摩诃婆罗多 · 章 8.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.48.1
वर्तमाने तथा युद्धे क्षत्रियाणां निमज्जने ।
गाण्डीवस्य महाघोषः श्रूयते युधि मारिष ॥ ८.४८.१ ॥
战斗如此持续,武士们纷纷倒下,啊,陛下,战场上听见了甘狄拔弓的巨大弦响。
8.48.2
संशप्तकानामकरोत्कदनं यत्र पाण्डवः ।
कोसलानां तथा राजन्नारायणबलस्य च ॥ ८.४८.२ ॥
在那里,般度之子屠杀了三伏阵士,啊,国王,也屠杀了憍萨罗人和那罗延的军队。
8.48.3
संशप्तकास्तु समरे शरवृष्टिः समन्ततः ।
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥ ८.४८.३ ॥
然而三伏阵士贪求胜利,怒气填胸,从四面八方向阿周那的头上倾泻箭雨。
8.48.4
तां शस्त्रवृष्टिमायान्तीमुरसा धारयन्प्रभुः ।
व्यगाहत परान्पार्थो विनिघ्नन्रथिनां वरान् ॥ ८.४८.४ ॥
他以胸膛承受迎面而来的兵器雨,威猛的般度之子冲入敌阵,诛杀了最优秀的战车武士。
8.48.5
विक्षोभ्य तु रथानीकं कङ्कपत्रैः शिलाशितैः ।
आससाद ततः पार्थः सुशर्माणं महारथम् ॥ ८.४८.५ ॥
以磨于石上的鹤羽箭搅乱了战车阵后,般度之子便逼近了名叫苏舍尔曼的大车将。
8.48.6
स तस्य शरवर्षाणि ववर्ष रथिनां वरः ।
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥ ८.४८.६ ॥
那位最优秀的车将向他倾泻箭雨;同样,在战场上面对般度之子的三伏阵士们也如此。
8.48.7
सुशर्मा तु ततः पार्थं विद्ध्वा दशभिराशुगैः ।
जनार्दनं त्रिभिर्बाणैरहनद्दक्षिणे भुजे ॥ ८.४८.७ ॥
于是苏尸尔曼以十支疾箭射中般度之子阿周那,又以三箭射中克里希纳的右臂。
8.48.8
ततोऽपरेण भल्लेन केतुं पार्थस्य मारिष ।
विव्याध समरे राजन्सुशर्मा क्रोधमूर्च्छितः ॥ ८.४८.८ ॥
于是,王啊,被愤怒冲昏的苏尸尔曼在战斗中以另一支新月形箭射穿了般度之子的旗帜。
8.48.9
स वानरवरो राजन्विश्वकर्मकृतो महान् ।
ननाद सुमहानादं नृत्यन्निव विभीषयन् ॥ ८.४८.९ ॥
王啊,那只由毗首羯摩所造的伟大猴王,发出极其巨大的吼声,仿佛在起舞以恐吓众人。
8.48.10
कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी ।
भयं विपुलमासाद्य निश्चेष्टा समपद्यत ॥ ८.४८.१० ॥
听到那猴子的吼声,你的军队惊恐万分,被巨大的恐惧所攫住,陷入了僵立不动。
8.48.11
ततः सा शुशुभे सेना निश्चेष्टाऽवस्थिता नृप ।
नानापुष्पसमाकीर्णं यथा चित्रीकृतं वनम् ॥ ८.४८.११ ॥
王啊,那时静立不动的军队,闪耀得像一片开满各色花朵、如画般斑斓的森林。
8.48.12
प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम ।
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ॥ ८.४८.१२ ॥
啊,库鲁族中最杰出者,那些醒转过来的战士便用箭雨倾泻在阿周那身上,就像乌云向山峰降雨。
8.48.13
सञ्छाद्य समरे पार्थं परिवव्रुः समन्ततः ।
ते हयान्रथचक्रे तु रथेषां चापि मारिष।
ग्रहीतुं प्रचक्रमुश्चैव क्रोधाविष्टाः समन्ततः ॥ ८.४८.१३ ॥
他们在战场上遮蔽了般度之子(阿周那),从四面八方将他包围。哦,尊者,怒火填胸的他们开始抓住马匹、车轮,也抓住车上的战士,从各个方向。
8.48.14
निगृह्य तु रथं तस्य योधास्ते तु सहस्रशः ।
रथबन्धं प्रचक्रुर्हि पाण्डवस्यामितौजसः ॥ ८.४८.१४ ॥
他们阻住了他的战车,成千上万的战士围成一圈,包围了那位力量无量的般度之子的战车。
8.48.15
रथमारुरुहुः केचित्कृष्णपार्थौ जिघृक्षवः ।
संशप्तकानां योधास्ते सिंहनादांश्च नेदिरे ॥ ८.४८.१५ ॥
有些人登上战车,想要抓住克里希那和般度之子;那些三誓军的战士发出狮吼。
8.48.16
अपरे जगृहुश्चैव केशवस्य महाभुजौ ।
पार्थं चैके महाराज रथस्थं जगृहुर्मुदा ॥ ८.४८.१६ ॥
另一些人抓住了羯舍婆(克里希那)的大臂;大王啊,有些人则欣然抓住了站在车上的般度之子。
8.48.17
अच्युतः स महाबाहुर्विधुन्वन्रणमूर्धनि ।
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिपान् ॥ ८.४८.१७ ॥
那位大臂的不败者(克里希那)在战阵前头抖开他们,将他们全部击倒,犹如一头恶象摔倒它的驭象人。
8.48.18
स रथस्तैर्गृहीतस्तु पाण्डवस्य महात्मनः ।
स्पन्दितुं नाशकद्राजंस्तदद्भुतमिवाभवत् ॥ ८.४८.१८ ॥
大王啊,他们抓住了这位大德般度之子的战车,它却不能移动;这事竟仿佛成了奇迹。
8.48.19
ततः पार्थो महाबाहुः संवृतः स्तैर्महारथैः ।
निगृहीतं रथं दृष्ट्वा तांश्चाप्याद्रवतो बहून् ॥ ८.४८.१९ ॥
此时,大臂的般度之子(阿周那)被那些大车战士包围。他看到自己的战车被扣住,许多人朝他冲来,
8.48.20
रथारूढांश्च सुबहून्पदाऽऽक्षिप्य न्यपातयत् ।
अपातयदसम्भ्रान्तः शरैरासन्नयोधिभिः ॥ ८.४८.२० ॥
他一脚将许多站在战车上的人踢落,毫不慌乱,用箭射倒了近身作战的勇士。
8.48.21
तांस्तापयित्वा समरे पार्थः परपुरञ्जयः ।
स्मयन्निव महाबाहुः केशवं वाक्यमब्रवीत् ॥ ८.४८.२१ ॥
在战斗中使他们痛苦之后,征服敌城的大臂般度之子,仿佛微笑着,对克舍婆说了这些话:
8.48.22
पश्य कृष्ण महाबाहो संशप्तकगणान्बहून् ।
कुर्वतोऽसुकरं कर्म मुमूर्षून्कालचोदितान् ॥ ८.४८.२२ ॥
克里希那啊,大臂者,请看这些众多的三誓军,他们正在完成艰难的壮举,渴求死亡,被时间驱使。
8.48.23
रथबन्धमिमं प्राप्य पृथिव्यां नास्ति कश्चन ।
यः सहेत पुमाँल्लोके मदन्यः क्षत्रियर्षभः ॥ ८.४८.२३ ॥
陷入这战车的包围,大地上、世间,除了我这位刹帝利中的雄牛,再无一人能忍受。
8.48.24
पश्यैततानद्य समरे मत्प्रयुक्तैः सुतेजनैः ।
पात्यमानान्रणे कृष्ण शरैराशीविषोपमैः ॥ ८.४८.२४ ॥
克里希那啊,请看今天战场上,这些被我射出的、锋利的、如毒蛇般的箭矢射倒的人。
8.48.25
इत्येवमुक्त्वा बीभत्सुः शङ्खप्रवरमुत्तमम् ।
व्यनादयदमेयात्मा देवदत्तं महामृधे ॥ ८.४८.२५ ॥
说罢,无量心的比毗波蹉(阿周那)在大战中吹响了他最上妙的海螺提婆达多。
8.48.26
देवदत्तस्वनं श्रुत्वा केशवोऽपि महायशाः ।
पाञ्चजन्यस्वनं चक्रे पूरयन्निव रोदसी ॥ ८.४८.२६ ॥
闻提婆达多之声,大名的 Keśava 亦吹响般遮难耶,仿佛充满天地。
8.48.27
तयोः शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी ।
सञ्चचाल महाराज वित्रस्ता चाद्रवद्भृशम् ॥ ८.४८.२७ ॥
大王啊,听到他们二人的螺号声,三摩沙塔迦军队战栗,惊恐万分,四散奔逃。
8.48.28
नागमस्त्रं ततः पार्थः प्रादुश्चक्रे हसन्निव ।
पादबन्धं स तेषां वै चक्रे तेन महास्त्रवित् ॥ ८.४८.२८ ॥
于是,Pārtha 仿佛笑着,显出蛇箭,那通晓大兵器者以此缚住了他们的脚。
8.48.29
यानुद्दिश्य रणे पार्थः पादबन्धं चकार ह ।
ते बद्धाः पादबन्धेन योधाः संशप्तकास्तदा ॥ ८.४८.२९ ॥
那些在战场上被 Pārtha 瞄准并缚住双脚的三摩沙塔迦勇士,此时被脚上的束缚所捆住。
8.48.30
निर्विचेष्टास्तदाऽभूवन्पाण्डवस्यास्त्रतेजसा ।
निर्विचेष्टांस्ततो योधानवधीत्पाण्डुनन्दनः।
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥ ८.४८.३० ॥
他们因般度之子的兵器之光而不能动弹。于是般度之子杀死了那些不能动弹的战士,正如往昔因陀罗在讨伐塔拉卡之时,于战场上杀死阿修罗众。
8.48.31
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् ।
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥ ८.४८.३१ ॥
他们在战场上被杀,开始向那辆最好的战车投掷一切兵器。
8.48.32
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् ।
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥ ८.४८.३२ ॥
于是,诸王之主啊,大车手苏舍尔曼见自己的军队被擒,迅速施放了金翅鸟神箭。
8.48.33
ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान् ।
ततो विदुद्रुवुर्नागास्तान्दृष्ट्वा खेचरान्नृप ॥ ८.४८.३३ ॥
于是金翅鸟(迦楼罗)俯冲而下,吞食蛇类;国王啊,蛇众见到这些飞翔天空者,便逃散了。
8.48.34
तद्विमुक्तं बलं रेजे पादबन्धाद्विशाम्पते ।
मेघबन्धाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥ ८.४८.३४ ॥
人主啊,那支摆脱脚镣的军队闪耀着,如同从云层中挣脱出来的太阳,炙烤着众生。
8.48.35
विप्रमुक्ताः स्वका योधाः फल्गुनस्य रथं प्रति ।
ससृजुः शरसङ्घांश्च शस्त्रसङ्घांश्च मारिष ॥ ८.४८.३५ ॥
获得解脱的己方战士们,向法尔古那(阿周那)的战车射出箭群与兵器群,主人啊。
8.48.36
तां महास्त्रमयीं वृष्टिं शरैः सञ्छिद्य भारत ।
अवधीत्सततो योधान्वासविः परवीरहा ॥ ८.४८.३६ ॥
婆罗多啊,阿周那(婆薮之子)以箭斩断那由大神箭构成的暴雨,这敌方英雄的杀手不断地杀戮战士。
8.48.37
सुशर्मा तु ततो राजन्बाणेन नतपर्वणा ।
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिसप्तभिः ॥ ८.४८.३७ ॥
大王啊,那时苏舍尔曼以弯曲箭头的箭射穿阿周那的胸膛,又以另外二十一支箭伤了他。
8.48.38
स गाढविद्धो व्यथितो रथोपस्थ उपाविशतत् ।
तत उच्चुक्रुशुः सर्वे हतः पार्थ इति ब्रुवन् ॥ ८.४८.३८ ॥
他深受重伤,痛苦不堪,坐在战车的底板上。于是众人大喊:“般度之子(阿周那)被杀了!”
8.48.39
ततः शङ्खनिनादाश्च भेरीशब्दाश्च पुष्कलाः ।
नानावादित्रनिनदाः सिंहनादाश्च जज्ञिरे ॥ ८.४८.३९ ॥
于是,海螺之声、大鼓的阵阵鼓声、各种乐器的鸣响和狮子般的吼声同时响起。
8.48.40
प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः ।
सोऽतिविद्धो महेष्वासः शरैराशीविपोपमैः।
सुशर्माणं महाराज क्रोधाविष्टो महारथः ॥ ८.४८.४० ॥
于是,那位白马、以克里希那为御者的大弓手苏醒过来,虽然重伤,怒火中烧,大王啊,他以如毒蛇般的箭向苏舍尔曼发起攻击。
8.48.41
ततः शरशतैः पार्थः सञ्छाद्यैनं क्षणाद्रणे ।
दिशस्तु वारयामास बाणैस्तत्र महास्त्रवित् ॥ ८.४८.४१ ॥
于是般度之子在一刹那间以数百支箭将他遮蔽于战场之中,那精通大神兵的人又以箭封锁了所有方位。
8.48.42
विमुखीकृत्य समरे सुशर्माणं धनञ्जयः ।
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे हसन्निव ॥ ८.४८.४२ ॥
在战场上使苏舍尔曼转身败退后,灵魂无量的持财者(阿周那)仿佛笑着,显现了因陀罗的神兵。
8.48.43
ततो बाणसहस्राणि तदुत्सृष्टानि मारिष ।
सर्वदिक्षु व्यदृश्यन्त सूदयन्ति रथद्विपान् ॥ ८.४८.४३ ॥
此时,他所射出的成千上万支箭,啊,摩利沙,出现在四面八方,击杀车辆与象群。
8.48.44
हयान्पत्तींश्च समरे शस्त्रैः शतसहस्रशः ।
रराज समरे राजञ्शक्रो निघ्नन्निवासुरान् ॥ ८.४८.४४ ॥
在战场上以兵器击杀成千上万的马匹与步兵,啊大王,他光芒四射,如因陀罗诛灭阿修罗。
8.48.45
वध्यमाने ततः सैन्ये भयं सुमहदाविशत् ।
संशप्तकगणानां च गोपालानां च भारत ॥ ८.४८.४५ ॥
此时军队正被屠戮,啊婆罗多,三伏军与牧人之众心中生起极大的恐惧。
8.48.46
न हि तत्र पुमान्कश्चिद्योऽर्जुनं प्रतिबुध्यते ।
पश्यतां तत्र वीराणामहन्यत बलं तव ॥ ८.४८.४६ ॥
那里没有一个人能真正察觉阿周那;众英雄注视之时,你的军队之力正在被摧毁。
8.48.47
हन्यमानं च तदभून्निश्चेष्टं च पराक्रमे ॥ ८.४८.४७ ॥
那支正被击杀的军队,在勇力上变得毫无动静。
8.48.48
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे ।
व्यभ्राजत महाराज विधूमोऽग्निरिव ज्वलन् ॥ ८.४८.४८ ॥
在那里的战斗中杀死了一万名战士,啊大王,般度之子光芒闪耀,如无烟的熊熊烈火。
8.48.49
चतुर्दशसहस्राणि यानि दृष्टनि भारत ।
रथानामयुतं चैव त्रिसहस्राश्च दन्तिनः ॥ ८.४८.४९ ॥
婆罗多啊,所见的一万四千,一万辆战车,也有三千头象。
8.48.50
ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् ।
मर्तव्यमिति निश्चित्य जयं वाप्यनिवर्तनम् ॥ ८.४८.५० ॥
于是三界战士再次包围了财施(阿周那),决心或死或胜,决不退回。
8.48.51
तत्र युद्धं महच्चासीत्तावकानां विशाम्पते ।
शूरेण बलिना सार्धं पाण्डवेन किरीटिना।
जित्वा तान्न्यहनत्पार्थः शत्रूञ्शक्र इवासुरान् ॥ ८.४८.५१ ॥
在那里,你的人与英勇强大的冠者般евой,即般度之子,展开了大战。阿周那战胜了他们,杀死了敌人,如因陀罗杀死阿修罗。