摩诃婆罗多 · 章 8.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.33.1
मा सूतपुत्र मन्येत सौवर्णं हस्तिषङ्गवम् ।
प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम् ॥ ८.३३.१ ॥
御者之子啊,莫以为你已施舍了金色的象中之王。你是徒劳地施舍;今日你将见到财富征服者(阿周那)。
8.33.2
मा सूतपुत्र दानेन सौवर्णं हस्तिषङ्गवम् ।
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ॥ ८.३३.२ ॥
御者之子啊,莫以为你已布施了金色的象中之王。把它施给一个人吧;今日你将见到财富征服者(阿周那)。
8.33.3
बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा ।
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ॥ ८.३३.३ ॥
你因力量而狂醉,如毗沙门(俱毗罗)般施舍财物。罗陀之子啊,不费吹灰之力,今日你将见到财富征服者(阿周那)。
8.33.4
पुरा सृजसि यच्चापि वित्तं बहु च मूढवत् ।
अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे ॥ ८.३३.४ ॥
从前你也像愚人一样施舍了许多财富。因迷惑,你没有察觉把施舍给不配之人所带来的过失。
8.33.5
यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया ।
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥ ८.३३.५ ॥
凭你所宣称的这些巨额财富,御者之子啊,你可以举行多种祭祀。就用它们去祭祀吧。
8.33.6
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत् ।
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥ ८.३३.६ ॥
你因迷惑而想杀死两位克里希那(阿周那与克里希那),这也是徒然的。我们从未听说在战斗中豺狼击倒了两头狮子。
8.33.7
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते ।
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने ॥ ८.३३.७ ॥
你所求的并非所请;那些能立即阻止你坠入火中的朋友,你并没有。
8.33.8
कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम् ।
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥ ८.३३.८ ॥
你不知道应做与不应做之事;无疑你已被时间催熟。谁想活命,会说出如此杂乱、不堪入耳的话呢?
8.33.9
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् ।
गिर्यग्राद्वा निपतनं तादृक्त्व चिकीर्षितम् ॥ ८.३३.९ ॥
就像把石头系在颈上,用手臂渡过大海,或从山峰上跳下,你所打算的事也正是如此。
8.33.10
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः ।
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥ ८.३३.१० ॥
与所有勇士一道,由列阵的军队妥善护卫,你应与财主(阿周那)作战——若你想得到福祉的话。
8.33.11
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया ।
श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥ ८.३३.११ ॥
我为了持国之子的福祉而对你说,并非出于恶意。若你还有求生之念,就请相信我所说的话。
8.33.12
स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे ।
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥ ८.३३.१२ ॥
我依凭自己双臂的勇力,在战场上向阿周那挑战。而你,戴着朋友面孔的敌人,却想要恐吓我。
8.33.13
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् ।
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन ॥ ८.३३.१३ ॥
今日无人能使我放弃此志,即便因陀罗举起金刚杵,凡人又怎能做到?
8.33.14
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः ।
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥ ८.३३.१४ ॥
迦尔纳话音刚落,摩德罗王沙利耶又作答,意欲极度激怒迦尔纳。
8.33.15
यदा वै त्वां फल्गुनबाहुवेगा… ।
ज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः।
अन्वेतारः कङ्कपत्राः शिताग्रा… ।
स्त्यक्ष्यत्येषा स्वां तदा कर्ण बुद्धिः ॥ ८.३३.१५ ॥
当法尔古那臂力所发、弦力驱动、疾如烈火、羽饰鹤羽、锋利箭头的箭矢将你包围……那时,迦尔纳啊,你将放弃你这份心念。
8.33.16
यदा दिर्व्य धनुरादाय पार्थः ।
प्रतापयन्पृतनां सव्यसाची।
त्वां मर्दयिष्यत्यसुखैः पृषत्कै… ।
स्तदापृच्छां त्यक्ष्यसे पाण्डवस्य ॥ ८.३३.१६ ॥
当帕尔塔、萨维亚萨钦执起神弓、灼烧敌军,以痛苦的箭矢将你碾碎……那时,你将放弃你向般度之子所提的这一请求。
8.33.17
बालश्चन्द्रं मातुरङ्के शयानो ।
यथा कश्चित्प्रार्थयतेऽपहर्तुम्।
तद्वन्मोहाद्दयोतामानं रथस्थं ।
जेतुं पार्थं काङ्क्षसे सूतपुत्र ॥ ८.३३.१७ ॥
犹如躺在母亲怀中的孩子想要摘取月亮,同样,御者之子啊,你因迷惑而想要战胜站在战车上闪耀的帕尔塔。
8.33.18
हरादस्त्रं तीक्ष्णधारं यथाऽद्य ।
सर्वाणि गात्राणि निकर्षसि त्वम्।
सुतीक्ष्णशस्त्रोपमकर्मणेह ।
युयुत्ससे फल्गुनेनाद्य कर्ण ॥ ८.३३.१८ ॥
你如同哈罗(湿婆)之武器般锋利,今日正在割裂自己的全身。你行事如极利之兵器,今日在此欲与法尔古那交战,迦尔纳啊。
8.33.19
हन्यादसिं तीक्ष्णधारं यथाऽतः ।
सुतेजनं निहितं वै पृथिव्याम्।
तथा खनस्यद्य शितान्पृषत्का… ।
न्यथार्थयस्यर्जुनेनेह युद्धम् ॥ ८.३३.१९ ॥
如同有人将锋利的剑插于地上,自己撞上去一般,你今日以利箭刺穿自己。你想在此与阿周那交战,不过如此。
8.33.20
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं ।
सर्वाणि गात्राणि विघर्षसि त्वम्।
सुतीक्ष्णधारोपमकर्मणा त्वं ।
युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥ ८.३३.२० ॥
你拥抱锋利的三叉戟,今日正磨擦自己的全身。你行事如极利之刃,今日欲与阿周那交战,迦尔纳啊。
8.33.21
क्रुद्धं सिंहं केसरिणं बृहन्तं ।
बालो मूढः क्षुद्रमृगस्तरस्वी।
समाह्वयेद्वृष्टमुपेत्य योद्धुं ।
तथा त्वमद्याह्वयसे हि पार्थम् ॥ ८.३३.२१ ॥
如同愚蠢的孩童、弱小的野兽,走近愤怒的大鬃狮子或公牛去挑战,你今日也这样挑战普利塔之子。
8.33.22
मा सूतपुत्राह्वय राजपुत्रं ।
महावीर्यं केसरिणं यथैव।
वने शृगालः पिशितेन तृप्तः ।
पार्थं समासाद्य विनङ्क्ष्यसि त्वम् ॥ ८.३३.२२ ॥
御者之子啊,不要挑战王子。如同林中饱食肉食的豺狼去挑战大力的狮子,你走近贡蒂之子般若(Pārtha)之后,必将毁灭。
8.33.23
ईषादन्तं महानागं प्रभिन्नकरटामुखम् ।
शशको हयसे युद्वे कर्ण पार्थं धनञ्जयम् ॥ ८.३३.२३ ॥
迦尔纳啊,如同野兔在战场上挑战一头獠牙如犁杆、颞部与口中发情的巨象,你也正在战场上挑战般若、财主(Dhanañjaya)。
8.33.24
विलस्थं कृष्णसर्पं त्वं जाल्यात्काष्ठेन विध्यसि ।
महाविषं पूर्णकोपं यत्पार्थं योद्वुमिच्छसि ॥ ८.३३.२४ ॥
如同愚人用木棍戳打躺在洞穴中、充满剧毒与愤怒的黑蛇,你竟想与般若交战。
8.33.25
सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे ।
शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम् ॥ ८.३३.२५ ॥
迦尔纳啊,如同愚蠢的豺狼走近发怒的鬃毛雄狮而咆哮,你也在般遮(Pāṇḍava)这位人中狮子面前咆哮。
8.33.26
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् ।
स्वगेवाह्वयसे पार्थं तथा कर्णं धनञ्जयम् ॥ ८.३३.२६ ॥
迦尔纳啊,如同人坐在自己的巢中挑战鸟中之王、迅捷的毗娜塔之子迦楼罗,你也挑战般若、财主(Dhanañjaya)。
8.33.27
सर्वाम्भसां निधिं भीमं मूर्तिमन्तं झषाकुलम् ।
चन्द्रोदये विवर्धन्तमप्लुवस्त्वं तितीर्षसि ॥ ८.३३.२७ ॥
你想不用船只渡过那可怕的大海——它是一切水的聚藏,具有人形,充满鱼群,在月升时涌涨。
8.33.28
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् ।
वत्स आह्वयसे युद्वे कर्ण पार्थं धनञ्जयम् ॥ ८.३३.२८ ॥
迦尔纳啊,孩子,你在战场上挑战般度之子阿朱那——那如公牛、颈如战鼓、角尖锐、善于攻击的勇士。
8.33.29
महामेघं महाघोषं दर्दुरः प्रतिनर्दसि ।
बाणतोयप्रदं काले नरपर्जन्यमर्जुनम् ॥ ८.३३.२९ ॥
青蛙啊,你竟对阿朱那回吼——他是大云、大声响、适时降下箭雨的人中云。
8.33.30
यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत् ।
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ॥ ८.३३.३० ॥
如同家犬对着走入森林的老虎狂吠,迦尔纳啊,你也对人中猛虎达那阁耶吠叫。
8.33.31
शृगालो हि वने कर्ण शशैः परिवृतो वसन् ।
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥ ८.३३.३१ ॥
迦尔纳啊,住在森林中、被兔子包围的豺狼,在未见到狮子之前,自以为是狮子。
8.33.32
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि ।
अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम् ॥ ८.३३.३२ ॥
同样,拉德耶啊,你也想把自己当作狮子,却未曾见过在战场上降伏敌人的人中雄狮阿朱那。
8.33.33
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि ।
समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥ ८.३३.३३ ॥
你自以为是虎,却还未见到同立一车的两位黑天,如同日与月。
8.33.34
यावद्ग्राण्डीवघोषं त्वं न शृणोषि महाहवे ।
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥ ८.३३.३४ ॥
迦尔纳啊,只要你在大战中还听不到甘提婆弓的弦响,那时你才能随心所欲地说话。
8.33.35
रथशङ्खधनुःशब्दैर्नादयन्तं दिशो दश ।
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥ ८.३३.३५ ॥
看见他如老虎般咆哮,以战车、海螺和弓弦之声震动十方,你将变成豺狼。
8.33.36
नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः ।
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे ॥ ८.३३.३६ ॥
你永远是豺狼,而持财者(阿周那)永远是狮子。愚人啊,因为你仇视英雄,你便显得像豺狼。
8.33.37
यथाऽऽखुः स्याद्विडालश्च श्वा व्याघ्रश्च बलाबले ।
यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ ॥ ८.३३.३७ ॥
如同老鼠与猫、狗与虎在强弱上不同,如同豺狼与狮子,如同兔子与大象,各有不同,
8.33.38
यथाऽनृतं च सत्यं च यथा चापि विषामृते ।
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥ ८.३३.३८ ॥
如同虚妄与真实、毒药与甘露各不相同,你与贡蒂之子也因各自的作为而闻名。