摩诃婆罗多 · 章 8.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.39.1
ततः परानीकभिदं व्यूहमप्रतिमं कृतम् ।
समीक्ष्य कर्णः पार्थानां धृष्टधुम्नाभिरक्षितम् ॥ ८.३९.१ ॥
于是迦尔纳看见般达瓦军队所布的无与伦比的阵列,能摧毁敌军行列,由德里斯塔德尤姆纳守护。
8.39.2
प्रययौ रथघोषेण सिंहनादरवेण च ।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥ ८.३९.२ ॥
他伴随着战车的轰鸣、狮吼与乐器的喧响前进,仿佛要震动大地。
8.39.3
ततः प्रयान्तं राधेयं मद्रराजः स्मयन्निव ।
अवधूय इदं वाक्यमब्रवीत्कुरुसन्निधौ ॥ ८.३९.३ ॥
于是正在前进的罗陀之子迦尔纳,被摩德罗国王微笑着当着俱卢人的面说出了这番话。
8.39.4
चमूं तवेमां विपुलां समृद्वा… ।
मसङ्खेयामश्वनराकुलां च।
तथा प्रवेष्टा समरे धनञ्जयः ।
कक्षं दहन्दीप्त इवाश्रयाशी ॥ ८.३९.४ ॥
在你这支广大、强盛、数不胜数、布满战马与士兵的军队中,财富征服者将在战场上冲入,犹如烈火焚烧丛林。
8.39.5
रथे स्तितौ वीरवरौ वरेण्यौ ।
सिंहस्कन्धौ लोहितपद्मनेत्रौ।
द्रष्टा भवानद्य विना प्रयत्ना… ।
त्तथाहि मे शकुना वेदयन्ति ॥ ८.३९.५ ॥
车上站着两位最卓越的英雄,肩如狮子,眼如红莲。今天你将毫不费力地见到他们,因为我的征兆如此显示。
8.39.6
अद्य द्रष्टाऽसि तं वीरं श्वेताश्वं कृष्णसारथिम् ।
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ॥ ८.३९.६ ॥
迦尔纳啊,今天你将见到那位白马之主,以黑天为御者,在战场上击杀敌人,正是你所询问的那位英雄。
8.39.7
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ ।
वासुदेवार्जुनौ कर्ण द्रष्टाऽस्यमितविक्रमौ ॥ ८.३९.७ ॥
迦尔纳啊,今日你将见到那两位人中虎,红眼、令敌人痛苦的婆苏提婆与阿周那,其勇武无量。
8.39.8
सारथिर्यस्य गोविन्दो गाण्डीवं यस्य कार्मुकम् ।
तं चेद्वन्ताऽसि राधेय त्वं नो राजा भविष्यसि ॥ ८.३९.८ ॥
若你能杀死那位以戈文达为御者、以甘狄瓦为弓的人,罗陀之子啊,你便将成为我们的国王。
8.39.9
प्रवात्येष महावायुरभितस्तव वाहिनीम् ।
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥ ८.३९.९ ॥
这股大风从四面吹向你的军队。这些食肉的野兽嚎叫,发出可怖的声响。
8.39.10
पश्य कर्ण महाघोरं भयं वै रोमहर्षणम् ।
अर्कं जीमूतसङ्काशः कबन्धो वार्य तिष्ठति ॥ ८.३९.१० ॥
迦尔纳啊,看这极其可怖、令人毛骨悚然的恐怖景象!一具如雷云般的无头躯干,立于太阳之前。
8.39.11
पश्य यूथं मृगशतं मृगाणां सर्वतोदिशम् ।
ररास दीप्तलाङ्गूलमादित्यामभि संस्थितम् ॥ ८.३९.११ ॥
看那鹿群,成百上千的鹿,向四面八方。它们尾巴燃烧,面向太阳站立,发出哀嚎。
8.39.12
पश्य काकांश्च गृध्रांश्च समवेतान्सहस्रशः ।
आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सस्वराः ॥ ८.३९.१२ ॥
看啊,乌鸦与秃鹫成千上万地聚集。迦尔纳啊,不祥的鸟儿凝视着太阳,以粗哑的声音鸣叫。
8.39.13
श्वेतवाजिसमायुक्ते तव कर्ण महारथे ।
पताकाः प्रज्वलन्त्येता ध्वजश्चातीव कम्पते ॥ ८.३९.१३ ॥
迦尔纳啊,在你那驾着白马的大战车上,这些旗帜正在燃烧,旗幡剧烈颤动。
8.39.14
उदीर्यतो हयान्पश्य महाकायान्महाजवान् ।
प्लवमानान्महावीर्यानाकाशे गरुडानिव ॥ ८.३९.१४ ॥
看那被驱策前行的马匹,身躯巨大,速度极快,如金翅鸟般在空中跃动,力量非凡。
8.39.15
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः ।
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ॥ ८.३९.१५ ॥
由这些征兆可以断定,迦尔纳啊,成百上千的国王将被杀死,躺卧覆盖大地。
8.39.16
शङ्खानां तुमुलः शब्दः श्रूयते रोमहर्षणः ।
आनकानां च राधेय मृदङ्गानां च हन्यताम् ॥ ८.३९.१६ ॥
螺号的喧天巨响传来,令人毛发竖立;还有鼓、腰鼓也正在敲响,啊,罗陀之子。
8.39.17
शृणु शब्दान्बहुविधान्नराश्वरथवाजिनाम् ।
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥ ८.३९.१७ ॥
听吧,迦尔纳啊,人、马、战车和坐骑的种种声音;听那大人们弓弦、拍掌与箭矢的声响。
8.39.18
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः ।
सहेमचन्द्रताराभाः पताकाः किङ्गिणीयुताः ॥ ८.३९.१८ ॥
匠人以金银磨光的布料制成的旗帜,光彩如金、如月、如星,缀有小铃。
8.39.19
नानावर्णा रणे भान्ति श्वसनेन प्रकम्पिताः ।
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥ ८.३९.१९ ॥
战场上,五彩旗帜在风中颤动闪耀。看那卡尔纳与阿周那的旗帜,如同云中的闪电。
8.39.20
ध्वजाः कणकणायन्ते वातेनातिसमीरिताः ।
सपताकरथाश्चापि पाञ्चालानां महात्मनाम् ॥ ८.३९.२० ॥
旗帜被风猛烈吹动,哗哗作响;那些大心的般遮罗人的带旗战车亦然。
8.39.21
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ।
गजवाजिप्रणुन्ना च कम्पते कर्ण मेदिनी ॥ ८.३९.२१ ॥
这尘土扬起,遮蔽了天空;被象与马践踏的大地,卡尔纳啊,正在颤抖。
8.39.22
श्रूयते मेघसङ्काशो रथनेमिस्वनस्तथा ।
पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्।
प्रहरिष्यन्तमायान्तं कपिप्रवरकेतनम् ॥ ८.३९.२२ ॥
可闻战车车轮的轰鸣,如同乌云。看那英雄,贡蒂之子,不败的毗跋蹉(阿周那)正前来进攻,他的旗帜上有最好的猴子。
8.39.23
गजाश्वरथपत्त्योघांस्तावकान्युधि निघ्नतः ।
ध्वजाग्रं दृश्यते तस्य ज्याशब्दश्चैव श्रूयते ॥ ८.३९.२३ ॥
他在战场上击杀你方象、马、车和步兵的大群,可见他旗帜的顶端,也听得见他弓弦的嗡鸣。
8.39.24
एष संशप्तकान्भूयस्तानेवाभिमुखो गतः ।
करोति कदनं चैष सङ्गामे द्विषतां बली ॥ ८.३९.२४ ॥
这位英雄又转身迎向那些三誓士,这位强者正在战场上大肆屠杀敌人。
8.39.25
इति ब्रुवाणं मद्रेशं कर्णः प्रोवाच मन्युमान् ॥ ८.३९.२५ ॥
摩德罗王如此说话时,愤怒的迦尔纳对他说道。
8.39.26
पश्य संशप्तकैः क्रुद्धैः समन्तात्समभिद्रुतः ।
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते।
एष दान्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥ ८.३९.२६ ॥
看那被愤怒的三誓者从四面包围的人。如同被云遮蔽的太阳,帕尔塔看不见了。沙利耶啊,那位克己的阿周那已沉入悲伤的海洋。
8.39.27
वरुणं कोऽम्भसा हन्यादिन्धनेन च कोऽनलम् ।
कोवाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥ ८.३९.२७ ॥
谁能用水击败伐楼那?谁能用薪柴熄灭火焰?或者谁能阻止风,或者谁能饮尽大海?
8.39.28
ईदृग्रूपमहं मन्ये पार्थस्य युधि निर्जयम् ।
न हि शक्योऽर्जुनो जेतुं युधि देवासुरैरपि ॥ ८.३९.२८ ॥
我认为在战斗中战胜帕尔塔就是这样的形式。阿周那在战斗中无法被征服,即使是神与阿修罗也不能。
8.39.29
अथैघं परितोषस्ते वाग्भिस्त्वं सुमाना भव ।
न हि शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥ ८.३९.२९ ॥
那么就让言语令你满足,心怀好意吧。他在战斗中无法被征服;去实现另一个愿望吧。
8.39.30
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्त्रिदिवाद्देवान्नार्जुनं समरे जयेत् ॥ ८.३९.३० ॥
有人或许能用双臂举起大地,在愤怒中焚烧这些众生,把诸神从天上推落;但他无法在战斗中战胜阿周那。
8.39.31
पश्य कुन्तीसुतं भीमं वीरमक्लिष्टकारिणम् ।
प्रहरन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥ ८.३९.३१ ॥
看那昆提之子怖军,英雄,行事不费力,大臂者正在出击,如须弥山般屹立不动。
8.39.32
अमर्षी पुरुषव्याघ्रः सदा वैरमनुस्मरन् ।
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥ ८.३९.३२ ॥
怀着愤怒,常念旧仇,这位人中虎怖军渴望胜利,在战中威武地屹立。
8.39.33
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः ।
तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ॥ ८.३९.३३ ॥
此人是持法者中的至上者,法王坚战(Yudhiṣṭhira)在战场上屹立,敌人难以战胜,乃攻克敌城者。
8.39.34
एतौ च पुरुषव्याघ्रावाश्विनेयौ महारथौ ।
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥ ८.३९.३४ ॥
这两位人中虎,阿湿文之子,大车战士那拉古拉与萨诃提婆,在战中屹立,难以战胜。
8.39.35
एते तिष्ठन्ति कार्ष्णेयाः पञ्च पञ्चाचला इव ।
योत्स्यमाना महावीर्या भीमार्जुनसमा युधि ॥ ८.३९.३५ ॥
这五位德劳帕蒂之子如五座山岳般屹立,威力巨大,与怖军、阿周那相等,已准备在战中迎战。
8.39.36
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः ।
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥ ८.३९.३६ ॥
这些德鲁帕达之子,以猛光为首,失去了萨提亚吉特的英雄们,以至高的力量屹立。
8.39.37
यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः ।
तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः ॥ ८.३९.३७ ॥
英雄克里希那与阿周那在哪里,国王坚战在哪里,那里就有法与真理;有法之处,便有胜利。
8.39.38
इति संवदतोरेव तयोः पुरुषसिंहयोः ।
ते सेने समसज्जेतां ङ्गायमुनवद्भृशम् ॥ ८.३९.३८ ॥
当这两位人中狮子仍在交谈之际,两军便如恒河与亚穆纳河相汇般猛烈地冲撞在一起。