Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.30.1

अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति ।
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः ॥ ८.३०.१ ॥

迦尔纳啊,这位摩德罗国王将为你驾车。如同天神之主的御者摩偷利,他将比克里希纳更出色。

8.30.2

यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः ।
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम् ॥ ८.३०.२ ॥

如同摩偷利驾驭套着黄褐色骏马的战车,今日沙利耶将为你驾驭战车的马匹。

8.30.3

योधे त्वयि रथस्थे च मद्रराजे च सारथौ ।
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति ॥ ८.३०.३ ॥

你作为战士立于战车之上,摩德罗国王任御者,这最优越的战车必定会在战场上战胜般度之子。

8.30.4

ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् ।
उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते ॥ ८.३०.४ ॥

于是难敌又对勇猛的摩德罗国王说道——大王啊,当战斗临近、军队已扎营之时。

8.30.5

कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान् ।
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम् ॥ ८.३०.५ ॥

摩德罗王啊,在战斗中请驾驭迦尔纳的良马。在你的护卫下,罗陀之子将战胜持财(阿周那)。

8.30.6

इत्युक्तो रथमास्थाय तथेति प्राह भारत ।
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत् ॥ ८.३०.६ ॥

如此被告知后,他登上战车说“就这样吧”——婆罗多的后裔啊,沙利耶已经同意,迦尔纳心情愉快地对他的御者说道。

8.30.7

त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥ ८.३०.७ ॥

“御者啊,为我备好战车。”他急切地一再这样说。

8.30.8

ततो जैत्रं रथवरं गन्धर्वनगरोपमम् ।
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत् ॥ ८.३०.८ ॥

于是御者说“胜利!”,献上了那辆带来胜利、殊胜、如同乾闼婆城般按礼制准备好的吉祥战车。

8.30.9

तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि ।
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥ ८.३०.९ ॥

车战勇士中最优秀的迦尔纳,依礼敬拜了那辆早已由通晓梵言的祭司备妥的战车。

8.30.10

कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् ।
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत् ॥ ८.३०.१० ॥

他小心地绕行致礼,向太阳敬拜后,对近旁的摩德罗王说:“你上车吧。”

8.30.11

ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् ।
आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥ ८.३०.११ ॥

于是光辉赫赫的沙利亚登上迦尔纳那辆难以抵挡、殊胜而巨大的战车,如同狮子登上山岳。

8.30.12

ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम् ।
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः ॥ ८.३०.१२ ॥

迦尔纳见沙利亚已坐在战车上,便登上自己那辆殊胜的战车,如同太阳升上闪电的云端。

8.30.13

तावेकरथमारूढावादित्याग्निसमत्विषौ ।
अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥ ८.३०.१३ ॥

这二人光辉如日与火,同登一车,闪耀如天空中日与火同照一朵乌云。

8.30.14

संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ ।
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्यरे ॥ ८.३०.१४ ॥

那时,受赞颂的这两位最为光耀的英雄,犹如在祭祀中被祭司与助祭赞颂的因陀罗与火神一样闪耀。

8.30.15

स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ ।
धनुर्विष्फारयन्घोरं परिवेषीव भास्करः ॥ ८.३०.१५ ॥

卡尔纳站在由沙利亚执缰的战车上,拉紧可怕的弓弦,闪耀如被光环环绕的太阳。

8.30.16

आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् ।
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥ ८.३०.१६ ॥

卡尔纳登上最好的战车,以箭矢为光芒而焕发光辉,这位人中之虎如同站在曼达拉山上的太阳一般闪耀。

8.30.17

तं रथस्थं महाबाहुं युद्वायामिततेजसम् ।
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत् ॥ ८.३०.१७ ॥

站在战车上的大臂者、在战斗中光辉无量的卡尔纳,难敌于是对他说了这些话。

8.30.18

अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे ।
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ॥ ८.३०.१८ ॥

啊,阿迪拉塔之子,英雄!德罗纳与毗湿摩未能完成的艰难功业,请你在战斗中完成,让所有弓箭手都看着。

8.30.19

मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ ।
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥ ८.३०.१९ ॥

我心中原以为大车战士毗湿摩与德罗纳必定会杀死阿周那和怖军。

8.30.20

ताभ्यां यदकृतं वीर वीरकर्म महामृधे ।
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥ ८.३०.२० ॥

英雄啊,罗陀之子!请你完成那二人在这场大战中未能完成的英雄之举,就像另一位执金刚者。

8.30.21

गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् ।
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥ ८.३०.२१ ॥

罗陀之子啊,或擒获法王,或杀死财胜;也杀死怖军,以及摩德利的两个孪生之子。

8.30.22

जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ ।
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥ ८.३०.२२ ॥

愿你获胜,愿你吉祥。人中雄牛啊,前进吧,把般度之子的全部军队都烧成灰烬。

8.30.23

ततस्तूर्यसहस्राणि भेरीणामयुतानि च ।
वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि ॥ ८.३०.२३ ॥

于是成千上万的乐器和数以万计的大鼓同时奏响,它们在天空中如云雷般轰鸣。

8.30.24

प्रतिगृह्य तु तद्वाक्यं रथस्थो रथरुत्तमः ।
अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥ ८.३०.२४ ॥

罗陀之子迦尔纳接受了那些话,站在战车上,这位最优秀的车战勇士对善战的沙利耶说道。

8.30.25

चोदयाश्वान्महाबाहो यावद्वन्मि धनञ्जयम् ।
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ॥ ८.३०.२५ ॥

啊,大臂者,催动马匹,直到我追上达南阇耶、怖军、双生子和国王坚战。

8.30.26

अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः ।
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥ ८.३०.२६ ॥

啊,沙利耶,今天愿达南阇耶看到我双臂的威力,当我射出以鹤羽为翎的成千上百支箭时。

8.30.27

अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् ।
पाण्डवानां विनाशाय दुर्योधनजयाय च ॥ ८.३०.२७ ॥

啊,沙利耶,今天我将射出极其锐利的箭,为了毁灭般度五子,为了杜尔敕那取胜。

8.30.28

एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत् ।
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे ॥ ८.३०.२८ ॥

沙利耶听了这些话,对迦尔纳说:"你怎么如此轻视那些大勇的般度之子呢?"

8.30.29

सर्वास्त्रज्ञान्महेष्वासान्सर्वानेन महाबलान् ।
अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान्।
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ॥ ८.३०.२९ ॥

他们精通一切兵器,是伟大的射手,力量强大,从不退缩,极为有福,不可战胜,真正勇武,甚至能让因陀罗本人心生恐惧。

8.30.30

यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः ।
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि ॥ ८.३०.३० ॥

啊,罗陀之子,当你听到般度之子那弓弦的轰鸣,如雷霆炸裂般,那时你就不会这样说了。

8.30.31

यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे ।
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि ॥ ८.३०.३१ ॥

当你在战斗中看见被毗摩打得折断象牙、倒毙的象军时,那时你就不会这样说了。

8.30.32

यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा ।
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे ॥ ८.३०.३२ ॥

当你在战斗中看见法之子与双生子以利箭在天空中造成如云般的阴影时,那时你就不会这样说了。

8.30.33

अस्यतः क्षिण्वतश्चारीँल्लघुहस्तान्दुरासदान् ।
पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि ॥ ८.३०.३३ ॥

当你看见手法敏捷、难以接近的英雄们一边射箭一边投掷着穿行,也看见其他国王时,那时你就不会这样说了。

8.30.34

अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम् ।
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर ॥ ८.३०.३४ ॥

卡尔纳无视摩德罗王所说的那番话,对沙利耶说:“今天你会看见的。”哦,人主!