Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.41.1

ततः परानीकभिदं व्यूहमप्रतिमं महत् ।
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ॥ ८.४१.१ ॥

此时,迦尔纳看到般度之子那支能摧破敌军、无与伦比的大阵,由猛光守护,

8.41.2

प्रययौ रथघोषेण सिंहनादरवेण च ।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥ ८.४१.२ ॥

他伴随着战车的轰鸣、狮吼与乐器的喧响前进,仿佛要震动大地。

8.41.3

वेपमान इव क्रोधाद्युद्वशौण्डः परन्तपः ।
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ ॥ ८.४१.३ ॥

迦尔纳仿佛因愤怒而颤抖,他好战自豪,折磨敌人,光辉伟大,依照常规布下自己的阵势,婆罗多族之雄啊。

8.41.4

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव ।
युधिष्ठिरं चाभ्यहनदपसव्यं चकारह ॥ ८.४१.४ ॥

如同因陀罗驱散阿修罗大军,他驱散了般度军;他也击中了坚战,使其被迫以右为左(apasavya)。

8.41.5

कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च ।
सुसङ्ग्राहेण रश्मीनां समकम्पन्त सृञ्जयाः ॥ ८.४१.५ ॥

迦尔纳战车的轰鸣、弓弦的震响以及他紧握缰绳的力道,使所有的斯里迈耶人都颤抖起来。

8.41.6

तानि सर्वाणि सैन्यानि कर्ण दृष्ट्वा विशाम्पते ।
बभूवुः सम्प्रहृष्टानि तावकानि युयुत्सया ॥ ८.४१.६ ॥

人主啊,看到迦尔纳,你的所有军队都因渴望战斗而欢欣鼓舞。

8.41.7

अश्रूयन्त ततो वाचस्तावकानां विशाम्पते ।
कर्णार्जुनमहायुद्धमेतदद्य भविष्यति ॥ ८.४१.७ ॥

人主啊,此时便听见你的军士们的呼声:今日必将发生迦尔纳与阿周那的这场大战。

8.41.8

अद्य दुर्योधनो राजा हतामित्रो भविष्यति ।
अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति ॥ ८.४१.८ ॥

今日国王难敌将成为击杀敌人者;今日阿周那在战场上见到迦尔纳,便会逃走。

8.41.9

अद्य तावद्वयं युद्धे कर्णस्यैवानुगामिनः ।
कर्णबाणमयं भीमं युद्धं द्रक्ष्याम संयुगे ॥ ८.४१.९ ॥

今日我们在战斗中只追随迦尔纳,将看到充满迦尔纳箭矢的可怖大战。

8.41.10

चिरकालेप्सितमिदमद्येदानीं भविष्यति ।
अद्य द्रक्ष्याम सङ्ग्रामं घोरं देवासुरोपमम् ॥ ८.४१.१० ॥

这件久已期盼之事今日便会发生;今日我们将看到如天神与阿修罗之战般可怖的大战。

8.41.11

अद्येदानीं महद्युद्धं भविष्यति भयानकम् ।
अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे ॥ ८.४१.११ ॥

今日此刻将发生一场伟大而可怖的战斗;今日此刻,在战场上胜利必定归于其中一方。

8.41.12

अर्जुनं किल राधेयो वधिष्यति महारणे ।
अथवा कं नरं लोके न स्पृशन्ति मनोरथाः ॥ ८.४१.१२ ॥

辐陀之子迦尔纳必将在大战中杀死阿周那;或者,世上有哪个人不被欲望所触动呢?

8.41.13

इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन ।
आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः ॥ ८.४१.१३ ॥

诸俱卢说了种种话语,俱卢族的欢喜者啊,他们成千地敲击鼓与号角。

8.41.14

भेरीनादांश्च विविधान्सिंहनादांश्च पुष्कलान् ।
मुरजानां महाशब्दानानकानां महारवान् ॥ ८.४१.१४ ॥

种种鼓声,众多狮吼,鼓的巨响,以及大鼓的雷鸣。

8.41.15

नृत्यमानाश्च बहुशस्तर्जमानाश्च मारिष ।
अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः ॥ ८.४१.१५ ॥

诸位君主啊,他们多次舞蹈、恫吓,进入战场的人们在战斗中彼此冲杀。

8.41.16

तेषां पदाता नागानां पादरक्षाः समन्ततः ।
पट्टसासिधराः शूराश्चापबाणमुसुण्ठिनः ॥ ८.४१.१६ ॥

他们的步兵与护卫象脚的人四面环绕;英勇的战士持剑与帕提舍,手持弓箭和铁棍。

8.41.17

भिण्डिपालधराश्चैव शूरलहस्ताः सुचक्रिणः ।
तेषां समागमो घोरो देवासुररणोपमः ॥ ८.४१.१७ ॥

持满脱帕拉的,手如英雄的,善持飞轮的;他们的相遇如同天神与阿修罗的战斗般可怕。

8.41.18

कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् ।
धृष्टद्युम्नमुखान्सङ्ख्ये भीमसेनाभिरक्षितान्।
सर्वानेव महेष्वासानजय्यानमरैरपि ॥ ८.४१.१८ ॥

桑闪耶啊,罗陀之子迦尔纳如何在战场上布阵,对抗以持国子为首、由怖军护卫、即使诸神也无法战胜的所有大弓箭手般驯服的般度之子们?

8.41.19

के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय ।
प्रविभज्य यथान्यायमवतस्थुः सुदंशिताः ॥ ८.४१.१९ ॥

桑闍耶啊,我军的哪些侧翼与翼队,依法分配,披甲整齐地列阵而立?

8.41.20

कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् ।
कथं चैतन्महद्युद्धं प्रावर्तत सुदारुणम् ॥ ८.४१.२० ॥

般度之子如何对我方部众布阵?这场大战又如何爆发得如此惨烈?

8.41.21

क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् ।
को ह्यर्जुनस्य सान्निध्ये शक्तो जेतुं युधिष्ठिरम् ॥ ८.४१.२१ ॥

勇猛的阿周那(Bībhatsu)在哪里,以致迦尔纳竟向坚战冲去?在阿周那面前,谁能战胜坚战?

8.41.22

सर्वभूतानि यो ह्येकः खाण्डवे जितबान्पुरा ।
कस्तमन्यस्तु राधेयात्प्रतियुध्येज्जिजीविषुः ॥ ८.४१.२२ ॥

除了曾在候望林(Khāṇḍava)独自战胜一切众生的罗陀之子迦尔纳,还有谁愿意在求生的心愿下与他交战?

8.41.23

शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः ।
परिवार्य नृपान्सर्वान्सङ्ग्रामश्चाभवद्यथा ॥ ८.४१.२३ ॥

请听阵列的布置,阿周那如何前进、包围诸王,以及战斗如何展开。

8.41.24

कृपः शारद्वतो राजन्मागधाश्च तरस्विनः ।
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥ ८.४१.२४ ॥

大王啊,沙罗堕多之子克里巴、迅猛的摩揭陀人,以及萨提婆族的克利特瓦尔曼,据守右翼。

8.41.25

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः ।
सादिभिर्विमलप्रासैस्तदानीमभ्यरक्षताम् ॥ ८.४१.२५ ॥

在他们的外侧,大车将沙恭尼与乌卢迦以手持明亮长矛的骑兵守护着阵列。

8.41.26

गान्धारैश्चाप्यसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः ।
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥ ८.४१.२६ ॥

有不惊不乱的犍陀罗人和难以征服的山地民族,如蝗群一般,又如鬼魅般令人望而生畏。

8.41.27

चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम् ।
संशप्तका युद्वशौण्डा वामपाश्वमपालयन् ॥ ८.४१.२७ ॥

二十四千辆不退的战车——以战斗自豪的三誓者——守护着左翼。

8.41.28

समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः ।
तेषां प्रपक्षाः काम्भोजाः शकाश्च यवनैः सह ॥ ८.४१.२८ ॥

与你的儿子们联合,渴望杀死克里希纳与阿周那——他们的侧翼是剑浦阁人、塞种人和希腊人。

8.41.29

निदेशात्सूतपुत्रस्य सरथाश्वेभपत्तयः ।
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥ ८.४१.२९ ॥

遵从御者之子迦尔纳的命令,他们与战车、骑兵、象兵和步兵一道,挑战阿周那与大力的克沙瓦。

8.41.30

ततः सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः ।
चित्रवर्माङ्गदः स्रग्वी पालयन्वाहिनीमुखम् ॥ ८.४१.३० ॥

于是迦尔纳也在军阵前列站立,身披彩色甲胄,佩戴臂钏与花环,守护着军队的前锋。

8.41.31

रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः ।
वाहिनीं प्रमुखे वीरः सम्प्रकर्षन्नशोभत ॥ ८.४१.३१ ॥

持械者中最优秀的英雄,由怒气勃勃的诸子护卫,在军队前列驱策前进,光彩照人。

8.41.32

अशोकस्तु महाबाहुः सूर्यवैश्वानरप्रभः ।
महाद्विपस्कन्धगतः पिङ्गाक्षः प्रियदर्शनः।
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ॥ ८.४१.३२ ॥

大臂的阿输迦如日火般光辉,坐在一头大象的肩上,黄褐色的眼睛,令人喜爱。杜沙萨那被军队环绕,立于阵列之后。

8.41.33

तन्मध्ये स महाबाहुः स्वयं दुर्योधनो नृपः ।
चित्राश्वैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः ॥ ८.४१.३३ ॥

在他们中央的,正是大臂的国王难敌本人,四面被同母兄弟们护卫,他们骑着杂色的马,穿着杂色的铠甲。

8.41.34

रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः ।
अशोभत महाराज देवैरिव शतक्रतुः ॥ ८.४१.३४ ॥

大王啊,他由大力的摩德罗人和迦叶人共同护卫,光辉如被诸神环绕的百祭之主因陀罗。

8.41.35

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः ।
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैः समन्विताः।
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥ ८.४१.३५ ॥

阿输婆塔摩与俱卢族中的杰出英雄和大战车武士,连同常年狂暴的象群和蛮夷勇士,跟随着那支车阵,如降雨的云层般涌动。

8.41.36

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः ।
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥ ८.४१.३६ ॥

他们旗帜飘扬、胜利之幡招展,手持闪亮的精良兵器,骑兵在上,光彩如林木覆盖的山岳。

8.41.37

तेषां पदातिनागानां पादरक्षाः सहस्रशः ।
पट्टसासिधराः शूरा बभूवुरनिवर्तिनः ॥ ८.४१.३७ ॥

其中,步兵与象兵的数千护卫,持棍与剑的勇士,成为绝不后退的人。

8.41.38

सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः ।
स व्यूहराजो विबभौ देवासुरचमूपमः ॥ ८.४१.३८ ॥

这支阵列之王,以骑兵、战车和象兵极其装饰,光彩如同神与阿修罗的军队。

8.41.39

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता ।
नृत्यतीव महाव्यूहः परेषां भयमादधत् ॥ ८.४१.३९ ॥

这大阵依照布利哈斯帕蒂之法排列得井然有序,由智慧的统帅安排,仿佛在舞动,向敌人散播恐惧。

8.41.40

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।
हस्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ॥ ८.४१.४० ॥

从其两翼与副翼中,渴望战斗的勇士涌出:象、马、战车与象夫,如同雨季的乌云。

8.41.41

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः ।
धनञ्जयममित्रघ्नमेकवीरमुवाच ह ॥ ८.४१.४१ ॥

那时,国王坚战见卡尔纳在军前,便对灭敌的唯一英雄财天(阿周那)说道。

8.41.42

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे ।
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते ॥ ८.४१.४२ ॥

阿周那,看哪,卡尔纳在战场上所布的大阵:敌军连同其两翼与副翼,闪耀而出。

8.41.43

तत्समीपगतं ह्येतत्प्रत्यमित्रं महद्बूलम् ।
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ॥ ८.४१.४३ ॥

这支庞大的敌军就在近旁。应当制定策略,使其不能压倒我们。

8.41.44

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् ॥ ८.४१.४४ ॥

国王如此说后,阿周那合掌对国王说道。

8.41.45

यथा यथा भवानाह तत्तथा न तदन्यथा ।
यत्तस्य विहितं कार्यं तत्करिष्यामि सुव्रत।
प्रधानमथ चैवास्य विनाशं च करोम्यहम् ॥ ८.४१.४५ ॥

您所说如何,便是如何,绝非其他。哦,持誓坚定者,我将完成为他所规定的职责,也将消灭他的首领。

8.41.46

तस्मात्त्वं जहि राधेयं भीमसेनः सुयोधनम् ।
वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥ ८.४१.४६ ॥

因此,你应击杀罗陀之子迦尔纳;毗摩先那击杀苏由达那,那库拉击杀伐里舍那,偕提婆也击杀苏跋罗之子。

8.41.47

दुःशानं शतानीको हार्दिक्यं शिनिपुङ्गवः ।
धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम् ॥ ८.४१.४७ ॥

杜尚塞那由沙塔尼伽杀之,希尔迪基亚由诗尼族之最优者(萨提亚基)杀之,德罗纳之子由德里ษ塔祖姆那杀之;我自己将与克里帕交战。

8.41.48

द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना ।
ते ते च तांस्तानहितानस्माकं घ्न्तु मामकाः ॥ ८.४१.४८ ॥

德罗波蒂之子与尸迦丁一同杀掉其余的持国之子;我的部下则杀掉我们那些各自的敌人。

8.41.49

इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः ।
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥ ८.४१.४९ ॥

法王如此说后,财主答道:“就这样吧。”他下令自己的军队,自己则走到了军阵的前方。

8.41.50

धनञ्जयो महाराज दक्षिणं पक्षमास्थितः ।
भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः ॥ ८.४१.५० ॥

大王,财主站在右翼,大臂的怖军则占据了左翼。

8.41.51

सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः ।
व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः ॥ ८.४१.५१ ॥

萨提亚基、德罗波蒂的诸子,以及般度王本人,被各自的军队环绕,站在阵列的前方。

8.41.52

स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः ।
प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ ॥ ८.४१.५२ ॥

般度之子以自己的兵力对抗敌军,并将猛光与尸犍底置于前列,依次布下阵形。

8.41.53

तत्सादिनागकलिलं पदातिरथसङ्कुलम् ।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम् ॥ ८.४१.५३ ॥

那支庞大而可怖的大军,骑兵与象兵密布,步兵与战车拥挤,以猛光为前锋,光彩夺目。