Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.50.1

द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् ।
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥ ८.५०.१ ॥

德罗纳之子见到被萨提亚奇保护的坚战,便与德劳帕迪之子及其他英雄欣然向他进攻。

8.50.2

किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान् ।
दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवान् ॥ ८.५०.२ ॥

他放出无数可怖的箭,箭羽为金色,在磨石上磨利,凭借训练而手法敏捷,展示了种种战法。

8.50.3

खं पुरयञ्शरैस्तीक्ष्णैर्वेगवद्भिः समन्ततः ।
युधिष्ठिरस्य समरे दिशः सर्वाः समावृणोत् ॥ ८.५०.३ ॥

他以锐利迅疾的箭矢从四面充满天空,在战场上遮蔽了坚战周围的所有方向。

8.50.4

भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन ।
बाणभूतमभूत्सर्वमायोधनशिरो महत् ॥ ८.५०.४ ॥

被婆罗堕遮(德罗纳之子)的箭矢所覆盖,什么也分辨不出;整个战场的广大前沿都变成了箭的海洋。

8.50.5

बाणजालं दिविष्ठं तत्स्वर्णपुङ्खविभूषितम् ।
शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम् ॥ ८.५०.५ ॥

那张悬于空中、以金羽箭矢装饰的箭网,闪耀如同停在空中的天车,啊,婆罗多族的最优秀者!

8.50.6

तेन च्छन्ने रणे राजन्बाणजालेन भास्वता ।
अभ्रच्छायेव सजज्ञे हृतरश्मिस्तमोनुदः ॥ ८.५०.६ ॥

大王啊,当战场被那闪耀的箭网覆盖时,驱散黑暗的太阳失去了光芒,变得如同云的阴影。

8.50.7

तदद्भुतमपश्याम बाणभूते नभस्थले ।
न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम् ॥ ८.५०.७ ॥

在充满箭矢的天空中,我们看到了那奇异的景象:见到德罗纳之子的神勇,那里没有任何生灵坠落。

8.50.8

सात्यकिर्यतमानस्तु धर्मराजस्तु पाण्डवः ।
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥ ८.५०.८ ॥

萨提亚基在奋力作战,持法王般的般度之子也是如此;但其他军队并未展现勇力。

8.50.9

लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः ।
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम् ॥ ८.५०.९ ॥

大王啊,他们见到德罗纳之子在那里的敏捷身手,大车武士们都惊愕不已,甚至无法正眼看他。

8.50.10

शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ।
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः ॥ ८.५०.१० ॥

那时,诸王都无法直视他,他如炽热的太阳一般。军队正被杀戮之际,德罗波蒂的诸位大车武士之子……

8.50.11

सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः ।
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिभुपाद्रवन् ॥ ८.५०.११ ॥

萨提亚基、法王以及般遮罗人聚集一处,抛弃了可怕的死亡恐惧,向德罗纳之子猛扑而去。

8.50.12

सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः ।
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥ ८.५०.१२ ॥

萨提亚基以二十七支箭射中德罗纳之子,接着又以七支饰金的铁箭再次射中他。

8.50.13

युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः ।
श्रुतकर्मा त्रिभिर्वाणैः श्रुतकीर्तिश्च सप्तभिः। ॥ ८.५०.१३ ॥

坚战以七十三箭,普提宾底以七箭,室如迦尔摩以三箭,室如迦提以七箭射中了(德罗纳之子)。

8.50.14

सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः ।
अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः ॥ ८.५०.१४ ॥

苏多索摩以九箭,舍塔尼迦以七箭,其他许多英雄从四面八方射中了他。

8.50.15

स तु क्रुद्धस्ततो राजन्नाशीविप इव श्वसन् ।
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः ॥ ८.५०.१५ ॥

大王啊!那时他愤怒地像毒蛇一样嘶嘶作响,以二十五支箭射中了萨提吉。

8.50.16

श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः ।
अष्टभिः श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिः शरैः ॥ ८.५०.१६ ॥

他以九箭射中室如迦提,以五箭射中苏多索摩,以八箭射中室如迦尔摩,以三箭射中普提宾底。

8.50.17

शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः ।
तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्।
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ॥ ८.५०.१७ ॥

他以九箭射中舍塔尼迦,以五箭射中法子(坚战),又以两箭射中其他每位英雄。随后,他以锋利的箭斩断了室如迦提的弓。

8.50.18

अथान्यद्वनुरादाय श्रुतकीर्तिर्महारथः ।
द्रौणायनिं त्रिभिर्विद्व्वा विव्याधान्यैः शितैः शरैः ॥ ८.५०.१८ ॥

于是大车士室如迦提拿起另一把弓,以三箭射中德罗纳之子,又以其他锋利的箭再次射中他。

8.50.19

ततो द्रौणिर्महाराज शरवर्षेण भारिष ।
छादयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥ ८.५०.१९ ॥

于是,大王啊,德罗纳之子以箭雨从四面遮蔽了那支军队,婆罗多族的雄牛啊。

8.50.20

ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् ।
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ॥ ८.५०.२० ॥

于是,心量无限的德罗纳之子斩断了法王的弓,笑着以三箭射中了他。

8.50.21

ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः ।
द्रोणपुत्रं त्रिपष्ट… ततु बाह्वोरुरसि चार्पययत् ॥ ८.५०.२१ ॥

于是,大王啊,法之子拿起另一把大弓,以三……击中德罗纳之子的臂膀与胸膛。

8.50.22

सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे ।
अर्धचन्द्रेणतीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम् ॥ ८.५०.२२ ॥

于是萨提亚奇愤怒地在战场上攻击德罗纳之子,以锋利的半月箭斩断他的弓,并大声吼叫。

8.50.23

छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः ।
सारथिं पातयामास शैनेयस्य रथाद्रुतम् ॥ ८.५०.२३ ॥

于是,弓被斩断的德罗纳之子,持矛者中的至尊,以长矛迅速将西尼之孙的御者从战车上击落。

8.50.24

अथान्यद्वनुरादाय द्रोणपुत्रः प्रतापवान् ।
शैनेयं शरवर्षेण च्छादयामास भारत ॥ ८.५०.२४ ॥

于是,威猛的德罗纳之子又拿起另一把弓,以箭雨遮蔽了西尼之孙,婆罗多啊。

8.50.25

तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ ।
तत्रतत्रैव धावन्तः समदृश्यन्त भारत ॥ ८.५०.२५ ॥

战斗中御者倒下,他的马惊恐逃散;婆罗多啊,它们四处奔跑,被人看见。

8.50.26

युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम् ।
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान् ॥ ८.५०.२६ ॥

以坚战为首的人们迅猛地向德罗纳之子——持械者中的最优者——倾泻锋利的箭雨。

8.50.27

सहसा पततस्तान्वै क्रुद्वरूपान्परन्तपः ।
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥ ८.५०.२७ ॥

那些面目狰狞的战士突然冲来,德罗纳之子——焚烧敌人者——在大战中笑着迎战了他们。

8.50.28

ततः शरशतज्वालः सेनाकक्षं महारणे ।
द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः ॥ ८.५०.२८ ॥

于是德罗纳之子,以百箭之焰燃烧,在大战中焚烧了军中的丛林,如同升起的烈火焚烧森林。

8.50.29

तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् ।
चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे ॥ ८.५०.२९ ॥

般度之子的那支军队被德罗纳之子灼烧,大为动荡,婆罗多中的最优者啊,就在军阵的前端。

8.50.30

तद्बलं पाण्डवेयस्य द्रोणपुत्रः शरार्चिषा ।
तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान् ॥ ८.५०.३० ॥

德罗纳之子以箭焰灼烧般度之子的那支军队,婆罗多中的最优者啊,如同太阳以光线炙烤一般。

8.50.31

तत्पच्यमानं मर्षेण ब्राह्मणस्य च सायकैः ।
क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम् ॥ ८.५०.३१ ॥

被婆罗门之箭灼烧,般度之军愤恨交加,躁动如河口被鲸鲨搅动。

8.50.32

दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम् ।
सर्वान्दुर्योधनः पार्थान्हतान्युद्वेऽभ्यमन्यत ॥ ८.५०.३२ ॥

大王,见德罗纳之子的勇猛,难敌以为般度诸子已在战中全部被杀。

8.50.33

युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम् ।
अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः ॥ ८.५०.३३ ॥

然而坚战迅速逼迫这位大战车武士德罗纳之子,满怀愤怒与不甘,对德罗纳之子说道。

8.50.34

जानामि त्वां युधि श्रेष्ठ वीर्यवन्तं बलान्वितम् ।
कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम् ॥ ८.५०.३४ ॥

我知道你在战场上最为出众,勇猛有力,精通兵器,技艺纯熟,身手敏捷。

8.50.35

बलमेतद्भवान्सर्वं पार्षते यदि दर्सयेत् ।
ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे ॥ ८.५०.३५ ॥

若你将这全部力量施于普利沙塔之子,那时我们便知你既强大又精通学问。

8.50.36

न हि वै पार्पतं दृष्ट्वा समरे शत्रुसूदनम् ।
भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम् ॥ ८.५०.३६ ॥

在战场上见到摧敌的普利沙塔之子,你还能剩下什么力量?我是对你说,而非对婆罗门说。

8.50.37

नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता ।
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ॥ ८.५०.३७ ॥

你毫无慈爱,也毫无感恩之心,人中之虎啊,因为今天你正要杀我。

8.50.38

ब्राह्मणेन तपः कार्यं शमश्च दमएव च ।
क्षत्रियेण धनुर्नाभ्यं स भवान्ब्राह्मणब्रुवः ॥ ८.५०.३८ ॥

婆罗门应修苦行、寂静与克己;刹帝利应练习弓术。你却说着婆罗门的话。

8.50.39

मिषतस्ते महावाहो युधि जेष्यामि कौरवान् ।
कुरुष्व समरे कर्म ब्रह्मबन्धे यथेष्टतः ॥ ८.५०.३९ ॥

在你注视之下,大臂者啊,我将在战斗中征服俱卢人。人中的婆罗门之名者啊,你想做什么,就在战场上做吧。

8.50.40

एवमुक्तो महाराज द्रोणपुत्रः सयन्निव ।
युक्त तत्त्वं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ॥ ८.५०.४० ॥

大王啊,被如此训斥后,德罗纳之子仿佛要继续说下去,权衡了恰当的道理,却一句也没有回答。

8.50.41

अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् ।
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥ ८.५०.४१ ॥

随后,他一言不发,怒不可遏,在战场上以箭雨遮蔽了般度之子,如同死神遮蔽众生。

8.50.42

स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष ।
पार्थोऽपयातः शीघ्रं वै प्रगृह्य महतीं चमूम् ॥ ८.५०.४२ ॥

先生啊,那时被德罗纳之子箭雨遮蔽的普利塔之子,率领大军迅速撤退了。

8.50.43

अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे ।
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ॥ ८.५०.४३ ॥

法之子坚战从那里撤退之后,王啊,德罗纳之子站着,等候那位大度者的命令。

8.50.44

ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे ।
प्रययौ तावकं सैन्यं युक्तः क्रुराय कर्मणे ॥ ८.५०.४४ ॥

王啊,于是坚战在那场大战中抛下了德罗纳之子,怀着残酷的意图,向你的军队进发。