,你为何不去杀戮军队?

8.29.27

त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष ।
सोदराणां च वीराणां सर्वेषां च महीक्षिताम् ॥ ८.२९.२७ ॥

噢,尊贵的人,为了你,我愿在战斗中走上兄弟、英雄和所有国王所走的道路。

8.29.28

यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद ।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ ८.२९.२८ ॥

噢,甘陀罗王,赐人荣誉者,你说在军队前列我胜过提婆吉之子,因此我对你感到欣慰。

8.29.29

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ ८.२९.२९ ॥

噢,英雄,正如你所想,我承担起名声显赫的罗陀之子(迦尔纳)的御者之职,他正与般度诸子中的首领作战。

8.29.30

समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ ॥ ८.२९.३० ॥

噢,英雄,关于维卡尔塔那(迦尔纳),我有一个条件:在这些话语面前,我可以随心所欲地说话。

8.29.31

तथेति राजन्पुत्रस्ते सह कर्णेन मारिष ।
अब्रवीत्मद्रराजानं सर्वक्षत्रस्य सन्निधौ ॥ ८.२९.३१ ॥

王啊,你的儿子与迦尔纳一起说:“就这样吧。”然后在所有刹帝利面前,他对摩德罗国王说道。

8.29.32

सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा ।
दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे ॥ ८.२९.३२ ॥

因沙利耶答应担任御者而得到安慰,难敌此时欢喜,拥抱了迦尔纳。

8.29.33

अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव ।
जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव ॥ ८.२९.३३ ॥

受赞誉的你的儿子又对迦尔纳说:“如同因陀罗击杀檀那婆一样,在战场上击杀所有般度之子吧。”

8.29.34

स शल्येनाभ्युपगते हयानां सन्नियच्छने ।
कर्णो हृष्टमना भूयो दुर्योधनभाषत ॥ ८.२९.३४ ॥

沙利耶答应驾驭马匹后,迦尔纳心中欢喜,又对难敌说话。

8.29.35

नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते ।
राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै ॥ ८.२९.३५ ॥

这位摩德罗国王说话时心中并不十分欢喜。王啊,请用甜美的言辞再次与他交谈。

8.29.36

ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली ।
दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम् ॥ ८.२९.३६ ॥

于是,大智慧、精通一切兵器且强有力的国王难敌,对摩德罗国王、大地之主沙利耶说道。

8.29.37

पूरयन्निव घोषेण मेघगम्भीरया गिरा ।
शल्य कर्णोऽर्जुनेनाद्य योद्वव्यमिति मन्यते ॥ ८.२९.३७ ॥

以如云般深沉的声音充满喧响(难敌说道):“沙利亚,迦尔纳认为今天他必须与阿周那作战。”

8.29.38

तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ।
कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति।
तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः ॥ ८.२९.३८ ॥

“人中虎啊,你要在战斗中控制他的马匹。迦尔纳杀尽其余诸人,想要杀死法尔古那(阿周那)。国王啊,我一再恳求你为他执掌缰绳。”

8.29.39

पार्थस्य सचिवः कृष्णो यथाऽभीषुग्रहो वरः ।
तथा त्वमपि राधेयं सर्वतः परिपालय ॥ ८.२९.३९ ॥

“正如克里希那作为般度子(阿周那)的伴侣,是最好的执缰者,你也应当从各方面保护罗陀之子(迦尔纳)。”

8.29.40

ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् ।
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा ॥ ८.२९.४० ॥

于是,欢喜的摩德罗王沙利亚拥抱了你的儿子、灭敌者难敌,并说出了这些话。

8.29.41

एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन ।
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ॥ ८.२९.४१ ॥

“国王啊,甘陀利之子,面目可爱的人,若你如此认为,那么凡是你所珍爱的,我都会为你去做。”

8.29.42

यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् ।
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप ॥ ८.२९.४२ ॥

“婆罗多族中最优秀的人啊,无论我何时适合去做什么事,我都会全心全意去做,敌人的烧灼者啊。”

8.29.43

यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये ।
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥ ८.२९.४३ ॥

我出于对迦尔纳的善意所说的任何悦耳或逆耳之言,愿你与迦尔纳在各方面都原谅我。

8.29.44

ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः ।
तथा नित्यं हिते युक्तो मद्रराज भवस्व नः ॥ ८.२९.४४ ॥

如梵天之于自在天,克舍婆之于般度之子,你也应当永远专心于我们的利益,摩德罗之王啊。

8.29.45

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ ८.२९.४५ ॥

自责、自夸、非议他人、赞美他人——这四种行为,高贵者是不奉行的。

8.29.46

यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव ।
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ॥ ८.२९.४६ ॥

智者啊,为了让你相信,我将说出与我自身赞誉相关的话,你要照实听好。

8.29.47

अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो ।
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः ॥ ८.२९.४७ ॥

主啊,我能像摩多梨一样胜任因陀罗的御者,凭借警觉、练习、知识、学问与技艺。

8.29.48

ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ ।
वाहयिष्यामि तुरगान्विज्वरो भव सूतज ॥ ८.२९.४८ ॥

无罪者啊,那时你与般度之子在战场上作战,我将驾驭马匹;御者之子啊,不要忧虑。