摩诃婆罗多 · 章 8.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.35.1
मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः ।
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ॥ ८.३५.१ ॥
先生,听了喜爱战斗的阿提罗陀之子迦尔纳的话后,沙利耶再次对迦尔纳讲述了一个譬喻。
8.35.2
जातोऽहं यज्वनां वंशे सङ्ग्रामेष्वनिवर्तिनाम् ।
राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः ॥ ८.३५.२ ॥
我生于行祭者、战场上从不退缩、受灌顶之王的家族;我自己也奉行法。
8.35.3
यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष ।
तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया ॥ ८.३५.३ ॥
哦,雄牛,正如你似被酒所醉,今日我出于友情,愿为你纠正你的疏忽。
8.35.4
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे ।
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन ॥ ८.३५.४ ॥
迦尔纳,听我讲这则乌鸦的譬喻。听完之后,随你所愿去做吧,卑贱的玷污家族者!
8.35.5
नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे ।
येन मां त्वं महाबाहो हन्तुमिच्चस्यनागसम् ॥ ८.३५.५ ॥
迦尔纳,我想不起自己有任何过错,你这大臂者,为何要杀我这无辜之人?
8.35.6
अवश्यं तु मया वाच्यं बुद्ध्वा तव हिताहितम् ।
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥ ८.३५.६ ॥
然而,我既已明白你的利害,就必须进言——尤其是我立于战车之上,又希望国王安好。
8.35.7
समं च विषमं चैव रथिनश्च बलाबलम् ।
श्रमः खेदश्च सततं हयानां रथिना सह ॥ ८.३५.७ ॥
平坦之地与崎岖之地,车战者的强弱,以及随车战者奔走的马匹的疲劳与持续的困顿。
8.35.8
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् ।
सारं चैवाप्यासरं च शल्यानां च प्रतिक्रिया ॥ ८.३५.८ ॥
对兵器的充分了解,走兽与飞禽的鸣叫,力量与距离,以及应对箭矢的方法。
8.35.9
अस्त्रयोगं च युद्वं च निमित्तानि तथैव च ।
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना।
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ॥ ८.३५.९ ॥
兵器的运用、战斗本身以及种种征兆,作为此车的御者,我都应当知晓。因此,迦尔纳啊,我再向你讲述这个譬喻。
8.35.10
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् ।
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ॥ ८.३५.१० ॥
据说海边住着一位商人,财富与粮食丰饶。他行祭祀,乐于布施,能忍耐,恪守本分,且清净无染。
8.35.11
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः ।
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ ८.३५.११ ॥
他子孙众多,儿女可爱,对一切众生怀有慈悲。他在以法为本的国王治下的国土中无所畏惧地生活。
8.35.12
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् ।
काको बहूनामभवदुच्छिष्टकृतभोजनः ॥ ८.३५.१२ ॥
在他众多名声显赫的幼子与少年之中,有一只乌鸦,靠他们吃剩的食物为生。
8.35.13
तस्मैसदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः ।
मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ॥ ८.३५.१३ ॥
那些吠舍之子、少年们总是给它肉饭、凝乳、牛奶、米粥、蜂蜜和酥油。
8.35.14
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः ।
सदृशान्पक्षिणो दृप्तः श्रेयससश्चावमन्यते ॥ ८.३५.१४ ॥
这只靠吠舍少年们的残羹剩饭养大的乌鸦,变得骄傲起来,轻视与自己同类的鸟,甚至轻视比它高贵的鸟。
8.35.15
अथ हंसाः समुद्रान्ते प्रजग्मुरतिपातिनः ।
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ॥ ८.३५.१५ ॥
于是,飞行如迦鲁达般迅捷、肢体带有轮形标记、心情喜悦的天鹅,飞向大海边。
8.35.16
कुमरारकास्तदा हंसान्दृष्ट्वा काकमथाब्रुवन् ।
भवानेव विशिष्टोऽसि पतत्रिभ्यो विहङ्गम ॥ ८.३५.१६ ॥
那时,少年们看见天鹅,便对乌鸦说:“啊,鸟儿,你确实是众鸟中最出众的!”
8.35.17
एतेऽतिपातिनः पश्य विहङ्गान्वियदाश्रितान् ।
एहि त्वमपि शक्तो हि कस्मान्न पतितं त्वया ॥ ८.३५.१७ ॥
“看那些栖息于天空的疾飞者。来吧,你也确实有能力,为何不飞起来?”
8.35.18
प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभइरण्डजः ।
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च जज्ञिवान् ॥ ८.३५.१८ ॥
这只卵生的、心智低下的鸟被他们全都欺骗了,出于愚蠢和骄傲,它以为那些话是真的,便准备飞起来。
8.35.19
तान्सोनुपत्य जिज्ञासुः क एषां श्रेष्ठभागिति ।
उच्छिष्टदर्पितः काको बहूनामेकपातिनाम् ॥ ८.३५.१९ ॥
它走近他们,想知道他们中谁应得最好的一份。这只因残食而自负的乌鸦,向众多一次飞翔的鸟问道。
8.35.20
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् ।
स तमाह्वत दुर्बुद्धिः पताव इति पक्षिणम्।
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः ॥ ८.३५.२० ॥
在飞得很远的天鹅中,他认为最好的那只,这个愚蠢的家伙便称呼那只鸟说:“喂,飞翔者!”听到这话,聚集在那里的天鹅都笑了。
8.35.21
भाषतो बहु काकस्य बालिश्यात्पततां वराः ।
इदमूचुः स्म चक्राङ्गावचः काकं विङ्गमाः ॥ ८.३५.२१ ॥
听到乌鸦的许多话,飞鸟中最好的车轮鸟因其幼稚而感到沮丧,便对乌鸦这样说道。
8.35.22
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः ।
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ ८.३५.२२ ॥
我们是天鹅,居住在曼那沙湖,遍游这大地;在鸟类中,我们因飞得远而常受尊敬。
8.35.23
कथं हंसं नु बलिनं चक्राङ्गं दूरपातिनम् ।
काको भूत्वा निपतने समाह्वयसि दुर्मते।
कथं त्वं पतिता काक सहास्माभिर्ब्रवीहि तत् ॥ ८.३५.२३ ॥
喂,心术不正的乌鸦!你不过是乌鸦,怎敢在飞行中挑战强壮、飞得远的天鹅或车轮鸟?喂,乌鸦,你是怎样与我们一同坠落的?说吧。
8.35.24
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः ।
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥ ८.३५.२४ ॥
那愚蠢的乌鸦一次又一次地诋毁天鹅的话,又因自身族类的卑贱而夸夸其谈,于是回答道。
8.35.25
शतमेकं च पातानां पतिताऽस्मि न संशयः ।
शतयोजनमेकैकं विचित्रं विविधं तथा ॥ ८.३५.२५ ॥
我已经做过一百种飞行,毫无疑问;每次都是一百由旬,奇妙而多样。
8.35.26
उड्डीनमवडीनं च प्रडीनं डीनमेव च ।
निडीनमथ संडीनं तिर्यक्डीनगतानि च ॥ ८.३५.२६ ॥
向上飞升、向下俯冲、向前飞出、飞行、停落、共同飞翔,以及侧向的飞行。
8.35.27
विडीनं परिडीनं च पराडीनं सुडीनकम् ।
अभिडीनं महाडीनं निर्डीनमतिडीनकम् ॥ ८.३५.२७ ॥
分散飞行、环绕飞行、远飞而去、美妙的飞行、迎面飞去、伟大的飞行、飞出外面,以及极致的飞行。
8.35.28
अवडीनं प्रडीनं च संडीनं डीनडीनकम् ।
संडीनोड्डीनडीनं च पुनर्डीनविडीनकम् ॥ ८.३५.२८ ॥
俯冲而下、向前飞出、共同飞翔、飞上加飞、共同飞翔、升起飞翔,以及再次停落后分散飞行。
8.35.29
संपातं समुदीषं च ततोऽन्यद्व्यतिरिक्तकम् ।
गतागतं प्रतिगतं बह्वीश्च निकुलीनकाः।
कर्ताऽस्मि मिषतां वोऽद्य ततो द्रक्षयथ मे बलम् ॥ ८.३५.२९ ॥
俯冲、共同升起,然后是另一种,往来、返回,以及许多归巢的飞行。今天我当着你们的面施展,那时你们便会看到我的力量。
8.35.30
तेषामन्यतमेनाहं पतिष्यामि विहायसम् ।
प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम् ॥ ८.३५.३० ॥
我将以其中之一飞向天空。哦,天鹅们,请如实告诉我:我该用哪一种飞行?
8.35.31
ते वै ध्रुवं विनिश्चित्य सम्पतध्वं मया सह ।
पातैरेभिः खलु खगाः पतितुं खे निराश्रये ॥ ८.३५.३१ ॥
你们确定决心后,与我一同俯冲。鸟儿们,借这些坠落,在无所依托的天空中真正坠落吧。
8.35.32
एवमुक्ते तु काकेन प्रहस्यैको विहंगमः ।
उवाच काकं राधेय वचनं तन्निबोध मे ॥ ८.३५.३२ ॥
乌鸦如此说后,一只鸟笑着对乌鸦说:罗陀之子啊,请听我的话。
8.35.33
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् ।
एकमेव तु यं पातं विदुः सर्वे विहङ्गमाः।
तमहं पतिता काक नान्यं जानामि कञ्चन ॥ ८.३५.३३ ॥
乌鸦啊,你确实知道一百零一种坠落。但我将以所有鸟儿都知道的那一种坠落,乌鸦啊;另外的任何一种我都不知道。
8.35.34
पत त्वमपि तत्राशु येन पातेन मन्यसे ॥ ८.३५.३४ ॥
你也快去那里坠落,用你认为合适的那种坠落。
8.35.35
अथ काकं प्रजहसुर्ये तत्रासन्समागताः ।
कथमेकेन पातेन हंसः पातशतं जयेत्।
एकेन वायस त्वैनं पातेनाभिभविष्यति ॥ ८.३५.३५ ॥
于是在场的人都嘲笑乌鸦:天鹅怎能以一次坠落胜过百次坠落?乌鸦啊,它将以那一次坠落战胜你。
8.35.36
हंसश्चोत्पतितः काको बलवानाशुविक्रमः ।
प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ।
उपर्युपरि वेगेन समुद्रं मकरालयम् ॥ ८.३५.३६ ॥
天鹅飞起,强壮而迅捷勇猛的乌鸦也飞起。随后,两只鸟因竞争,天鹅与乌鸦,疾速地一个叠在另一个之上,向海洋坠去,那是海中怪兽的居所。
8.35.37
हंसस्त्वेकेन पातेन काकः पातशतेन च ।
स्पर्धिनौ सहितौ तूर्णं खमास्थाय तरस्विनौ ॥ ८.३५.३७ ॥
天鹅一次俯冲,乌鸦百次俯冲——二者互为对手,一同迅疾升入天空,皆极为迅猛。
8.35.38
हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे ।
पूर्वमेव तु वै काकः स तं तूर्णं प्रचक्रमे ॥ ८.३५.३८ ॥
天鹅以一次柔和的努力开始展示其力量;然而乌鸦早已迅速开始做同样的事。
8.35.39
नात्यहीयत काकश्च मुहूर्तमिव सूतज ॥ ८.३५.३९ ॥
乌鸦竟不曾落后片刻,啊,御者之子。
8.35.40
काकोपि हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन् ।
वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः ॥ ८.३५.४० ॥
乌鸦也因轻浮而显示其迅捷,越过天鹅迅疾前行,又一次次折返。
8.35.41
तुण्डेनाभ्यहनच्चैनं कुर्वन्नामापसव्यतः ।
रोरूयन्निव चाप्येनं समाह्वयति वै मुहुः।
विसिस्मापयिषुः पातैर्दर्शयन्नात्मनः क्रियाम् ॥ ८.३५.४१ ॥
它以喙啄击对方,从左侧发出声音,仿佛哭泣般一次次呼唤它;想以俯冲使其惊叹,便展示自己的本领。
8.35.42
अथ तानि विचित्राणि पतितानीतराणि च ।
दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः ॥ ८.३५.४२ ॥
于是,乌鸦们见那些奇妙的俯冲和其他技艺,欣喜若狂,以更响亮的声音鸣叫起来。
8.35.43
हंसाश्चापहसन्ति स्म प्रवदन्ति प्रियाणि च ।
कुर्वाणा विविधान्रावानिच्छन्तो जयमात्मनः ॥ ८.३५.४३ ॥
天鹅嘲笑他,说着悦耳的话,发出各种叫声,都想为自己赢得胜利。
8.35.44
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ।
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च ॥ ८.३५.४४ ॥
他们一次又一次地飞起,说着“片刻,片刻”,从树梢和地面上下落,又再飞起。
8.35.45
अवमत्य च हंसं तमिदं काकोऽब्रवीद्वचः ।
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ॥ ८.३५.४५ ॥
乌鸦轻视那只天鹅,说出这些话:“那只飞起的天鹅,正是现在落在后面的那一只。”
8.35.46
अथ हंसस्तु तच्छ्रुत्वा भाषितं पततांवरः ।
विगाह्य हंसो विक्षोभ्य प्रापतत्पश्चिमां दिशम् ॥ ८.३५.४६ ॥
于是,飞禽中最优秀的天鹅听到这番话,便投身水中、搅动波涛,向西方飞去。
8.35.47
उपर्युपरि वेगेन सागरं मकरालयम् ।
बहुसत्वसमाकीर्णं वीचीभिर्भीमदर्शनम् ॥ ८.३५.४७ ॥
他迅速地一路向上飞翔,越过摩羯鱼的居所——那片充满众多生灵、波浪看上去令人畏惧的大海。
8.35.48
अथाचिरेण राधेय काको वेगादहीयत ।
ततोऽतीव परिश्रान्तः कथञ्चिद्वंसमन्वगात् ॥ ८.३५.४८ ॥
不久之后,啊,罗陀之子,乌鸦在速度上落后了;随后它极度疲惫,才勉强跟在天鹅后面。
8.35.49
भीश्चैनमाविशत्तीव्रं काकं कर्ण विचेतसम् ।
द्वीपान्द्रुमान्वितान्पश्यन्विश्रमार्थं श्रमातुरः।
निपतेयं क्कनु श्रान्त इति तस्मिञ्जलार्णवे ॥ ८.३५.४९ ॥
迦尔纳啊,恐惧笼罩了那只疲惫的乌鸦,它心神慌乱。它望着树木繁茂的岛屿,渴望休息,心想:“我如此疲惫,该在哪里落下?”就在那水的海洋之中。
8.35.50
अवगाह्य समुद्रोऽपि बहुसत्वगणालयः ।
महान्भूतशतोद्भूसी नभसस्तु विशिष्यते ॥ ८.३५.५० ॥
即使是大海,作为众多生灵的居所,其中生出数百种生物,也不及天空更为广大。
8.35.51
गाम्भीर्यार्द्वि समुद्रस्य न विशेषं कुलाधम ।
दिशश्च नाम्भसां कर्ण समुद्रस्था विदुर्जनाः।
विपश्चितोप्यपारत्वात्किं पुनः कर्ण वायसः ॥ ८.३५.५१ ॥
卑贱之族的迦尔纳啊!大海的深度与广度并无差别。即便生活在海中的人,也不知海水的方向,迦尔纳;因为它无边无际,连智者也无法知道。那么,迦尔纳啊,一只乌鸦又能知道什么呢?
8.35.52
अथ हंसोप्यतिक्रामन्मुहूर्तमिव दूरतः ।
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ ८.३५.५२ ॥
然后,那只天鹅也从远处飞来,仿佛只是一瞬,超过了那只乌鸦;而那只名为恰克朗伽的鸟,越过它之后,仔细地望着那只乌鸦。
8.35.53
शनकैः परिहीनं तं परिश्रान्तमचेतसम् ।
अवेक्षमाणस्तं काकं प्रत्यागम्य हसन्निव ॥ ८.३५.५३ ॥
望着那只渐渐落在后面、精疲力竭、失去知觉的乌鸦,他折返回来,仿佛在笑。
8.35.54
तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा ।
हीयमानमथो दृष्ट्वा हंसः प्राह यथार्थवत्।
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥ ८.३५.५४ ॥
天鹅以轮状的肢体笑着看到那只行动迟缓、渐渐衰弱的乌鸦,便说出了实情。它想要托起沉没的乌鸦,心中记起善人的誓愿。
8.35.55
बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः ।
पतस्यव्याहरन्खेदं ततो गर्ह्यं प्रभाषसे ॥ ८.३५.५५ ॥
你一次又一次地谈论许多已坠落之物;在坠落中,你因悲伤而含糊地说话,然后说出了应受谴责的话。
8.35.56
जलं नाम पतितं काक यत्त्वं पतसि साम्प्रतम् ।
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥ ८.३५.५६ ॥
乌鸦啊,你现在所落入的,正名为水;你一次又一次地用翅膀和嘴触碰水。
8.35.57
प्रब्रूहि कतमोऽयं ते पातो वर्तति वायस ।
एह्येहि काक शीघ्रं त्वमेष त्वां परिपालये ॥ ८.३५.५७ ॥
乌鸦啊,请告诉我,你这是哪一种坠落?快来,快来,乌鸦啊,快快过来;我会保护你。
8.35.58
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा ।
काको दृढं परिश्रान्तः सहसा निपपात ह ॥ ८.३५.५८ ॥
于是,乌鸦痛苦地用翅膀和嘴触碰着水,极度疲惫,突然跌落下去。
8.35.59
सागराम्भसि तं दृष्ट्वा पततन्तं दीनचेतसम् ।
म्रियमाणमिदं वाक्यं हंसः काकमुवाच ह ॥ ८.३५.५९ ॥
天鹅看到他在大海的水中跌落,心灰意冷、将死,便对乌鸦说了这番话。
8.35.60
शतमेकं च पातानां पताम्यहमिति स्म ह ।
श्लाघन्नात्मानमद्य त्वं काक भाषितवानसि ॥ ८.३५.६० ॥
“百飞之一,我能飞。”乌鸦啊,你如此自夸,now 说了这话。
8.35.61
स त्वमेकशतं पातं पतन्नभ्यधिको मया ।
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे ॥ ८.३५.६१ ॥
你只飞百飞之一,并不比我高明。那么如此疲惫,为何坠入大海之中?
8.35.62
प्रत्युवाच ततः काकः सीदमान इदं वचः ।
उपरीतं तदा हंसं प्रसमीक्ष्य प्रसादयन् ॥ ८.३५.६२ ॥
那时,沉没中的乌鸦回答道:它看见上方盘旋的天鹅,便以这些话语安抚它。
8.35.63
उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुसत्वतः ।
सुपर्ण इव चात्मानं ज्ञातवान्पुत्रलाघवात् ॥ ८.३५.६३ ॥
我以残羹为食,因卑劣之性而骄矜自满,如同金翅鸟一般看待自己,出于孩童般的轻率。
8.35.64
शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम् ।
हंसेदानीं परिश्रान्तमापदो मां समुद्वर ॥ ८.३५.६४ ॥
我来投奔你,愿能到达水边。天鹅啊,如今请将疲惫的我从此灾难中托起。
8.35.65
यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम् ।
नैनं पुनर्हीनमपि क्षेप्ताऽहं खे विचारिणम् ॥ ८.३५.६५ ॥
若我能活着再回到自己的住所,我将永不再把这个在天空飞翔的卑微者抛落。
8.35.66
तमेवं करुणं दीनं विलपन्तमचेतसम् ।
काककाकेति वाशन्तं निमज्जन्तं महार्णवे।
कृपयाऽभिपरीतो वै कृपां चक्रे दुरात्मनि ॥ ८.३५.६६ ॥
他如此悲惨地哀号、神志昏乱,大声喊着"乌鸦,乌鸦",沉没在大海中,那人被怜悯所笼罩,便对那恶人生出了慈悲。
8.35.67
अथ तं पततं दीनं जलक्लिन्नमचेतनम् ।
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारो पयत्तदा ॥ ८.३५.६७ ॥
那时,他用双脚托起那个跌倒的、悲惨的、被水浸湿的、失去知觉的、颤抖的人,把他放在自己背上。
8.35.68
स हंसः पृष्ठमारोप्य काकं कर्ण विचेतसम् ।
अविस्मयंस्तदा कर्ण पुनरेव समानयत्।
तमेव देशं तरसा स्पर्धया पेततुर्यतः ॥ ८.३५.६८ ॥
那天鹅把失去知觉的乌鸦放在背上,啊,迦尔纳,毫不惊讶地又把他带了回来;两者竞相飞快地,飞回了它们来时的地方。
8.35.69
उत्सृज्य त्वब्रवीन्मैवं पुनः कार्यं त्वयेति ह ।
स्थाप्य चैनं पुनर्द्वीपे समाश्वस्य च विक्लवम्।
गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥ ८.३५.६९ ॥
放下他后,它说:"不要再这样做,你还得再做这事。"然后,把他放回岛上,安慰那惊慌的人,天鹅便如心念一般迅速地飞往它想去的地方。
8.35.70
एवमुच्छिष्टपुष्टः स काकोऽहंसपराजितः ।
बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः ॥ ८.३५.७० ॥
就这样,那靠残羹剩饭养肥的乌鸦,被天鹅战胜,啊,迦尔纳,它放弃了巨大的力量与勇气,陷入了忍耐顺从的境地。
8.35.71
उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा ।
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ॥ ८.३५.७१ ॥
正如从前在一位商人家中以残食为生的乌鸦,你也被持国之子用残食养育,毫无疑问。
8.35.72
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णावमन्यसे ।
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः ॥ ८.३५.७२ ॥
迦尔纳啊,你轻慢所有与你同等及尊长的人,而你却受到德罗纳、德罗尼、克里帕、毗湿摩及其他俱卢人的庇护。
8.35.73
विराटनगरे पार्थमेकं किं नावधीस्तदा ।
यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना
सृगाला इव सिंहेन क्व ते वीर्यं तदा गतम् ॥ ८.३५.७३ ॥
在毗罗吒城,你为何当时不杀死那位孤身的般度之子?在那里,你们或分散或聚集,都被戴冠者击败。如同豺狼遇见狮子,你那时的勇力去了哪里?
8.35.74
भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना ।
पश्यतां कुरवीराणां प्रथमं त्वं पलायितः ॥ ८.३५.७४ ॥
你眼见兄弟在战场上被善射者(阿周那)杀死,在俱卢勇士们的注视下,你第一个逃跑了。
8.35.75
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतान् ।
कुरून्सदारानुत्सृज्य त्वमेवाग्रे पलायितः ॥ ८.३५.७५ ॥
同样,迦尔纳啊,在二林中,当乾达婆从四面袭击俱卢人时,你丢下俱卢人和他们的妻子,自己第一个逃走了。
8.35.76
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे ।
कर्ण दुर्योधनं पार्थः सभ्रातृकममोक्षयत् ॥ ८.३५.७६ ॥
迦尔纳啊,阿周那在战场上杀死并战胜了以质多罗犀那为首的乾达婆,救出了难敌及其兄弟。
8.35.77
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च ।
कथितः कर्ण रामेण सभायां कुरुसंसदि ॥ ८.३५.७७ ॥
迦尔纳啊,般度之子与克舍婆(黑天)的古老威力,曾在俱卢议会的集会上由罗摩(持斧罗摩)宣说。
8.35.78
सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः ।
अवध्यौ वदतोः कृष्णौ सन्निधौ च महीक्षिताम् ॥ ८.३५.७८ ॥
你一直听闻德罗纳与毗湿摩之言:在诸王面前说话的两位黑天不可被杀。
8.35.79
कियन्तं तत्र वक्ष्यामि येनयेन धनञ्जयः ।
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥ ८.३५.७९ ॥
我在那里该说多少?阿周那在哪些方面胜过你,犹如婆罗门胜过一切众生。
8.35.80
इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ ।
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम् ॥ ८.३५.८० ॥
此刻你便将看见,站在首辆战车上的婆苏提婆之子,以及贡提之子般度族。
8.35.81
यथाऽश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः ।
तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनञ्जयम् ॥ ८.३५.८१ ॥
正如聪明的乌鸦依托于车轮的一部分,你也应当依附于婆利什尼之裔与般度之子持财。
8.35.82
यदा त्वं युधि विक्रान्तौ वासुदेवधनञ्जयौ ।
द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि ॥ ८.३५.८२ ॥
迦尔纳啊,当你在战场上看见两位勇猛的婆苏提婆与持财同乘一辆战车时,那时你便不会这样说了。
8.35.83
यदा शरशतैः पार्थो दर्पं तव वधिष्यति ।
तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च ॥ ८.३५.८३ ॥
当般度之子以百箭摧毁你的傲慢之时,那时你将看清你与阿周那之间的差别。
8.35.84
देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ ।
तौ मावमंस्था मौर्ख्यात्त्वं स्वद्योत इव रोचनौ ॥ ८.३५.८४ ॥
在诸天、阿修罗与人类之中闻名的那两位人中之最,你不要因愚昧而轻视他们。你如同萤火虫,而他们如同两道光辉的明灯。
8.35.85
सूर्याचन्द्रमसौ यद्वत्तद्वदजुनकेशवौ ।
प्रकाश्येनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥ ८.३५.८५ ॥
如同日月,阿周那与克史瓦以其光辉显赫于世;而你在人群中,却如同萤火虫。
8.35.86
एवं विद्वन्मावमंस्थाः सूतपुत्राच्युतार्जुनौ ।
नरसिंहौ नरश्वा त्वं जोषमास्स्व विकत्थसे ॥ ८.३५.८६ ॥
明白此理,不要轻视御者之子、阿周那和阿丘多。他们是人中的狮子,而你是人中的狗。闭嘴吧,你只是徒然自夸。