摩诃婆罗多 · 章 8.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.5.1
श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः ।
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥ ८.५.१ ॥
最优秀的再生者啊,国王听说迦尔纳在战斗中被杀、儿子们逃跑后,稍感宽慰,说了什么?
8.5.2
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् ।
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥ ८.५.२ ॥
他遭受了因失去儿子而生的至高大悲痛,请把他当时所说的话告诉我这个提问者。
8.5.3
श्रुत्वा कर्णस्य निधनमश्रद्वेयमिवाद्भुतम् ।
भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा ॥ ८.५.३ ॥
听闻迦尔纳之死——难以置信、奇异,使众生迷惑,可怖,宛如须弥山倾倒。
8.5.4
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः ।
पराजयमिवेन्द्रस्य द्विषद्ध्यो भीमकर्मणः ॥ ८.५.४ ॥
如同大智的婆利古之子(持斧罗摩)心中生出的迷惑,如同行可怖之事的因陀罗被敌人所败。
8.5.5
दिवः प्रपतनं भानोरुरव्यामिव महाद्युतेः ।
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥ ८.५.५ ॥
如大光明的太阳从天空坠落大地,如不可思议的无尽之水的大海枯竭。
8.5.6
महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम् ।
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥ ८.५.६ ॥
如大地、天空、方位与水的全面毁灭般奇异,又如功与过两种业行同归于无效。
8.5.7
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः ।
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम् ॥ ८.५.७ ॥
人主持国者以智慎重思量,心想:「此事不然」——即在战场上杀死迦尔纳之事。
8.5.8
प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च ।
शोकाग्निना दह्यमानो धम्यमान इवाशये ॥ ८.५.८ ॥
他想到众生的本性,此事也可能如此,于是在忧愁之火中焚烧,仿佛心中熊熊燃烧。
8.5.9
विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः ।
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥ ८.५.९ ॥
大王啊!安比迦之子持国,肢体松弛,悲叹呻吟,高呼「哎呀哎呀!」极度悲伤地哀嚎起来。
8.5.10
सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः ।
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः ॥ ८.५.१० ॥
桑贾耶!阿迪拉陀之子英雄迦尔纳,勇武如狮象,肩如公牛,步态与声音如公牛。
8.5.11
वृषभो वृषभस्येव यो युद्धे न निवर्तते ।
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥ ८.५.११ ॥
如同公牛之中的公牛,在战斗中不退缩;对于敌人,甚至对于伟大的因陀罗,他都是身体坚如金刚的青年。
8.5.12
यस्य ज्यातलशब्देन शरवृष्टिरवेण च ।
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥ ८.५.१२ ॥
其弓弦之声与箭雨之势,使战车、马匹、人与象在战斗中无法站稳。
8.5.13
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् ।
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः ॥ ८.५.१३ ॥
依靠那大臂者、摧毁敌军的不坏者,难敌与般度之子、大车战士结下了仇怨。
8.5.14
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे ।
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥ ८.५.१४ ॥
那位车士中的最上者、人中猛虎、勇力难当的迦尔纳,如何在战斗中被阿周那强行杀死?
8.5.15
यो नामन्यत वै नित्यमच्युतं च धनञ्जयम् ।
न वृष्मीन्सहितानन्यान्स्वबाहुबलदर्पितः ॥ ८.५.१५ ॥
他总是不把阿曲多与达南遮耶放在眼里,也不把联合的伐勒什尼族及其他人放在眼里——因自己臂力而骄傲。
8.5.16
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ ।
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥ ८.५.१६ ॥
持弓者沙尔伽与甘狄瓦这两人,即使联合,也是不可战胜的;我独自从神车上,将在战斗中击倒他们。
8.5.17
इति यः सततं मन्दमवोचल्लोभमोहितम् ।
दुर्योधनमवाचीनं राज्यकामुकमातुरम् ॥ ८.५.१७ ॥
这样,那愚昧者被贪欲迷惑,常常对难敌——那卑劣、渴望王国、焦灼的人——如此说道。
8.5.18
योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह ।
गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान्। ॥ ८.५.१८ ॥
他征服了所有的甘波阇人、阿槃提人与凯伽耶人,以及犍陀罗人、摩德罗人、鱼人、三伽帝人、丹干那人和塞迦人。
8.5.19
पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान् ।
सूह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान् ॥ ८.५.१९ ॥
般遮罗、毗提诃、俱临陀、迦尸与憍萨罗,苏摩、安伽与榜伽,尼沙陀、补陀罗与吉吉陀。
8.5.20
वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि ।
शबरान्हारहूणांश्च प्रघूणान्सरलानपि ॥ ८.५.२० ॥
跋蹉、羯陵伽、达罗陀、阿湿磨迦与利史迦,又有沙拔罗、诃罗与匈奴,以及钵罗怙那与萨罗罗。
8.5.21
म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा ।
जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः ॥ ८.५.२१ ॥
蛮夷诸国之主,堡垒之民与林野之民;那勇士在战场上胜过他们所有人,以闪耀的鹭羽箭。
8.5.22
करमाहारयामास जित्वा सर्वानरींस्तथा ।
दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः।
दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः ॥ ८.५.२२ ॥
他战胜所有敌人,使之纳贡;同样,为了增进难敌的势力,那位车战者中最杰出、以神圣兵器增益光辉的罗陀之子迦尔纳,毗迦尔达那之子,公牛般的英雄。
8.5.23
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित् ।
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः ॥ ८.५.२३ ॥
那位军队的守护者、精通上等神兵的人,究竟如何在战场上被敌人、被那些勇猛的般度英雄所杀?
8.5.24
वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि ।
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम ॥ ८.५.२४ ॥
诸神之中的公牛是摩诃因陀罗,人类之中的公牛也是迦尔纳;三界之中,我们从未听说过第三头像他这样的公牛。
8.5.25
उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः ।
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥ ८.५.२५ ॥
马中最好的是乌车依室罗婆,王中最好的是毗沙罗那。神中最好的是摩诃因陀罗,击打者中最好的是迦尔纳。
8.5.26
योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः ।
दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत् ॥ ८.५.२६ ॥
他是其他国王和有能力、有勇气的英雄所不能战胜的,他为了杜尔约陀那的兴盛,征服了整个大地。
8.5.27
यं लब्ध्वा मागधो राजा सांत्वमानोऽथ सौहृदैः ।
अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान् ॥ ८.५.२७ ॥
摩揭陀王得到他之后,以友好的关系安抚着,便开始欺压除耶达瓦族和俱卢族之外的刹帝利王族。
8.5.28
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना ।
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे ॥ ८.५.२८ ॥
听闻迦尔纳在单独决斗中被萨维亚萨钦(阿周那)所杀,我沉溺于悲伤的海洋,就像海中破碎的船。
8.5.29
तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम् ।
शोकार्णवे निमग्नोऽहमप्लुवः सागरे यथा ॥ ८.५.२९ ॥
听闻那头公牛(迦尔纳),战车武士中最优秀的,在单独决斗中被杀,我沉溺于悲伤的海洋,如同海中无筏之人。
8.5.30
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय ।
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥ ८.५.३० ॥
桑闪耶啊,如果我没有因这样的痛苦而死,我觉得我的心比金刚杵更坚硬,难以刺穿。
8.5.31
ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराभवम् ।
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ॥ ८.५.३१ ॥
御者啊,听闻我的族人、亲属与朋友遭此败绩,世上除我之外,还有哪个人会不舍弃生命呢?
8.5.32
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे ।
महाप्रस्थानगमनं जलं प्रायोपवेशनम्।
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥ ८.५.३२ ॥
毒药、火焚、从山巅坠落、踏上大行之途、投水,或绝食至死——我选择这些。桑阇耶啊,这些苦难与折磨,我实在无法忍受。