Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.36.1

मद्राधिपस्याधिरथिर्महात्मा ।
वचो निशम्याप्रियमप्रतीतः।
उवाच शल्यं विदितं ममैत… ।
द्यथाविधावर्जुनवासुदेवौ ॥ ८.३६.१ ॥

摩德罗王的那些不悦之言被听到后,阿提罗陀之子、大德的迦尔纳心中不悦,对沙利耶说:“我清楚……阿周那与婆苏提婆正如他们所是。”

8.36.2

शौरे रथं वाहयतोऽर्जुनस्य ।
बलं महास्त्राणि च पाण्डवस्य।
अहं विजानामि यथावदद्य ।
परोक्षभूतं तव तत्तु शल्य ॥ ८.३६.२ ॥

驾驭首陀之后裔(克里希那)战车的阿周那之力,以及般度之子的大神兵——沙利耶啊,今日我如实知之;而对你而言,这些至今仍被隐藏。

8.36.3

तौ चाप्यहं शस्त्रभृतां वरिष्ठौ ।
व्यपेतभीर्योधयिष्यामि कृष्णौ।
सन्तापयत्यभ्यधिकं हि रामा… ।
च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥ ८.३६.३ ॥

我将无畏地与那两位克里希那以及持兵者中的最优者作战。持斧罗摩……今日那位最优婆罗门的诅咒使我极度煎熬。

8.36.4

पुरा महेन्द्राद्रिवरे समुद्रे ।
तपस्विनं राममुपेत्य शल्य।
अस्त्रार्थिनं माऽद्य शिष्यं गृहाणे… ।
त्यथाऽब्रुवं ब्राह्मणच्छद्मना च ॥ ८.३६.४ ॥

往昔,在海边摩亨德拉山的殊胜峰上,我走近苦行者罗摩(持斧罗摩),沙利耶啊,因渴求神兵,便说:“今日请收我为弟子……”于是,我以婆罗门的伪装如此说道。

8.36.5

तत्रावसं ब्राह्मण इत्यविप्रो ।
ब्रह्मास्त्रलोभादनृतेन चाहम्।
तज्जामदग्न्येन परं महास्त्रं ।
समन्त्रयुक्तं विहितं ममासीत् ॥ ८.३६.५ ॥

我在那里以“婆罗门”之名居住,其实并非婆罗门,皆因贪图梵天神兵而以谎言相欺。于是,阇摩达格尼之子(持斧罗摩)连同咒语一起将那殊胜的大神兵授予了我。

8.36.6

अस्त्रं यदा तद्विदितं ममासी… ।
त्तदाऽब्रवीद्ब्राह्मणो मां महर्षिः।
आपद्गतेनास्त्रमिदं प्रयोज्यं ।
त्वया रणे गच्छता साधयेति ॥ ८.३६.६ ॥

当这件武器为我所知之时……那位婆罗门大仙对我说:

8.36.7

तत्रापि मे देवराजेन विघ्नो ।
हितार्थिना फल्गुनस्यैव शल्य।
कृतो विभेदेन ममोरुमेत्य ।
प्रविश्य कीटस्य तनुं विरूपाम् ॥ ८.३६.७ ॥

在那里,诸天之王因希望法尔古那(阿周那)的福祉,也给我设下了障碍:他化作一条丑陋的虫子之身钻入,像刺一样刺入我的大腿。

8.36.8

ममोरुमेत्य प्रबिभेद कीटः ।
सुप्ते गुरौ तत्र शिरो निधाय।
ऊरुप्रभेदाच्च महान्बभूव ।
शरीरतो मे घनशोणितौघः ॥ ८.३६.८ ॥

虫子钻入我的大腿并刺穿了它;导师正在那里睡觉,他的头枕在我身上。由于大腿被刺穿,我的身体涌出了大量浓稠的血流。

8.36.9

गुरोर्भयाच्चापि न चेलिवानहं ।
ततो विबुद्धो ददृशे स विप्रः।
स धैर्ययुक्तं प्रसमीक्ष्य मां वै ।
न त्वं विप्रः कोऽसि सत्यं वदेति ॥ ८.३६.९ ॥

因为害怕导师,我连动都不敢动。随后那位婆罗门醒来看见了我;他仔细观察了坚定不移的我,说道:“你不是婆罗门,请说实话,你究竟是谁?”

8.36.10

तस्मै तदाऽऽत्मानमहं यथाव… ।
दाख्यातवान्सूत इत्येव शल्य।
स मां निशाम्याथ महातपस्वी ।
संशप्तवान्रोषपरीतचेताः ॥ ८.३६.१० ॥

于是我如实地向他表明了身份:“我是御者(苏多)。”他听后,心中被愤怒所占据,这位大苦行者便诅咒了我。

8.36.11

सूत त्वया ह्याप्तमिदं तवास्त्रं ।
न कर्मकाले प्रतिभास्यतीति।
अन्यत्र तु स्यात्तव मृत्युकाला… ।
दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ॥ ८.३६.११ ॥

御者啊,你已获得此武器,但在行动之时它不会浮现于你心中。除非你的死期,梵天之箭必定不会对婆罗门奏效。

8.36.12

तदद्य पर्याप्तमतीव मेऽस्त्र… ।
मुपस्थितेऽस्मिंस्तुमुले विमर्दे ॥ ८.३६.१२ ॥

因此今日此武器对我已绰绰有余,此刻这场喧嚣的激战已然来临。

8.36.13

शल्योग्रधन्वानमहं वरिष्ठं ।
तरस्विनं भीममसह्यवीर्यम्।
सत्यप्रतिज्ञं युधि पाण्डवेयं ।
धनञ्जयं मृत्युमुखं नयिष्ये ॥ ८.३६.१३ ॥

摩陀罗王啊,我要将那位猛烈的弓手、最优秀者、迅捷而可怖、勇力难当、在战中守誓的般度之子达那闍耶,送入死亡之口。

8.36.14

धनञ्जयं संयुगेऽहं हनिष्ये ॥ ८.३६.१४ ॥

战中我将杀死达那闍耶。

8.36.15

अपांपतिर्वेगवानप्रमेयो ।
निमज्जयिष्यन्बहुलाः प्रजा इव।
महारवं यः कुरुते समुद्रो ।
वेलेव तं वारयाम्यप्रमेयम् ॥ ८.३६.१५ ॥

如水之主,迅猛而无量,欲淹没众生而大声咆哮,我便如岸边般阻挡那无量者。

8.36.16

प्रमुञ्चन्तं बाणसङ्घानमेया… ।
न्मर्मच्छिदो वीरहणः सुपत्रान्।
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ।
ज्यां कर्षतामुत्तमं मर्त्यलोके ॥ ८.३६.१६ ॥

放出成群之箭,穿透要害,屠戮英雄,羽箭精美……战中我将迎战昆提之子,他是凡世中拉弓者之最。

8.36.17

एवं बलेनातिबलं महास्त्रं ।
समुद्रकल्पं सुदुरापमुग्रम्।
शरौघिणं पार्थिवान्मज्जयन्तं ।
वेलेव पार्थमिषुभिर्वारयिष्ये ॥ ८.३६.१७ ॥

如此,我将以力量用箭阻挡普利塔之子,那位大力、持大武器、如海洋般难以接近、凶猛、以箭雨淹没诸王的人,就像海岸阻挡大海一样。

8.36.18

कृती कृतास्त्रो दृढहस्तयोधी ।
दिव्यास्त्रविच्छ्वेतहयः प्रमाथी।
सुरासुरान्युधि वै यो जयेत ।
तेनाद्य मे पश्य युद्वं सुघोरम् ॥ ८.३६.१८ ॥

与那位善战、精通武器、手持坚定、精通神兵、驾驭白马、能摧毁一切、在战斗中能胜过诸神与阿修罗的人,今日看我的惨烈之战吧。

8.36.19

अभीर्मानी पाण्डवो युद्वकामो ।
ह्यमानुषैरस्यति मां महास्त्रैः।
तस्यास्त्रमस्त्रैरभिभूय सङ्ख्ये ।
बाणोत्तमैः पातयिष्यामि पार्थम् ॥ ८.३६.१९ ॥

那无畏、骄傲、渴望战斗的般度之子,以超人的大武器向我射来。我以武器压倒他的武器后,将在战斗中以上好的箭射倒普利塔之子。

8.36.20

सहस्ररश्मिप्रतिमं ज्वलन्तं ।
दिशश्च सर्वाः प्रतपन्तमुग्रम्।
तमोनुदं मेघ इवातिमात्रं ।
धनञ्जयं छादयिष्यामि बाणैः ॥ ८.३६.२० ॥

如千道光芒的太阳般炽烈,灼烧一切方向,凶猛,驱散黑暗的达南阇耶,我将以箭如乌云般将其完全覆盖。

8.36.21

वैश्वानरं धूमकेतुं ज्वलन्तं ।
तेजस्विनं नरवीरान्दहन्तम्।
पर्जन्यभूतः शरवर्षैर्यथाऽग्निं ।
तथा पार्थं शमयिष्यामि युद्धे ॥ ८.३६.२१ ॥

如火神毗首安罗(Vaiśvānara)般、以烟为旗、熊熊燃烧、光辉灿烂、焚烧英雄的人,正如雨云以箭雨熄灭火焰,我将在战斗中熄灭普利塔之子。

8.36.22

आशीविषं दृष्टिहणं सुघोरं ।
सुतीक्ष्णदंष्ट्रं ज्वलनप्रभवाम्।
क्रोधात्प्रदीप्तानलवद्दहन्तं ।
कुन्तीपुत्रं शमयिष्यामि भल्लैः ॥ ८.३६.२२ ॥

如毒蛇般以目光致命,极其可怖,獠牙锋利,生于火中,因愤怒而燃烧如烈火——我将以投枪箭制服贡蒂之子。

8.36.23

प्रवाहिणं बलवन्तं महौजसं ।
प्रभञ्जनं मातरिश्वानमुग्रम्।
युद्धे सहिष्ये हिमवानिवाचलो ।
धनञ्जयं क्रुद्धममृष्यमाणम्। ॥ ८.३६.२३ ॥

我将在战斗中承受这疾速、强大、极具威力、如暴风之神摩多利湿婆般猛烈的人——如喜马拉雅山承受一般,承受愤怒而不能容忍的持财者(阿周那)。

8.36.24

विशारदं रथमार्गेषु शक्तं ।
धुर्यं नित्यं समरेषु प्रवीरम्।
लोके वरं सर्वधनुर्धराणां ।
धनञ्जयं संयुगेऽहं हनिष्ये ॥ ८.३६.२४ ॥

精通战车作战之道,有能力,常在战场上居于前列,英勇的战士,世上所有弓箭手中的最佳者——持财者(阿周那),我将在战斗中杀死他。

8.36.25

अद्याहवे यस्य न तुल्यमन्यं ।
मन्ये मनुष्यं धनुराददानम्।
सर्वामिमां यः पृथिवीं सहेत ।
तथापि तेनाद्य रणे समेष्ये ॥ ८.३६.२५ ॥

今日战场上无人能与他相比;我认为,拿起弓的人中没有另一人能承载整个大地。然而今天在这场战斗中,我将与他交锋。

8.36.26

यः सर्वभूतानि सदैवतानि ।
प्रस्थेऽजयत्खाण्डवे सव्यसाची
को जीवितं रक्षमाणो हि तेन ।
युयुत्सतेऽस्त्रैर्मानुषो मामृतेऽन्यः ॥ ८.३६.२६ ॥

在Khāṇḍava林中连同诸神一起征服了一切众生的左右开弓者萨维亚萨钦(阿周那)——哪个想要保全性命的人,愿意用兵器与他交战?除了我,还有谁?

8.36.27

मानी कृतास्त्रः कृतहस्तयोधी ।
दिव्यास्त्रविच्छ्वेतहयः प्रमाथी।
तस्याहमद्यातिरथस्य काया… ।
च्छिरो हरिष्यामि शितैः पृषत्कैः। ॥ ८.३६.२७ ॥

骄傲、精通武器、善于以手作战、通晓神圣武器、拥有白马、摧毁者——今日我要用利箭从那大车将的身躯上取下他的头颅。

8.36.28

योत्स्याम्येनं शल्य धनञ्जयं वै ।
मृत्युं पुरस्कृत्य रणे जयं वा।
अन्यो हि न ह्येकरथेन मर्त्यो ।
युध्येत यः पाण्डवमिन्द्रकल्पम् ॥ ८.३६.२८ ॥

哦,沙利耶,我将与这位财富征服者(阿周那)交战,将死亡置于前方,只为在战场上获胜。除了我,没有其他凡人敢乘一辆战车与如因陀罗般的般度之子作战。

8.36.29

तस्याहवे पौरुषं पाण्डवस्य ।
ब्रूयां पृष्टः समितौ क्षत्रियाणाम्
किं त्वं मूर्खः प्रहसन्मूढचेता ।
आख्यासि मे पौरुषं फल्गुनस्य ॥ ८.३६.२९ ॥

若在刹帝利的集会上被问及那一战中般度之子的勇武,我会加以陈述。但你这愚人,带着迷乱的心神嘲笑,为何要对我讲述般度之子法尔古那的勇武?

8.36.30

अत्यप्रियो यः पुरुषो निष्ठुरो हि ।
क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान्।
हन्यामहं त्वादृशानां शतानि ।
क्षमाम्यहं क्षमिणां काल एषः ॥ ८.३६.३० ॥

对于那极其讨厌、严酷、卑劣、谩骂,甚至对忍耐者也不能容忍的人——像你这样的一百个,我都能杀死。但对忍耐者,我以忍耐相待;这正是此时的道理。

8.36.31

अवोचस्त्वं पाण्डवार्ये प्रियाणि ।
प्रधर्षयन्मां मूढवत्पापकर्मन्।
मय्यार्जवे जिह्ममतिर्यतस्त्वं ।
मित्रद्रोही साप्तपदं हि मित्रम् ॥ ८.३६.३१ ॥

般度之子中的贤者,你说了悦耳的话,但作恶者啊,你像愚人一样侮辱我。你对我的正直心怀歪念;你是背叛朋友的人。以七步结成的友谊才是真正的友谊。

8.36.32

कालस्त्वयं प्रत्युपयाति दारुणो ।
दुर्योधनो युद्धमुपागमद्यत्।
तस्यार्थसिद्धिं त्वभिकाङ्क्षमाण… ।
स्तमन्वेष्ये यत्र चैकान्तमस्ति ॥ ८.३६.३२ ॥

这可怕的时刻正在临近,因为难敌已发动了战争。渴望他的目的得以成就……我将去寻找那有独处之处。

8.36.33

तथाप्यहं पाण्डववासुदेवौ ।
योत्स्ये रणे मद्विधस्यैव कर्म।
न प्राकृतः सज्जते वै कदाचि… ।
द्यः प्रत्युदीयात्कृष्णधनञ्जयौ तौ ॥ ८.३६.३३ ॥

尽管如此,我仍将在战场上与般度之子和婆苏提婆作战;这是像我这样的人应做的事。没有任何普通人能够……起而对抗那二人,克里希那与达难闍耶。

8.36.34

मित्रं मिन्देर्नन्दतेः प्रीयतेर्वा ।
सन्त्रायतेर्मिनुतेर्मोदतेर्वा।
दुर्योधने सर्वमिदं ममास्ति ।
तच्चापि सर्वं मम वेत्ति राजा ॥ ८.३६.३४ ॥

'Mitra'(朋友)源自词根 mid(束缚)、nand(欢喜)、prī(取悦)、trā(保护)、min(衡量)或 mud(喜悦)。我所拥有的一切都存在于难敌身上,而国王也完全知道我的这一切。

8.36.35

शत्रुः शदेः शासतेर्वा श्यतेर्वा ।
शृणातेर्वा श्वसतेः सीदतेर्वा।
श्रमेः शुचो बहुशः सूदतेश्च ।
प्रायेण सर्वं त्वयि तच्च मह्यम् ॥ ८.३६.३५ ॥

“敌人”(śatru)源自词根 śad、śās、śyā、śṛ、śvas、sad,以及 śrama、śoka、屡次和 sūd。这些大多存在于你身上,也存在于我身上。

8.36.36

दुर्योधनार्थं तव च प्रियार्थं ।
यशोर्थमात्मार्थमपीश्वरार्थम्।
तस्मादहं पाण्डववासुदेवौ ।
योत्स्ये यत्नात्कर्म च पश्य मेऽद्य ॥ ८.३६.३६ ॥

为了难敌,为了你,为了所爱之人,为了名声,为了自我,也为了主宰者;因此我将与般度之子和瓦苏提婆作战。今日请看我竭力所为之事。

8.36.37

शल्याद्याहं सङ्गतः पाण्डवेन ।
मुच्येयं चेज्जीवमानः कथञ्चित्।
शश्वन्मृत्योः स्यामनाधृष्यरूपो ।
व्यक्तं तस्मात्संयुगाद्विप्रमुक्ताः ॥ ८.३६.३७ ॥

与沙利耶等人一同对阵般度之子,若我能以某种方式活着脱离,我将永远以不可侵犯的形象超越死亡;显然,是在那场战斗中得以脱身之后。

8.36.38

अस्त्रं ब्राह्मं मनसा सञ्जपन्वै ।
यदाऽस्यते क्रोधितः सव्यसाची।
तदापि मे नैव मुच्येत पार्थो ।
न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥ ८.३६.३८ ॥

在心中默念梵天神箭,即使愤怒的左手弓手发射它,普利塔之子也不会从我手中脱身;除非今日我的车轮陷入险地。

8.36.39

अस्त्राणि विद्ध्वा समरे गतानि ।
ब्राह्माणि दिव्यान्यथ मानुषाणि।
आसादयिष्याम्यहमुग्रवीर्यं ।
नागोत्तमं नाग इव प्रभिन्नः ॥ ८.३६.३९ ॥

我将在战场上射出梵箭、天箭与凡箭,迎战那位威力猛烈的英雄,如发情的象迎战象中之王。

8.36.40

वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः ।
सगदाद्वा धनपतेः सवज्राद्वा सुराधिपात् ॥ ८.३६.४० ॥

即便是手持杖的毗婆娑多(阎摩),或持索的伐楼那,或持杵的财神,或持金刚杵的诸天之主。

8.36.41

अथान्यस्मादपि सुरादमित्रादाततायिनः ।
इति शल्य विजानीहि यथा नाहं बिभेम्युत ॥ ८.३६.४१ ॥

即便来自其他天神,或来自侵略性的敌人,哦沙利耶,你要知道我并不畏惧。

8.36.42

तस्मान्न मे भयं पार्थान्नापि चैव जनार्दनात् ।
सह युद्धं हि मे ताभ्यां साम्पराये भविष्यति ॥ ८.३६.४२ ॥

因此我不畏惧贡之子(阿周那),也不畏惧遮那陀那(克里希那);我与他们二人的战斗必将发生。

8.36.43

श्वभ्रे ते पततां चक्रमिति मां ब्राह्मणोऽब्रवीत् ।
युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायनं भयम् ॥ ८.३६.४३ ॥

“你的战车将陷入坑中”——一位婆罗门对我这样说过。对于在战斗中厮杀、已到达战场的人而言,这便是唯一的危险。

8.36.44

तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ ८.३६.४४ ॥

因此我非常畏惧那位婆罗门所说的话;因为这些月族的国王,正是苦乐的主宰。

8.36.45

कदाचिब्राह्मणस्याथ योग्यहेतेरहं नृप ।
अजानन्नक्षिपं बाणं घोररूपं भयावहम् ॥ ८.३६.४५ ॥

大王啊,有一次为了婆罗门的一个正当理由,我在不知情中射出了一支形貌可怖、令人恐惧的箭。

8.36.46

होमधेन्वास्ततो वत्सः प्रमत्त इषुणा हतः ।
चरन्वै विजने शल्य ततोऽनु व्याजहार सः ॥ ८.३६.४६ ॥

随后,祭祀神牛的小牛在僻静之处游荡时,因不加小心被箭射中。阇利耶啊,此后他说道。

8.36.47

यस्माद्वत्सस्त्वया चात्र होमधेन्वा हतो नृप ।
तस्मात्त्वमपि राधेय वाक्शल्यं महदाप्नुहि ॥ ८.३६.४७ ॥

大王啊,既然祭祀神牛的小牛在此被你所伤,那么罗陀之子啊,你也将遭受巨大的言语之刺。

8.36.48

श्वभ्रे ते पतिता चक्रं युध्यमानस्य शत्रुणा ।
प्राप्त एकायने काले मृत्युसाधारणे त्वयि ॥ ८.३६.४८ ॥

你的车轮陷入了坑中;在你作战之时,敌人使那个时刻降临到你身上,那是死亡共同的唯一之道。

8.36.49

स्पर्धसे येन सङ्ग्रामे यदर्थं घटसेऽनिशम् ।
तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे ॥ ८.३६.४९ ॥

你在战斗中所争竞、为之不停奋争的那件事,御者之子啊,正是由此,你必定在战阵中遭遇死亡。

8.36.50

अहं प्रसादयाञ्चक्रे ब्राह्मणं संशितव्रतम् ॥ ८.३६.५० ॥

我设法安抚那位持守严格誓愿的婆罗门。

8.36.51

गवां दशशतं वित्तं बलीवर्दांश्च षट्शतम् ।
प्रच्छन्नं काञ्चनैः कामं ब्राह्मणार्थमहं तदा ॥ ८.३६.५१ ॥

那时我为婆罗门奉上一千头母牛、六百头役牛,以及他所希望的暗藏黄金。

8.36.52

दासीशतं निष्ककण्ठं शतमश्वतरीरथान् ।
कन्यानां निष्ककण्ठीनां सहस्रं समलंकृतम् ॥ ८.३६.५२ ॥

一百名佩戴金币项链的女仆,一百辆骡车,以及一千名佩戴金币项链、盛装打扮的少女。

8.36.53

ईषादन्तान्नागशतान्दासीदासशतानि च ।
दद्मि तैर्द्विजमुख्यो मे प्रसादं न चकार सः ॥ ८.३६.५३ ॥

我给了一百头象牙如犁杆的大象,以及数百名男女仆人;然而那位最优秀的再生者仍未对我施恩。

8.36.54

कृष्णानां श्वेतवत्सानां गोशतानि चतुर्दश ।
ददन्हि न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥ ८.३६.५४ ॥

尽管我献出了一千四百头黑色母牛及白色小牛,我仍未从那位最优秀的再生者处获得恩惠。

8.36.55

यत्किञ्चिन्मामकं वित्तं त्वदधीनं करोमि तत् ।
इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत्।
क्रोधदीप्तेक्षणः शळ्य निर्दहन्निव चक्षुषा ॥ ८.३६.५५ ॥

当我恳求说:“我所有的财富都交由您支配”时,婆罗门拒绝了我,他怒火燃烧的双眼仿佛要用目光将我烧尽,哦,沙利亚。

8.36.56

व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ।
अनृतोक्तं प्रजां हन्यात्ततः पापमवाप्नुयाम् ॥ ८.३६.५६ ॥

我所说的,哦车夫,就是如此,并非其他;若说了谎话,我就会毁灭我的后代,并因此招致罪过。

8.36.57

तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ।
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ॥ ८.३६.५७ ॥

因此,为了护持法(dharma),我不愿说谎。你不要伤害婆罗门之道;你已经做了赎罪。

8.36.58

मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ।
यन्मयोक्तं सरोषेण गच्छ सूतज माचिरम् ॥ ८.३६.५८ ॥

我的话在世上从不虚假;我在愤怒中所说的,你将会承受。御者之子啊,不要迟延,快走吧。

8.36.59

इति मामसकृत्क्रुद्धः स उवाच द्बिजोत्तमः ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ ८.३६.५९ ॥

那位最优秀的再生者如此愤怒,一再对我说:这些月族之王,才是苦乐的主宰。

8.36.60

नाहं बिभेमि बीभत्सोर्न शल्य मधुसूदनाम् ।
तस्माद्बिभेम्यहं शापात्तेन सत्येन ते शपे ॥ ८.३६.६० ॥

我不怕毗波磋(阿周那),也不怕摩图苏陀那(黑天),哦沙利耶。因此我怕诅咒;我以那真实向你起誓。

8.36.61

सह युद्धं समेताभ्यामद्येदं समुपस्थितम् ।
युद्वेऽस्मिञ्जीवितं मेऽद्य शल्य संशयमागतम् ॥ ८.३६.६१ ॥

今天,这场战斗与那两人一同来到我们面前。哦沙利耶,在这场战斗中,我的生命今天陷入了未知。

8.36.62

शक्रोऽप्यमरराट् ताभ्यामुपगम्याहवं सह ।
संशयं परमं गच्छेत्कथं वा मन्यते भवान् ॥ ८.३६.६२ ॥

即使天神之王沙克罗(因陀罗),与那两人一同参战,也会陷入极大的疑惧。您认为此事如何?

8.36.63

इत्येवं ते मयाऽऽख्यातं क्षिप्तेन न सुहृत्तया ।
जानामि त्वाऽधिक्षिपन्तं दोषमात्मगतं शृणु ॥ ८.३६.६३ ॥

我如此对你说,并非以朋友之道,而是加以斥责。我知道你是在指责存在于你自身的过失;请听。