Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.38.1

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु ॥ ८.३८.१ ॥

沙利耶啊,请如此理解。现在我再次对你说:专心致志地听我为你完整地讲述。

8.38.2

ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः ।
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत् ॥ ८.३८.२ ॥

从前,一位婆罗门作为客人来到我们家;他看到我们的行为,心中欢喜,便说了这些话。

8.38.3

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् ।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः ॥ ८.३८.३ ॥

我曾独自在喜马拉雅的一座山峰上长久居住,也见过许多充满各种法则的国家。

8.38.4

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः ।
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः ॥ ८.३८.४ ॥

这些民族并不与任何法相违背;他们都奉行精通吠陀者所宣示的法。

8.38.5

अटता तु मया देशान्नानाधर्मसमाकुलान् ।
आगच्छता महाराज बाह्लीकेषु निशामितम् ॥ ८.३८.५ ॥

大王啊,我在充满各种法则的国土上漫游归来时,在巴赫利克人中听到了此事。

8.38.6

तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः ।
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥ ८.३८.६ ॥

在那里,婆罗门会再变为刹帝利;也会变为吠舍与首陀罗;而在巴赫利克人中,他随后又成为理发匠。

8.38.7

नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः ।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते ॥ ८.३८.७ ॥

成为理发匠之后,他又在那里转生为婆罗门;成为再生者之后,他又在那里转生为奴仆。

8.38.8

भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः ।
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः ॥ ८.३८.८ ॥

同一家族中的婆罗门,虽为有德之人却随心所欲;犍陀罗、摩德罗迦以及巴赫利迦也都缺乏光辉。

8.38.9

एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् ।
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ ८.३८.९ ॥

我在那里听到这件事,它会造成法的混淆:走遍整个大地,在巴赫利迦人中仍有颠倒。

8.38.10

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं ॥ ८.३८.१० ॥

沙利耶啊,你要知道这些。我再告诉你,另一人关于巴赫利迦人所说的那番可鄙之言。

8.38.11

आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः ।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥ ८.३८.११ ॥

一位从阿罗吒被强盗带到这里的贞洁女子,因非法落入他们之手,便诅咒了他们。

8.38.12

बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ ।
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः ॥ ८.३८.१२ ॥

"你们不义地接近了我这个有亲族的少女,因此你们家族中的少女将变得放荡。"

8.38.13

न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः ।
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि ॥ ८.३८.१३ ॥

你们这些最卑劣的人,也不会摆脱这可怕的诅咒。那么,分担了他们份额的你,又如何谈论法义呢?

8.38.14

कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः ।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा ॥ ८.३८.१४ ॥

俱卢与般遮罗、沙尔瓦、摩蹉、奈弥沙,以及憍萨罗、迦尸、般德罗,还有羯陵伽与摩揭陀。

8.38.15

चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् ।
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते ॥ ८.३८.१५ ॥

般遮罗之外,那些极为有福的 Cedi 人了解永恒的法;而居于各地的恶人,大多除了那些住在边远之地的人。

8.38.16

आमत्स्येभ्यः कुरुपाञ्चालसाल्वा ।
आनैमिशाच्चेदयो ये विशिष्टाः।
धर्मं पुराणमुपजीवन्ति सन्तो ।
मद्रानृते पाञ्चनदांश्च जिह्मान् ॥ ८.३८.१६ ॥

从摩蹉到俱卢、般遮罗和沙尔瓦,从奈弥沙到 Cedi,那些依古法而生活的优秀善人——除了摩德罗人和弯曲的五河之人。

8.38.17

एवं विद्वान्धर्मकथासु राजं… ।
स्तूष्णींभूतः शल्य भवेः सदा त्वम्।
त्वं तस्य गोप्ता च जनस्य राजा ।
षड्भागहर्ता शुभदुष्कृतस्य ॥ ८.३८.१७ ॥

既然如此,在谈论法的场合,国王……哦,沙利亚,你应当永远保持沉默。你是他的守护者,是人民的国王,承受善恶行为的六分之一。

8.38.18

अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता ।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक् ॥ ८.३८.१८ ॥

否则,你便是他们恶行的承受者,因为你不保护他们;保护臣民的国王分享功德,而你确实分享罪过。

8.38.19

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते ।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥ ८.३८.१९ ॥

往昔,永恒的达磨在所有地方受到尊崇时,祖父见到般遮那达人的习俗,说道:“可耻!”

8.38.20

व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम् ।
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत् ॥ ८.३८.२० ॥

关于被梵天因恶行而斥责的律多(vrātya)与达舍基耶(Dāśakīya)贱民的习俗,某位成就的圣者说道:

8.38.21

इति पाञ्चनदं धर्मवमेने पितामहः ।
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत् ॥ ८.३८.२१ ॥

因此祖父轻视般遮那达人的达磨,即使在遵守自身达磨的种姓中,也未尊重他们。

8.38.22

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ॥ ८.३८.२२ ॥

舍利耶啊,你要知道。现在我再对你说:罗刹迦尔玛沙波陀在湖中沉没时说道——

8.38.23

क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम् ।
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम् ॥ ८.३८.२३ ॥

乞讨是刹帝利的污点;无学是婆罗门的污点;巴赫利卡是大地的污点;好奇心是女人的污点。

8.38.24

निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् ।
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप ॥ ८.३८.२४ ॥

某位国王救起沉没的夜行者并询问他;他所说的,请听,人主啊。

8.38.25

मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम् ।
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः ॥ ८.३८.२५ ॥

人之污秽是蛮族;蛮族之污秽是木什提卡人;木什提卡人之污秽是阉人;阉人之污秽是王家祭司。

8.38.26

राजयाजकयाज्यानां मद्रकाणां च यन्मलम् ।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥ ८.३८.२६ ॥

王家祭司及其所祭之人的污秽,以及摩德罗人的污秽,那便会成为你的污秽,若你不能摆脱它。

8.38.27

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च ।
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम् ॥ ८.३८.२७ ॥

如此,对于被罗刹所控及被毒力所伤者,智者们以成就者之言为最终定论,找到了药方。

8.38.28

ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः ।
सत्या मत्स्याः शूरसेनाश्च याज्याः।
प्राच्या दासा वृषला दाक्षिणात्याः ।
स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः ॥ ८.३८.२८ ॥

巴希亚人、般遮罗人与俱卢人是有德之人;萨提亚人、摩蹉人与首罗森人值得为之献祭。东方之人是奴仆与贱民;南方之人是盗贼;巴赫利迦人是杂种,苏罗什特拉人亦然。

8.38.29

कृतघ्नता परवित्तापहारो ।
मद्यपानं गुरुदारावमर्दः।
वाक्पारुष्यं गोवधो रात्रिचर्या ।
बहिर्गेहं परवस्त्रोपभोगः ॥ ८.३८.२९ ॥

忘恩负义,盗取他人财物,饮酒,侵犯师长之妻,恶言,杀牛,夜间游荡,居于家外,以及穿用他人衣物。

8.38.30

शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥ ८.३८.३० ॥

长者遵循贤者的法则而生活。

8.38.31

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः ।
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा ॥ ८.३८.३१ ॥

诸神以火神Jātavedas(阿耆尼)为首,依托于东方;南方由祖先们与行善的阎摩守护。

8.38.32

प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून् ।
उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह ॥ ८.३८.३२ ॥

伐楼那守护西方,制伏众多阿修罗;北方则由尊贵的月神Soma,以及与婆罗门们同在的梵天守护。

8.38.33

रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः ।
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः ॥ ८.३८.३३ ॥

喜马拉雅守护罗刹与毕舍遮,乾陀摩陀那守护夜叉;诸神中最殊胜的毗湿奴必定守护一切众生。

8.38.34

इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः ।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः ॥ ८.३८.३४ ॥

摩揭陀人以手势领会,憍萨罗人以眼神领会;俱卢与般遮罗人只需听半句话;而南道之人则必须把一切都说明。

8.38.35

पार्वतीयाश्च विषया यथैव गिरयस्तथा ।
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः।
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः ॥ ८.३८.३५ ॥

山区的国家也如同群山一般。大王,希腊人(Yavana)无所不知,尤其勇敢;蛮夷(mleccha)只受自己的符号约束,其余之人不说则不懂。

8.38.36

प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः ।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥ ८.३८.३६ ॥

巴赫利卡人已被遏制,而摩德罗人中却无人如此;沙利亚啊,你正是这样的人,因此你不应当作答。

8.38.37

एवं ज्ञात्वा जोषमास्स्व प्रतीपं ।
मा स्म क्रुद्धः पापभृतां वरिष्ठ।
पूर्वं हत्वा त्वां सपुत्रं बलैश्च ।
पश्चाद्धंस्ये वासुदेवार्जुनौ च ॥ ८.३८.३७ ॥

知此之后,默然而坐,勿加反对。罪人中之最勝者,勿要愤怒。我先将你、你的儿子与军队一并杀死,然后再杀瓦苏提婆与阿周那。

8.38.38

आतुराणां परित्यागः स्वदारसुतविक्रयः ।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान् ॥ ८.३८.३८ ॥

在央迦,遗弃病人、出卖自己的妻子儿女之事时有发生,迦尔纳啊,你正是他们的主人。

8.38.39

रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत् ।
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥ ८.३८.३९ ॥

你知道当时毗湿摩在车战士与大车战士的评定中对你所说的那些过失,便应去除愤怒,勿要发怒。

8.38.40

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ ८.३८.४० ॥

迦尔纳啊,婆罗门处处皆有,刹帝利也处处皆有;吠舍与首陀罗亦复如是;持善誓的贞德女子也处处皆有。

8.38.41

रमन्ते चोपहासेन पुरुषाः पुरुषैः सह ।
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम् ॥ ८.३८.४१ ॥

男子戏谑之间与男子相欢,沉醉之中彼此相恋,而且每个地方都有性交之事。

8.38.42

परवाच्येषु निपुणः सर्वो भवति सर्वदा ।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति ॥ ८.३८.४२ ॥

人人总是擅长议论他人的过失,却不知自己的过错;即便知道,也会迷惑。

8.38.43

सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः ।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः ॥ ८.३८.४३ ॥

到处都有国王,各自遵循自己的法。到处也有正直之人,约束恶人。

8.38.44

न कर्ण देशसामान्यात्सर्वः पापं निषेवते ।
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः ॥ ८.३८.४४ ॥

迦尔纳啊,不是人人都因一地的普遍风气而作恶。人们依各自的本性而认识那些地方,它们怎样,便被认作怎样。

8.38.45

तततो दुर्योधनो राजा कर्णशल्याववारयत् ।
सखिभावेन राधेयं शल्यं सौजन्यकेन च ॥ ८.३८.४५ ॥

于是国王难敌出于友情与礼让,制止了迦尔纳和沙利耶。

8.38.46

ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष ।
प्हहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत् ॥ ८.३८.४६ ॥

于是迦尔纳被持国之子制止,便在那里大笑,催促王中之王道:“沙利耶,我们走吧。”