摩诃婆罗多 · 章 8.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.4.1
मामकस्यास्य सैन्यस्य हृतोत्सेकस्य स़ञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥ ८.४.१ ॥
桑闍耶啊,我军的骄傲已被夺去。主帅既已被摧毁,我看不到任何残余。
8.4.2
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ ।
भीष्मद्रोणौ हतौ श्रुत्वा कोन्वर्थो जीवितेन मे ॥ ८.४.२ ॥
那两位英雄,大弓手,俱卢族中最优秀的人,为我而战。听闻毗湿摩与德罗纳已被杀,我的生命还有什么意义?
8.4.3
न च मृष्यामि राधेयं हतमाहवशोभिनम् ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ ८.४.३ ॥
我无法忍受罗陀之子迦尔纳被杀,他在战场上光彩夺目,双臂之力可敌百百头象。
8.4.4
हतप्रवरसैन्यं मे यथा शंससि सञ्जय ।
अहतानपि मे शंस येऽत्र जीवन्ति केचन ॥ ८.४.४ ॥
桑闍耶啊,你既已描述我最好的军队被杀,也请告诉我这里仍然活着、未被杀死的人。
8.4.5
एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः ।
येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम ॥ ८.४.५ ॥
今日你所提到的人,都已像这些人一样被杀;而仍然活着的人,依我看,全都已死。
8.4.6
यस्मिन्महास्त्राणि समर्पितानि ।
चित्राणि शुभ्राणि चतुर्विधानि।
दिव्यानि राजन्विहितानि चैव ।
द्रोणेन वीरे द्विजसत्तमेन ॥ ८.४.६ ॥
大王,婆罗门中最优秀的德罗纳,将四类光辉、奇妙、神圣的大神兵依法授予了这位英雄。
8.4.7
महारथः कृतिमान्क्षिप्रहस्तो ।
दृढायुधो दृढमुष्टिर्दृढेषुः।
स वीर्यवान्द्रोणपुत्रस्तरस्वी ।
व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ ८.४.७ ॥
那位大车战士,技艺娴熟,手快如飞,武器坚定,握力坚定,箭矢坚定,英勇的德罗纳之子,迅猛无比,已列阵待命,愿为你而战。
8.4.8
आनर्तवासी हृदिकात्मजोऽसौ ।
महारथः सात्वतानां वरिष्ठः।
स्वयं भोजः कृतवर्मा कृतास्त्रो ।
व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ ८.४.८ ॥
那位居于阿那多的大车战士,希利迪卡之子,萨特瓦特人中最杰出者,本身即是博迦族的古塔伐尔曼,精通武艺,已列阵待命,愿为你而战。
8.4.9
आर्तायनिः समरे दुष्प्रकम्प्यः ।
सेनाग्रणीः प्रथमस्तावकानाम्।
यः स्वस्रीयान्पाण्डवेयान्विसृज्य ।
सत्यां वाचं स्वां चिकीर्षुस्तरस्वी ॥ ८.४.९ ॥
阿尔塔耶尼,在战场上难以撼动,是你军中的首领,他抛弃了姐妹之子般度五子,想要践行自己的真实誓言,迅猛无比。
8.4.10
तजोवधं सूतपुत्रस्य सङ्ख्ये ।
प्रतिश्रुत्याजातशत्रोः पुरस्तात्।
दुराधर्षः शक्रसमानवीर्यः ।
शल्यः स्थितो योद्वुकामस्त्वदर्थे ॥ ८.४.१० ॥
沙利耶,难以战胜,武力堪比因陀罗,他曾在阿加塔舍特鲁面前发誓要在战场上杀死御者之子,已列阵待命,愿为你而战。
8.4.11
शारद्वतो गौतमश्चापि राज… ।
न्महाबाहुचित्रास्त्रयोधी।
धनुश्चित्रं सुमहद्भावरसाहं ।
व्यवस्थितो योद्वुकामः प्रगृह्य ॥ ८.४.११ ॥
沙罗陀婆之子及乔答摩,国王… । 大臂者,精通奇妙兵器的战士。 奇妙而极大的弓…… 列阵而立,欲战,执起它。
8.4.12
गान्धारराजः ससुतश्च राज… ।
न्दुर्द्यूतदेवी कलहप्रियश्च।
गान्धारमुख्यैर्यवनैश्च राज… ।
न्व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ ८.४.१२ ॥
犍陀罗王与他的儿子,以及国王…… 喜好赌博,喜好争端。 与犍陀罗的首领们和希腊人一起,国王…… 为了你,欲战而列阵。
8.4.13
महारथः केकयराजपुत्रः ।
सदश्वयुक्तं च पताकिनं च।
रथं समारुह्य कुरुप्रवीर ।
व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ ८.४.१३ ॥
大车将,克迦耶王之子,登上以良马驾辕、饰有旗帜的战车,库鲁英雄,为了你,欲战而列阵。
8.4.14
तथा सुतस्ते ज्वलनार्कवर्णं ।
रथं समास्थाय कुरुप्रवीरः।
व्यवस्थितः पुरुमित्रो नरेन्द्र ।
व्यभ्रे सूर्यो भ्राजमानो यथा खे ॥ ८.४.१४ ॥
同样,你的儿子登上赤如火与太阳之色的战车,库鲁英雄、人主补卢弥陀罗列阵而立,如无云之天的太阳般光辉。
8.4.15
दुर्योधनो नागकुलस्य मध्ये ।
व्यवस्थितः सिंह इवाबभासे।
रथेन जाम्बूनदभूषणेन ।
व्यवस्थितः समरे योत्स्यमानः ॥ ८.४.१५ ॥
难敌立于象群之中,仿如雄狮,乘饰以黄金的战车;列阵于战场,将要交战。
8.4.16
स राजमध्ये पुरुषप्रवीरो ।
रराज जाम्बूनदचित्रवर्मा।
पद्मप्रभो वह्निरिवाल्पधूमो ।
मेघान्तरे सूर्य इव प्रकाशः ॥ ८.४.१६ ॥
在众王之中,那位人中俊杰身披金色斑斓铠甲,光彩如莲,如少烟之火,又如云间闪耀的太阳,熠熠生辉。
8.4.17
तथा सुषेणोऽप्यसिचर्मपाणि… ।
स्तवात्मजः सत्यसेनश्च वीरः।
व्यवस्थितौ चित्रसेनेन सार्धं ।
हृष्टात्मानौ समरे योद्धकामौ ॥ ८.४.१७ ॥
同样,你的儿子苏舍那手持剑与盾……英雄萨提耶塞那与citrasena一同列阵而立,心中欢喜,渴望在战斗中交锋。
8.4.18
हीनिषेवो भारतराजपुत्र ।
उग्रायुधः श्रुतवर्मा जयश्च।
शलश्च सत्यव्रतदुःशलौ च ।
व्यवस्थिताः सहसैन्या नराग्र्याः ॥ ८.४.१८ ॥
婆罗多王之子 Hīniṣeva、手持猛烈武器的 Śrutavarman、Jaya 与 Śala,以及 Satyavrata 与 Duḥśala,这些人中俊杰,率领各自的军队列阵而立。
8.4.19
कैतव्यानामधिपः शूरमानी ।
रणेरणे शत्रुहा राजपुत्रः।
रथी हयी नागपत्तिप्रयायी ।
व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ ८.४.१९ ॥
凯塔维耶人之主,以自身勇武自负,在每一场战斗中都杀死敌人的王子,乘车与骑马,率象兵与步兵前进,为你的缘故而渴望交战,列阵而立。
8.4.20
वीरः श्रुतायुश्च धृतायुधश्च ।
चित्राङ्गदश्चित्रसेनश्च वीरः।
व्यवस्थिता योद्वुकामा नराग्र्याः ।
प्रहारिणो मानिनः सत्यसन्धाः ॥ ८.४.२० ॥
英雄 Śrutāyus 与 Dhṛtāyudha、Citrāṅgada 以及英雄 Citrasena 列阵而立,渴望交战;他们是人中俊杰,善于出击,自负而信守誓言。
8.4.21
कर्णात्मजः सत्यसन्धो महात्मा ।
व्यवस्थितः समरे योद्वुकामः ॥ ८.४.२१ ॥
迦尔纳之子,守信诺,大心,在战场上列阵,渴望作战。
8.4.22
अथापरौ कर्णसुतौ वरास्त्रौ ।
व्यवस्थितौ लघुहस्तौ नरेन्द्र।
बले महत्युल्बणसत्ववीर्यौ ।
समास्थितौ योद्वुकामौ त्वदर्थे ॥ ८.४.२२ ॥
然后,迦尔纳的另外两个儿子,善用兵器、手法敏捷,啊,人主,立于大军之中,勇猛刚强,为你而战,渴望作战。
8.4.23
एतैश्च मुख्यैरपरैश्च राज… ।
न्योधप्रवीरैरमितप्रभावैः।
व्यवस्थितो नागकुलस्य मध्ये ।
यथा महेन्द्रः कुरुराजो जयाय ॥ ८.४.२३ ॥
与这些主要的勇士及其他人一起,国王……,与如尼拘卢陀树般的英勇战士,具有无量威力,他立于象群之中,如同因陀罗;为胜利而立的库鲁王。
8.4.24
आख्याता जीवमाना ये परे सैन्या यथायथम् ।
इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः ॥ ८.४.२४ ॥
其余被报告仍然活着的军队已按次序叙述;由此,我从所述的意义中清楚地理解了这一点。
8.4.25
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः ।
हतप्रवीरं भूयिष्ठं किञ्चिच्छेषं स्वकं बलम्।
श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः ॥ ८.४.२५ ॥
他正这样说着,安比卡之子持国听闻自己的大部分英雄已被杀死,自己的军队只剩下一小部分,便陷入迷惑,他的感官被悲痛所扰乱。
8.4.26
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ।
मनो मुह्यति चाङ्गानि न च शक्नोमि धावितुम्।
इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः ।
भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥ ८.४.२६ ॥
亲爱的,听到如此极其令人痛苦的消息,我的心神慌乱;心志昏迷,四肢无力,我连奔跑都做不到。说完这些话后,安婆利迦之子、大地之主持国王便心神迷乱了。