摩诃婆罗多 · 章 8.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.46.1
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय ।
येन कर्णो महाबाहू रथोपस्थे निपातितः ॥ ८.४६.१ ॥
桑闍耶啊,怖軍完成了这一极其艰难的功业,使大臂的迦尔纳倒在战车的车台上。
8.46.2
कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह ।
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥ ८.४६.२ ॥
「迦尔纳独自便能在战场上与斯陵闍耶人一同杀尽般度子。」御者啊,难敌一再对我这样说。
8.46.3
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥ ८.४६.३ ॥
在战斗中见到罗陀之子(迦尔纳)被怖军击败之后,我的儿子难敌又做了什么?
8.46.4
विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।
पुत्रस्तव महाराज सोदर्यानिदमब्रवीत् ॥ ८.४६.४ ॥
大王啊,见到罗陀之子、御者之子迦尔纳在大战中背转身去,您的儿子便对他的兄弟们这样说。
8.46.5
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत ।
भीमसेनभयेऽगाधे म़ज्जन्तं व्यसनार्णवे ॥ ८.४६.५ ॥
「愿你们吉祥!快去保护罗陀之子,他正沉没于灾难的大海中,陷入怖军带来的无边恐惧之中。」
8.46.6
ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः ।
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा ॥ ८.४६.६ ॥
他们受国王之命,欲杀怖军,怒气冲冲,如飞蛾扑火一般冲向他。
8.46.7
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः ।
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥ ८.४६.७ ॥
室鲁多育斯、杜尔达罗、克拉陀、毗毗特苏、毗吒、沙摩、尼尚冈、迦婆秦、波奢辛,以及难陀与优波难陀。
8.46.8
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।
धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः ॥ ८.४६.८ ॥
杜沙普罗达尔沙、苏跋忽、风速与苏跋栴娑、持弓者、杜摩陀、水钵、沙罗与沙诃。
8.46.9
एते रथैः परिवृता वीर्यवन्तो महाबलाः ।
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ॥ ८.४६.९ ॥
这些勇猛有力的大力士被战车包围,接近毗摩娑那,从四面八方将他围住。
8.46.10
ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः ।
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ॥ ८.४६.१० ॥
他们从四面八方射出带有各种标记的箭雨;大力的毗摩娑那受到他们的逼迫……
8.46.11
तेषामापततां क्षिप्रं सुतानां ते जनाधिप ।
रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान् ॥ ८.४६.११ ॥
人主啊!在迅速扑来的你的诸子中,毗摩娑那连同五百战车一并击毁了五十辆战车。
8.46.12
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।
भीमसेनो महाराज तत्पपात हतं भुवि ॥ ८.४६.१२ ॥
于是愤怒的毗摩娑那以一支钵罗箭斩下了毗毗特苏的头;大王啊,他被杀倒地。
8.46.13
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा ।
अशोभत महाराज पूर्णचन्द्र इवाम्बरे ॥ ८.४६.१३ ॥
他戴着耳环和头盔,如同满月。大王啊,他如天空中的满月般闪耀。
8.46.14
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा ।
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥ ८.४६.१४ ॥
见此英雄被杀,他的兄弟们便从四面八方冲向威猛勇武的怖军。
8.46.15
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ।
जहार समरे प्राणान्भीमो भीमपराक्रमः ॥ ८.४६.१५ ॥
接着在大战中,威猛勇武的怖军以另外两支钵罗箭,夺去了你两个儿子的性命。
8.46.16
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ।
विकटश्च सहश्चोमौ देवपुत्रोपमौ नृप ॥ ८.४६.१६ ॥
二人如被风折断的两棵树般倒在地上。大王啊,毗迦吒与萨诃二人都如天神之子。
8.46.17
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ।
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ ८.४६.१७ ॥
接着怖军迅速将克拉陀送往阎摩的住所;他被极锋利的那罗遮箭射中,倒在了地上。
8.46.18
हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर ।
वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु ॥ ८.४६.१८ ॥
人主啊,那时当你的儿子们——善射的英雄们——被杀之际,爆发了剧烈的哀嚎。
8.46.19
तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः ।
नन्दोपनन्दौ समरे प्रैषयद्यमसादनम् ॥ ८.४६.१९ ॥
当他们的军队彻底陷入混乱时,大力的婆罗目(Bhīma)在战斗中又将难陀与优婆难陀送往阎摩的居所。
8.46.20
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः ।
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥ ८.४६.२० ॥
于是你的儿子们惊恐慌乱,在战场上见到如时间、灭尽者与阎摩一般的婆罗目之子,纷纷逃散。
8.46.21
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः ।
हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः ॥ ८.४६.२१ ॥
见你的儿子们被杀,御者之子(迦尔纳)深感忧愁,便再次将天鹅色的马驱向般度之子所在之处。
8.46.22
ते प्रेषिता महाराज मद्रराजेन वाजिनः ।
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥ ८.४६.२२ ॥
大王啊,那些由摩德罗王派出的马匹迅速抵达婆罗目之子的战车,并与之交战。
8.46.23
स सन्निपातस्तुमुलो घोररूपो विशाम्पते ।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ ८.४६.२३ ॥
人主啊,大王啊,迦尔纳与般度之子之间的那场交锋在战场上变得喧嚣、可怖而狂暴。
8.46.24
दृष्ट्वा मम महाराज तौ समेतौ महारथौ ।
आसीद्बुद्विः कथं युद्वमेतदद्य भविष्यति ॥ ८.४६.२४ ॥
大王啊,我见那两位大车战士相会,心中便生出一个念头:今日这场战斗将如何进行?
8.46.25
ततो भीमो रणश्लाघी छादयामास पत्रिभिः ।
कर्णं रणे महाराज पुत्राणां तव पश्यताम् ॥ ८.४६.२५ ॥
于是以战中自夸的毗摩以箭遮蔽迦尔纳,大王啊,当时你的儿子们正在观看。
8.46.26
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः ।
विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः ॥ ८.४६.२६ ॥
于是迦尔纳大怒,精通至高兵器,以九支铁箭和节弯的薄刃箭射中毗摩。
8.46.27
तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः ।
आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः ॥ ८.४६.२७ ॥
毗摩大臂者,威力可怖,摧毁了那些箭后,以七支拉至耳边的箭射中迦尔纳。
8.46.28
ततः कर्णो महाराज आशीविष इव श्वसन् ।
शरवर्षेण महता छादयामास पाण्डवम् ॥ ८.४६.२८ ॥
大王啊,迦尔纳如毒蛇般嘶嘶作响,以大箭雨遮蔽了般度之子。
8.46.29
भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम् ।
पश्यतां कौरवेयाणां विननर्द महाबलः ॥ ८.४६.२९ ॥
毗摩亦以群箭遮蔽那位大车将,在俱卢众的注视下,以大力咆哮。
8.46.30
ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम् ।
भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः।
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च ॥ ८.४६.३० ॥
于是迦尔纳大怒,持起坚韧的弓,以十支在石上磨利、饰以鹭羽的箭射中毗摩,又以锐利的薄刃箭斩断了他的弓。
8.46.31
ततो भीमो महाबाहुर्हेमपट्टविभूषितम् ।
परिघं घोरमादाय मृतत्युदण्डमिवापरम्।
कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन् ॥ ८.४६.३१ ॥
于是臂力强大的毗摩手持一根装饰着金带、犹如另一根死神之杖的可怕铁杵,渴望卡尔纳死亡,咆哮着以巨大力量将其掷出。
8.46.32
तमापतन्तं परिघं वज्राशनिसमस्वनम् ।
चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः ॥ ८.४६.३२ ॥
卡尔纳用如毒蛇般的箭矢,将那如金刚与雷霆般轰鸣、朝他飞来的铁杵斩成了许多碎片。
8.46.33
ततः कार्मुकमादाय भीमो दृढतरं तदा ।
छादयामास विशिखैः कर्णं परबलार्दनम् ॥ ८.४६.३३ ॥
于是毗摩更加坚定地握起弓,用箭矢遮蔽了摧毁敌军的卡尔纳。
8.46.34
ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे ।
बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः ॥ ८.४६.३४ ॥
于是卡尔纳与般度之子在战场上爆发了一场可怕的战斗,犹如两位强大的天神之王彼此渴望对方死亡,一次又一次地相互冲击。
8.46.35
ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः ।
आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम् ॥ ८.४६.३५ ॥
于是,大王啊,卡尔纳将弓紧紧拉弯至耳边,以三支箭射中了毗摩森。
8.46.36
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः ।
घोरमादत्त विशिखं कर्णकायावदारणम् ॥ ८.४६.३६ ॥
这位被卡尔纳重创的大弓箭手,乃勇士中的翘楚,取出一支足以撕裂卡尔纳身躯的可怕箭矢。
8.46.37
तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः ।
प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः ॥ ८.४६.३७ ॥
大王啊,箭穿透了他的铠甲和身体,进入了他那优良的肉体,就像蛇钻进蚁穴一样。
8.46.38
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।
सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः ॥ ८.४६.३८ ॥
他被那猛烈的一击所折磨,似乎昏乱,卡尔纳在战车上摇晃,就像地震中的山岳。
8.46.39
ततः कर्णो महाराज रोषामर्षसमन्वितः ।
भीमं तं पञ्चविंशत्या नाराचानां समार्पयत् ॥ ८.४६.३९ ॥
于是,大王啊,充满愤怒与不耐的卡尔纳用二十五支铁箭射向那位毗摩。
8.46.40
चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा ॥ ८.४६.४० ॥
他迅速用一支箭割断了般度之子的弓。
8.46.41
तततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्वसन्निव ।
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥ ८.४६.४१ ॥
然后,片刻之间,王中之王啊,卡尔纳毫不费力,仿佛轻而易举,使这位行事可怖的毗摩失去了战车。
8.46.42
विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः ।
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात् ॥ ८.४६.४२ ॥
婆罗多之最啊,他失去战车,像风一样大笑,那大臂者拿起铁锤,从优良的战车上跃下。
8.46.43
गदया च महाराज कर्णस्य रथकूबरम् ।
पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः ॥ ८.४६.४३ ॥
大王啊,愤怒的敌人焚烧者在战斗中用铁杵击碎了迦尔纳的车辕座。
8.46.44
स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान् ।
विद्राव्य गदया वीरस्तव पुत्रान्महाहवे ॥ ८.४६.४४ ॥
那位被愤怒支配的威猛般度之子英雄,在大战中用铁杵驱散了你的儿子们。
8.46.45
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ॥ ८.४६.४५ ॥
大王啊,形如愤怒的敌人折磨者怖军,突然击倒了七百头长着犁杖般獠牙的进攻之象。
8.46.46
दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च ।
मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली ॥ ८.४६.४६ ॥
击打象牙根部、眼睛、额角、脸颊以及要害之处,精通要害的强者杀死了那些象。
8.46.47
अर्दिता भीमसेनेन विनदन्तो भृशातुराः ।
ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः।
महामात्रास्तमावव्रुर्मेघा इव दिवाकरम् ॥ ८.४६.४७ ॥
被怖军折磨,极度痛苦,咆哮着,一次又一次地受伤,惊恐的它们逃跑了;于是象夫们像乌云遮蔽太阳一样将他包围。
8.46.48
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् ।
भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान् ॥ ८.४६.४८ ॥
他站在地上,用铁杵击打那七百头象,连同象上的骑手、武器和旗帜,如同因陀罗以金刚杵击碎群山。
8.46.49
ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।
पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः ॥ ८.४६.४९ ॥
随后,降伏敌人的昆提之子又踩碎了苏巴拉之子的五十二头极为强大的象。
8.46.50
तथा रथशततं साग्रं पत्तींश्च शतशोऽपरान् ।
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥ ८.४६.५० ॥
同样,般度之子在战斗中击杀了一百多辆战车和数百名其他步兵,使你的军队苦不堪言。
8.46.51
प्रताप्यमानं सूर्येण भीमेन च महात्मना ।
तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा ॥ ८.४६.५१ ॥
你的军队被太阳和大德的毗摩炙烤,像放在火中的皮革一样收缩了。
8.46.52
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ ।
विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश ॥ ८.४६.५२ ॥
你的部下被毗摩的恐惧吓破了胆,婆罗多族的雄牛啊,他们在战斗中抛下迦尔纳,向十个方向逃散了。
8.46.53
रथाः पञ्चशताश्चान्ये हादिनः शरवर्षिणः ।
भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः ॥ ८.४६.५३ ॥
另外五百辆战车呼啸着,倾泻箭雨,冲向毗摩,从四面八方以箭群攻击他。
8.46.54
तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान् ।
पोथयामास गदया भीमो विष्णुरिवासुरान् ॥ ८.४६.५४ ॥
如同毗湿奴碾压阿修罗,毗摩以他的狼牙棒将那五百位英雄连同他们的旗幡、旌旗与兵器一并碾碎。
8.46.55
ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः ।
त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः ॥ ८.४६.५५ ॥
于是,受沙古尼派遣、被视为勇士的三千骑兵手持箭、矛与长枪向前进发。
8.46.56
तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा ।
विविधान्विचरन्मार्गान्गदया समपोथयत् ॥ ८.४६.५६ ॥
于是灭敌者迎上前去,在他们沿各路盘旋之时,以铁棒将耶槃那人与骑兵全部击碎。
8.46.57
तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः ।
अग्निभिर्दह्यमानानां नलानामिव भारत ॥ ८.४६.५७ ॥
婆罗多之子啊,被击中者的哀号从四面八方响起,如同火中焚烧的芦苇噼啪作响。
8.46.58
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् ।
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥ ८.४६.५८ ॥
如此,他杀尽苏跋罗之子的三千名良骑,又登上另一辆战车,怒气冲冲地向罗陀之子冲去。
8.46.59
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम् ।
स शरैश्छादयामास सारथिं चाप्यपातयत् ॥ ८.४६.५९ ॥
国王啊,在战斗中,迦尔纳也以箭雨覆盖了制伏敌人的法之子,并击倒了他的御者。
8.46.60
ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः। ॥ ८.४६.६० ॥
于是大车将迦尔纳看见自己的军队四散奔逃。
8.46.61
राजानमभिधावन्तं शरैरावृत्य रोदसी ।
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥ ८.४६.६१ ॥
怒气冲冲的风之子以箭覆盖冲向国王的敌人,用箭网遮蔽了天地。
8.46.62
सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥ ८.४६.६२ ॥
于是折磨敌人的罗陀之子迅速回身,用锐利的箭从四面八方遮蔽了怖军。
8.46.63
भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः ।
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ॥ ८.४६.६३ ॥
婆罗多啊,心志无量的萨谛奇因后方突袭之怨,猛烈逼迫那想夺取怖军战车的迦尔纳。
8.46.64
भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम् ।
अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः ॥ ८.४६.६४ ॥
婆罗多啊,想夺取怖军战车的迦尔纳向萨谛奇冲去,以箭雨逼迫他。
8.46.65
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ।
विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ ॥ ८.४६.६५ ॥
这两头射手中的雄牛相遇,射出炽热的箭,光芒四射,心志高远。
8.46.66
ताभ्यां वियति राजेन्द्र विततततं भीमदर्शनम् ।
कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥ ८.४६.६६ ॥
诸王之主啊,天空中显现出二人射出的箭网,散布开来,令人望而生畏,其色如鹤背般泛红。
8.46.67
नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा ।
प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः ॥ ८.४६.६७ ॥
大王啊,既看不见日光,也看不见方向和次方向;因为千万支射出的箭,我们无法辨认他们。
8.46.68
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः ।
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥ ८.४६.६८ ॥
大王啊,正午灼热的太阳的大光辉,当时全部被迦尔纳和摩陀婆的箭雨夺走了。
8.46.69
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ।
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥ ८.४६.६९ ॥
看到苏波罗之子沙古尼、胜军、德罗纳之子、阿提罗陀之子迦尔纳以及克利巴与般度诸子交战,俱卢人又一次转身退却。
8.46.70
तेषामापततां शब्दस्तीत्र आसीद्विशाम्पते ।
उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः ॥ ८.४६.७० ॥
人主啊,他们冲杀时的喧声猛烈,如同汹涌大海的暴雨般令人恐惧。
8.46.71
ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे ।
हर्षेण महता युक्ते परिगृह्य परस्परम् ॥ ८.४६.७१ ॥
在那场大战中,两军彼此相见,紧紧缠斗在一起,满怀极大的喜悦,相互夹击包围。
8.46.72
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ।
यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम् ॥ ८.४६.७२ ॥
此时太阳到达正午,战斗爆发了,那是我们以前从未见过、也从未听说过的。
8.46.73
बलौघस्तु समासाद्य बलौघं सहसा रणे ।
उपसर्पत वेगेन वार्योघ इव सागरम् ॥ ८.४६.७३ ॥
于是军队的洪流在战场上猛然撞上军队的洪流,迅猛地向前冲去,如同江水奔向大海。
8.46.74
आसीन्निनादः सुमहान्बाणौघानां परस्परम् ।
गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान् ॥ ८.४६.७४ ॥
相互碰撞的箭雨洪流中发出巨大的喧嚣,如同咆哮的大海波涛发出的巨响。
8.46.75
ते तु सेने समासाद्य वेगवत्यौ परस्परम् ।
एकीभावमनुप्राप्ते नद्याविव समागमे ॥ ८.४६.७५ ॥
那两支迅猛的大军相遇后合而为一,犹如两条河流在交汇处合为一体。
8.46.76
ततः प्रववृते युद्धं घोररूपं विशाम्पते ।
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥ ८.४६.७६ ॥
于是,人主啊,俱卢与般度之子为追求极大的荣誉,展开了一场可怖的战斗。
8.46.77
शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः ।
श्रुयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥ ८.४६.७७ ॥
在那里,君王啊,婆罗多之后裔啊,可以听到咆哮的勇士们连绵不断、各式各样的呼喊,他们在报出自己的名字。
8.46.78
यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा ।
कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि ॥ ८.४६.७८ ॥
在战斗中,一个人无论有什么缺陷或优点,无论来自父亲或母亲,来自他的行为或品行,他自己都会在战斗中宣扬出来。
8.46.79
तान्दृष्ट्वा समरे शूशांस्तर्जमानान्परस्परम् ।
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥ ८.४६.७९ ॥
君王啊,我看见那些勇士在战场上彼此叫骂威胁,心中便生出一个念头:他们之中再无人能活下来。
8.46.80
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् ।
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥ ८.४६.८० ॥
我看见那些愤怒而光辉无量的勇士之躯,心中生出强烈的恐惧:这将如何发生?
8.46.81
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।
ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः ॥ ८.४६.८१ ॥
于是,君王啊,求胜的般度子与俱卢的大车武士们迅速以箭互相射伤。