Vedyatra वेदयात्रा
Search

Mahābhārata · Adhyāya 8.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

8.51.1

भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम् ।
सेनापतिः स्वयं क्रुद्धो वारयामास सायकैः ॥ ८.५१.१ ॥

The commander himself, enraged, checked Bhīmasena with arrows, Bhīmasena being surrounded by the Pāñcālas together with the Cedis and Kekayas.

8.51.2

ततस्तु चेदिकारूशान्सृढ्जयांश्च महारथान् ।
कर्णो जघान समरे भीमसेनस्य पश्यतः ॥ ८.५१.२ ॥

Then Karṇa, in battle, slew the great charioteers of the Cedis, Kārūṣas and Sṛñjayas while Bhīmasena looked on.

8.51.3

भीमसेनस्ततः कर्णे विहाय रथसत्तमम् ।
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥ ८.५१.३ ॥

Then Bhīmasena, leaving Karṇa, went from his excellent chariot toward the Kaurava army, blazing like fire in dry grass.

8.51.4

सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा ।
सृञ्जयांश्च महेष्वासान्निजघानं सहस्रशः ॥ ८.५१.४ ॥

The charioteer's son, too, in battle slew by the thousand the Pāñcālas, the Kekayas, and the Sṛñjayas, great archers.

8.51.5

संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः ।
पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः ॥ ८.५१.५ ॥

Among the Saṃśaptakas Pārtha, among the Kauravas Vṛkodara, and among the Pāñcālas Karṇa — these great charioteers wrought destruction.

8.51.6

ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः ।
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥ ८.५१.६ ॥

Those warriors, burned by those three fire-like heroes, met destruction in battle, O king — the fruit of your ill counsel.

8.51.7

ततो दुर्योधनः क्रुद्दो नकुलं नवभिः शरैः ।
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥ ८.५१.७ ॥

Then Duryodhana, enraged, pierced Nakula with nine arrows, and, best of the Bharatas, pierced his four horses.

8.51.8

ततः परममेयात्मा तव पुत्रो जनाधिप ।
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥ ८.५१.८ ॥

Then your son, of immeasurable spirit, lord of men, cut Sahadeva's golden banner with a razor-headed arrow.

8.51.9

नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः ।
जघान समरे राजन्सहदेवश्च पञ्चभिः ॥ ८.५१.९ ॥

Then Nakula, enraged, struck your son with seven arrows, O king, and Sahadeva with five.

8.51.10

तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम् ।
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥ ८.५१.१० ॥

Those two best of the Bharatas, the eldest among all archers, he pierced in the chest, each with five arrows, in fierce wrath.

8.51.11

ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत ।
यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः ॥ ८.५१.११ ॥

Then the hero, with two other broad-headed arrows, cut through the bows of the twins, and swiftly pierced each of them with three arrows.

8.51.12

तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे ।
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥ ८.५१.१२ ॥

Those two heroes, taking up two other excellent, fair bows like Indra's bow, shone in battle like sons of gods.

8.51.13

ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि ।
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाऽचलम् ॥ ८.५१.१३ ॥

Then those two brothers, fierce in battle, rained terrible arrows upon each other, as two great clouds pour upon a mountain.

8.51.14

ततः क्रुद्धो महाराज तव पुत्रो महारथः ।
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥ ८.५१.१४ ॥

Then, O great king, your son, the great charioteer, enraged, checked the two sons of Pāṇḍu, those great archers, with arrows.

8.51.15

धनुर्मण्डलमेवास्य ददृशे युधि भारत ।
सायकाश्चाप्यदृश्यन्त निश्चरन्तः समन्ततः ॥ ८.५१.१५ ॥

O Bhārata, in battle only the circle of his bow could be seen, and arrows too were seen darting forth on every side.

8.51.16

तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः ।
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ ॥ ८.५१.१६ ॥

The two sons of Mādrī, covered with his arrows, did not shine, like moon and sun in the sky covered by clouds, their radiance gone.

8.51.17

ते तु बाणा महाराज स्वर्णपुङ्खाः शिलाशिताः ।
आच्छादयन्दिशः सर्वाः सूर्यस्येव मरीचयः ॥ ८.५१.१७ ॥

O great king, those arrows with golden feathers, whetted on stone, covered all the directions like the rays of the sun.

8.51.18

वाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले ।
राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम् ॥ ८.५१.१८ ॥

Then, when the sky was covered and filled with arrows, the king's form appeared like Time, the Ender, and Yama.

8.51.19

पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः ।
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥ ८.५१.१९ ॥

Seeing that prowess of your son, the great charioteers thought the two sons of Mādrī had come near to death.

8.51.20

ततः सेनापती राजन्पाण्डवानां महारथः ।
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥ ८.५१.२० ॥

Then, O king, the commander Pārṣata, the great charioteer of the Pāṇḍavas, went there where King Suyodhana was.

8.51.21

माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ ।
धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः ॥ ८.५१.२१ ॥

Then, passing by the two heroic great charioteers, the sons of Mādrī, Dhṛṣṭadyumna afflicted your son with arrows.

8.51.22

तमविध्यदमेयात्मा तव पुत्रो ह्यमर्पणः ।
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभः ॥ ८.५१.२२ ॥

Your son, of immeasurable spirit and impatient wrath, laughing, pierced that Pāñcāla with twenty-five arrows, O bull among men.

8.51.23

ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः ।
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥ ८.५१.२३ ॥

Then again your son, of immeasurable spirit and impatient wrath, having struck the Pāñcāla with sixty-five arrows, roared aloud.

8.51.24

तथास्य सशरं चापं मुष्टिदेशे विशाम्पते ।
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥ ८.५१.२४ ॥

And likewise, O lord of men, the king in battle cut his bow, with arrow, at the grip, with a very sharp razor-headed arrow.

8.51.25

तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः ।
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥ ८.५१.२५ ॥

Then, having cast aside the broken bow, the Pāñcāla prince, subduer of foes, swiftly took up another new bow, able to bear its weight.

8.51.26

क्रोधाद्रुधिररक्ताक्षः संरम्भात्प्रज्वलन्निव ।
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥ ८.५१.२६ ॥

With eyes red as blood from anger, blazing as if with fury, the great archer Dhṛṣṭadyumna, wounded, shone forth.

8.51.27

स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव ।
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत् ॥ ८.५१.२७ ॥

Like hissing serpents, he released fifteen iron arrows, desiring to slay the best of the Bharatas.

8.51.28

ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलीमुखाः ।
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥ ८.५१.२८ ॥

Piercing the king's gold-adorned armor, those arrows, fletched with heron and peacock feathers, swiftly entered the earth.

8.51.29

सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत ।
वसन्तकाले सुमहान्प्रफुल्ल इव किंशुकः ॥ ८.५१.२९ ॥

Great king, your son, sorely pierced, shone forth like a great kiṃśuka tree blossoming in springtime.

8.51.30

स च्छिन्नवर्मा नाराचप्रहारैर्झर्झरीकृतः ।
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥ ८.५१.३० ॥

With his armor cut through and riddled by the blows of iron arrows, enraged, he severed Dhṛṣṭadyumna's bow with a bhalla arrow.

8.51.31

अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः ।
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्पयत् ॥ ८.५१.३१ ॥

Then the king, hastening, struck him, whose bow was cut, with ten arrows between the eyebrows.

8.51.32

तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः ।
प्रफुल्लं पङ्कजं यद्वद्धमरा मधुलिप्सवः ॥ ८.५१.३२ ॥

Those arrows, polished by the smith, adorned his face, as bees desiring honey adorn a blossomed lotus.

8.51.33

तदपास्य धनुश्छिन्नं दृष्टद्युम्नो महामनाः ।
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ ८.५१.३३ ॥

Then, casting aside the broken bow, the great-minded Dhṛṣṭadyumna swiftly took up another bow and sixteen bhalla arrows.

8.51.34

ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः ।
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥ ८.५१.३४ ॥

Then, slaying Duryodhana's horses and charioteer with five arrows, he cut the gold-adorned bow with a bhalla arrow.

8.51.35

रथं सोपस्करं छत्रं शक्तिं खङ्गं गदां ध्वजम् ।
भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः ॥ ८.५१.३५ ॥

The son of Pṛṣata cut your son's chariot with its fittings, his parasol, spear, sword, mace and banner, with ten bhalla arrows.

8.51.36

तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ ८.५१.३६ ॥

All the kings saw the parasol with its golden armlet, the splendid jewelled serpent emblem, and the cut banner of the lord of the Kurus.

8.51.37

दुर्योधनं तु विरथं छिन्नवर्मायुधध्वजम् ।
भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ ॥ ८.५१.३७ ॥

But his brothers of the same mother looked upon Duryodhana, stripped of his chariot, his armour, weapons and banner cut away, O bull of the Bharatas.

8.51.38

तमारोप्य रथे राजन्कुण्डधारो महारथम् ।
अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥ ८.५१.३८ ॥

O king, Karṇa, the earring-bearer, placed that great charioteer on his chariot and carried him away, unhurried, while Dhṛṣṭadyumna looked on.

8.51.39

कर्णस्तु सात्यकिं हित्वा राजगृघ्नुरमर्षणः ।
द्रोमहन्तारमुग्रेषुं ससाराभिमुखो रणे ॥ ८.५१.३९ ॥

But Karṇa, leaving Sātyaki, eager for the king's glory and intolerant of insult, advanced straight in battle toward Dhṛṣṭadyumna, the slayer of Droṇa, the one with fierce arrows.

8.51.40

तं पृष्ठतोऽन्वयात्तूर्णं शैनेयोऽभिहतः शरैः ।
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥ ८.५१.४० ॥

Sātyaki, the descendant of Śini, struck by arrows, swiftly followed him from behind, as an elephant gores the hindquarters of another elephant with its tusks.

8.51.41

स भारतपुरोगानां राज्ञां च सुमहात्मनाम् ।
कर्णपार्षतयोर्युद्वे सङ्क्रद्धानां महारणे ॥ ८.५१.४१ ॥

Among the foremost kings of the Bhāratas and the very great-souled warriors, in that great battle, in the enraged clash of Karṇa and Dhṛṣṭadyumna, he advanced.

8.51.42

न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः ।
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥ ८.५१.४२ ॥

Neither among the Pāṇḍavas nor among us was anyone seen turning his back; Karṇa swiftly went against the Pāñcālas.

8.51.43

तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः ।
प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि ॥ ८.५१.४३ ॥

O best of men, at that moment destruction of elephants, horses and chariots arose on both sides, O king, at midday.

8.51.44

पाञ्चालास्तु महाराज त्वरिता विजिगीषवः ।
सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम् ॥ ८.५१.४४ ॥

But the Pāñcālas, O great king, desiring victory and hastening, rushed at Karṇa from all sides, like birds upon a tree.

8.51.45

तेषामाधिरथिः क्रुद्धः प्रधानान्वै तरस्विनः ।
विचिन्वन्निव बाणौघैः समासादयदग्रतः ॥ ८.५१.४५ ॥

Then Karṇa, son of Adhiratha, enraged, reached the mighty chief warriors among them, as though sorting them out with a flood of arrows, and came before them.

8.51.46

व्याघ्रकेतुः सुशर्मा च शुक्रश्चित्रायुधः क्रतुः ।
दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः।
महता रथवंशेन परिवव्रुर्नरोत्तमम् ॥ ८.५१.४६ ॥

Vyāghraketu, Suśarman, Śukra, Citrāyudha, Kratu, Durjaya, Rocamāna and the eighth, Siṃhasena, surrounded that best of men with a great host of chariots.

8.51.47

सृजन्तः सायकांस्तूर्णं कर्णमाहवशोभिनम् ।
यतमानांस्तु ताञ्शूरान्मनुजेन्द्रः शितैः शरैः।
अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे ॥ ८.५१.४७ ॥

Those heroes, hastening to shoot arrows swiftly at Karṇa, glorious in battle, the lord of men, Rādheya, struck down the eight Pāñcālas in the battle, with eight sharp arrows each.

8.51.48

अथापरान्महाराज सूतपुत्रः प्रतापवान् ।
जघान बहुसाहस्रान्योधान्युद्वविशारदान् ॥ ८.५१.४८ ॥

Then, O great king, the mighty son of the charioteer (Karṇa) slew many thousands of other warriors skilled in battle.

8.51.49

विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च ।
दण्डधारं च समरे चित्रं चिंत्रायुधं हरिम् ॥ ८.५१.४९ ॥

In battle he also slew Viṣṇu, Viṣṇuvarmān, Devāpi, Bhadra, Daṇḍadhāra, Citra, Citrāyudha and Hari.

8.51.50

सिंहकेतुं रोचमानं शलभं च महारथम् ।
निजघान सुसङ्क्रुद्वश्चेदीनां च महारथान् ॥ ८.५१.५० ॥

Greatly enraged, he slew Siṃhaketu, Rocamāna and the great charioteer Śalabha, and the great charioteers of the Cedis.

8.51.51

तेषामाददतः प्राणानासीदाधिरथेर्वपुः ।
शोणिताभ्युक्षिताङ्गस्य रुद्रस्यैवातिभैरवम् ॥ ८.५१.५१ ॥

As he took their lives, the form of the son of Adhiratha became utterly terrible, like that of Rudra with his limbs smeared with blood.

8.51.52

तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः ।
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥ ८.५१.५२ ॥

There, O Bhārata, the elephants struck by Karṇa's arrows, terrified, ran off in every direction, causing great confusion.

8.51.53

निपेतुरुर्व्यां समरे कर्णसायकताडिताः ।
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥ ८.५१.५३ ॥

Struck by Karṇa's arrows they fell to the ground in battle, uttering various cries, like mountains smitten by a thunderbolt.

8.51.54

गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः ।
रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी ॥ ८.५१.५४ ॥

The earth was covered over with elephants, horses and men falling on all sides, and with broken chariots and banners.

8.51.55

नैवं भाष्मो न च द्रोणो नान्ये युधि च तावकाः ।
चक्रुः स्म तादृशं कर्म यादृशं कृतवान्रणे ॥ ८.५१.५५ ॥

Neither Bhīṣma nor Droṇa, nor any other of your men in battle, performed such a deed as Karṇa performed in the battle.

8.51.56

मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् ।
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥ ८.५१.५६ ॥

As a lion, moving fearless among the deer, is seen, so Karṇa moved about among the Pāñcālas as if unafraid.

8.51.57

सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च ।
नरेषु च नरव्याघ्रश्चकार कदनं महत् ॥ ८.५१.५७ ॥

Then the charioteer's son, the tiger among men, wrought great slaughter among elephants, horses, chariots and men.

8.51.58

यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः ।
पाञ्चालानां रथव्रातान्कर्णो व्यद्रावयत्तथा ॥ ८.५१.५८ ॥

As a lion drives herds of frightened deer in all directions, so Karṇa drove away the troops of chariots of the Pāñcālas.

8.51.59

सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित् ।
तथा कर्णमनुप्राप्ता न जीवन्ति स्म सृञ्जयाः ॥ ८.५१.५९ ॥

As deer that have reached a lion never survive, so the Sṛñjayas who came upon Karṇa did not survive.

8.51.60

वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा ।
कर्णाग्रिं समरे प्राप्य दग्धा भारत सृञ्जयः ॥ ८.५१.६० ॥

As moths that reach the mouth of the fire are burned, so the Sṛñjayas who reached the fire of Karṇa in battle were burned, O Bhārata.

8.51.61

चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत ।
वेश्राव्य नाम निहता बहवः शूरसम्पताः ॥ ८.५१.६१ ॥

O Bhārata, among the Cedis and the Pāñcālas, many heroes of renown, famous by name, were slain by Karṇa alone.

8.51.62

मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम् ।
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥ ८.५१.६२ ॥

O king, seeing Karṇa's prowess, a thought arose in me: while the son of Adhiratha lives, not one Pāñcāla will be freed in battle.

8.51.63

सङ्ख्ये विमर्द्य पाञ्चालान्सूतपुत्रः पुनः पुनः ।
अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम् ॥ ८.५१.६३ ॥

Crushing the Pāñcālas again and again in battle, the son of the charioteer, greatly enraged, rushed at Yudhiṣṭhira, son of Kuntī.

8.51.64

धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष ।
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥ ८.५१.६४ ॥

O noble one, Dhṛṣṭadyumna, the sons of Draupadī, and hundreds of others surrounded the king, the slayer of enemies.

8.51.65

शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा ।
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥ ८.५१.६५ ॥

Śikhaṇḍin, Sahadeva, Nakula, the son of Nakula, Janamejaya, the grandson of Śini, and many Prabhadrakas.

8.51.66

एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे ।
कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम् ॥ ८.५१.६६ ॥

Going before them in battle, these and Dhṛṣṭadyumna pierced Karṇa of immeasurable might, who was shooting arrows and missiles.

8.51.67

तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् ।
एको बहूनभ्यपतद्गरुत्मानिव पन्नगान् ॥ ८.५१.६७ ॥

There Karṇa, son of Adhiratha, alone in battle fell upon the Cedis, Pāñcālas and Pāṇḍavas, as Garuḍa falls upon serpents.

8.51.68

तैः कर्णस्याभवद्युद्धं घोररूपं विशाम्पते ।
तादृग्यादृक्पुरावृत्तं देवानां दानवैः सह ॥ ८.५१.६८ ॥

With them there arose a terrible battle for Karṇa, O lord of the people, such as once occurred between the gods and the Dānavas.

8.51.69

तान्समेतान्महेष्वासाञ्शरवर्षौधवर्षिणः ।
एको व्यधमदव्यग्रस्तमांसीव दिवाकरः ॥ ८.५१.६९ ॥

Those great archers gathered together, pouring down showers of arrows, Karṇa alone, unperturbed, struck down, as the sun dispels darkness.

8.51.70

भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह ।
सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः ॥ ८.५१.७० ॥

But Bhīmasena, engaged with Karṇa, the son of Rādhā, together with the Pāṇḍavas, enraged, struck on all sides with arrows like the staff of Yama.

8.51.71

बाह्लीकान्केकयान्मात्स्यान्वासात्यान्मद्रसैन्धवान् ।
एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत ॥ ८.५१.७१ ॥

Fighting alone in battle against the Bāhlīkas, Kekayas, Matsyas, Vāsātyas, Madras and Sindhus, that great archer shone forth in many ways.

8.51.72

तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः ।
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥ ८.५१.७२ ॥

There, struck on vital spots by Bhīma's iron-shafted arrows, the elephants, their riders slain, fell and made the earth tremble.

8.51.73

वाजिनश्च हतारोहाः पत्तयश्च गतासवः ।
अशेरत महाराज वमन्तो रुधिरं बहु ॥ ८.५१.७३ ॥

O great king, horses with their riders slain and foot soldiers lifeless lay vomiting much blood.

8.51.74

ताडिताः सहसा नागा भीमसेनेन मारिष ।
निपतन्ति महावेगा वज्ररुग्णा इवाचलाः ॥ ८.५१.७४ ॥

O respected one, elephants suddenly struck by Bhīmasena fall with great force, like mountains shattered by a thunderbolt.

8.51.75

पतितैस्तैर्महाराज वेगवद्भिर्महारथैः ।
शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः ॥ ८.५१.७५ ॥

O great king, the earth shone with those swift great chariot warriors fallen, as if strewn with mountains.

8.51.76

सहस्रशश्च रथिनः पत्तयः पतितायुधाः ।
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥ ८.५१.७६ ॥

Thousands of chariot warriors and foot soldiers, with weapons fallen, were seen unhurt yet frightened of Bhīma and lifeless.

8.51.77

रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः ।
भीमसेनशरैश्छिन्नैराच्छन्ना सुधाभवत्
तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम्। ॥ ८.५१.७७ ॥

Chariot warriors, horsemen, charioteers, foot soldiers, horses and elephants, cut down by Bhīmasena's arrows, covered the ground; afflicted by fear of Bhīmasena, it stood as if stunned.

8.51.78

दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे ।
निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे ॥ ८.५१.७८ ॥

Duryodhana's entire army was made spiritless in battle; in that great battle it shone motionless, tumultuous and wretched.

8.51.79

प्रसन्नसलिले काले यथा स्यात्सागरो नृप ।
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम् ॥ ८.५१.७९ ॥

O king, as the ocean with clear water stays still in its season, so too your army stood motionless.

8.51.80

मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम् ।
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा ॥ ८.५१.८० ॥

That army of your son, endowed with wrath, valour and strength, was struck back through pride, and then it became lustreless.

8.51.81

ते बले भरतश्रेष्ठ वध्यमाने परस्परम् ।
रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः ॥ ८.५१.८१ ॥

O best of the Bharatas, those two armies, being slain by one another, became drenched in streams of blood and wet with blood.

8.51.82

सूतपुत्रोऽवधीत्क्रुद्वः पाण्डवानामनीकिनीम् ।
भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः ॥ ८.५१.८२ ॥

Enraged, the son of the charioteer struck down the army of the Pāṇḍavas; Bhīmasena struck down the Kurus, and Dhanañjaya struck down the Trigartas.

8.51.83

वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने ।
निहत्य पृतनामध्यं संशप्तकगणान्बहून्।
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् ॥ ८.५१.८३ ॥

As such a terrible and wondrous battle was going on, Arjuna, the best of victors, having slain many throngs of the Saṃśaptakas in the middle of the army, then spoke to Vāsudeva.

8.51.84

प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह ।
एते धावन्ति सगणाः संशप्तकमहारथाः ॥ ८.५१.८४ ॥

This army, which was ready to fight with me, is indeed broken; look, these great charioteers of the Saṃśaptakas are running away with their troops.

8.51.85

दुर्जया ह्येव समरे देवैरपि सवासवैः ।
अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव ॥ ८.५१.८५ ॥

In battle, even the gods with Vāsava could not conquer them; unable to bear my arrows, they are like deer before a lion's roar.

8.51.86

दीर्यते च महत्सैन्यं सृञ्जयानां महारणे ।
कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः ॥ ८.५१.८६ ॥

In the great battle the vast army of the Sṛñjayas is being torn apart, and the Kurus, tormented by fear of Bhīmasena, are fleeing.

8.51.87

हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥ ८.५१.८७ ॥

O Kṛṣṇa, that banner marked with the elephant-girth of the wise Karṇa is seen again and again moving through the midst of the royal army.

8.51.88

न च कर्णं रणे शक्ता जेतुमेते महारथाः ।
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥ ८.५१.८८ ॥

These great chariot-warriors cannot conquer Karṇa in battle; indeed you know Karṇa, mighty in valour.

8.51.89

तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् ।
त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम्।
एतन्मे रोचते कृष्ण यथा वा तव रोचते ॥ ८.५१.८९ ॥

Go there, where Karṇa is routing our army; avoiding the Trigartas, go to the great chariot-warrior, the charioteer's son. O Kṛṣṇa, this pleases me, or as it pleases you.

8.51.90

एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव ।
अब्रवीदर्जुनं तूर्णं कौरवान्याहि पाण्डव ॥ ८.५१.९० ॥

Having heard his words, Govinda, as if laughing, said to Arjuna: 'Go quickly toward the Kauravas, O Pāṇḍava.'

8.51.91

ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः ।
हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे ॥ ८.५१.९१ ॥

Then the swan-coloured horses, urged on by Govinda, quickly entered your great army, carrying Arjuna in the battle.

8.51.92

केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः ।
प्रविशद्भिस्तव बलं चतुर्दिशमदीर्यत ॥ ८.५१.९२ ॥

Urged on by Keśava, the white horses adorned with golden ornaments entered your army, and it was split apart in all four directions.

8.51.93

मेघस्तनितनिर्हादः स रथो वानरध्वजः ।
चलत्पताकस्तां सेनां विमानं द्यामिवाविशत् ॥ ८.५१.९३ ॥

With a roar like thundering clouds, that chariot with the monkey banner and fluttering pennants entered that army, as a celestial car enters heaven.

8.51.94

तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनो ।
क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती ॥ ८.५१.९४ ॥

Having split that great army, the two, Keśava and Arjuna, entered, enraged, their eyes red with fury, shining with great radiance.

8.51.95

युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम् ।
यज्वभिर्विधिना हूतौ मखं देवाविवाश्विनौ ॥ ८.५१.९५ ॥

Skilled in battle, summoned, those two came to this battle-sacrifice, as the Aśvins come to a sacrifice when invoked by sacrificers according to rite.

8.51.96

क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ ।
मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ ॥ ८.५१.९६ ॥

The heroes of great might, their eyes reddened with anger, shone like two rut-maddened elephants moving their glances this way and that.

8.51.97

क्रुद्धौ तौ तु नरव्याघ्रो योगवन्तौ बभूवतुः ।
तलशब्देन रुषितौ महानागाविवोत्कटौ ॥ ८.५१.९७ ॥

Those two tigers among men, enraged and skilled, were roused by the sound of palm-slaps, like two great elephants in rut.

8.51.98

विगाह्य तु रथानीकमश्वसङ्घांश्च फल्गुनः ।
व्यचरत्पृतनामध्ये पाशहस्त इवानत्कः ॥ ८.५१.९८ ॥

Plunging into the array of chariots and the groups of horses, Arjuna moved about in the midst of the army like Death with a noose in hand.

8.51.99

तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत ।
संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत् ॥ ८.५१.९९ ॥

Seeing him valiant in battle, O Bhārata, your son again urged on the bands of Saṃśaptakas in the army.

8.51.100

ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः ।
चतुर्दशसहस्रैस्तु तुरगाणां महाहवे।
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ।
शूराणां लब्धलक्षाणां विदितानां समन्ततः।
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः ॥ ८.५१.१०० ॥

Then, with a thousand chariots, three hundred elephants, fourteen thousand horses, and two hundred thousand archer-footmen, renowned heroes skilled in aim advanced on all sides upon the son of Kuntī, and the great chariot-warriors covered him.

8.51.101

शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम् ।
स च्छाद्यमानः समरे शरैः परबलार्दनः ॥ ८.५१.१०१ ॥

O great king, the son of Pāṇḍu was covered on all sides by a rain of arrows; and although covered by arrows in battle, he, the crusher of enemy forces, …

8.51.102

दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥ ८.५१.१०२ ॥

Showing his fearsome form like Death with a noose in hand, and striking down the Saṃśaptakas, Pārtha became all the more worth beholding.

8.51.103

ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः ।
निरन्तरमिवाकाशमासीच्छन्नं किरीटिना ॥ ८.५१.१०३ ॥

Then the sky, as if without any gap, was covered by the diadem-bearer with arrows bright as lightning and adorned with gold.

8.51.104

किरीटिचापनिर्मुक्तैः सम्पतद्भिर्महाशरैः ।
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥ ८.५१.१०४ ॥

O lord, everything, covered by the great arrows falling from the bow of the diadem-bearer, shone as if covered by the sons of Kadru, the serpents.

8.51.105

रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः ।
अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥ ८.५१.१०५ ॥

The Pāṇḍava of immeasurable self released terrible, bright arrows with gold shafts and straight joints in all directions.

8.51.106

मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा ।
स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात् ॥ ८.५१.१०६ ॥

From the sound of Pārtha's palm, people thought that the earth, the sky, all the directions, the oceans and even the mountains were splitting apart.

8.51.107

हत्वा दशसहस्राणि पार्थिवानां महारथः ।
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोभ्ययात् ॥ ८.५१.१०७ ॥

Having slain ten thousand kings of the Saṃśaptakas, the great charioteer, the son of Kuntī, hastily advanced toward the flank.

8.51.108

प्रपक्षं च समासाद्य पार्थः काम्भोजरक्षितम् ।
प्रममाथ बलं भल्लैर्दानवानिव वासवः ॥ ८.५१.१०८ ॥

Reaching the flank guarded by the Kāmbojas, Pārtha crushed the army with broad-headed arrows, as Vāsava (Indra) crushes the Dānavas.

8.51.109

प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम् ।
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥ ८.५१.१०९ ॥

He swiftly cut off, with crescent-headed arrows, the weapon-bearing hands and arms of the hostile aggressors, and their heads as well.

8.51.110

अङ्गांङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि। ॥ ८.५१.११० ॥

Their limbs and body-parts severed, they fell to the ground, weaponless.

8.51.111

विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः ॥ ८.५१.१११ ॥

Like many-branched trees broken by a violent wind on every side.

8.51.112

हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् ।
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥ ८.५१.११२ ॥

Upon Arjuna, who was striking down the troops of elephants, horses, chariots and foot soldiers, the younger brother of Sudakṣiṇa rained a shower of arrows.

8.51.113

तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ ।
पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः ॥ ८.५१.११३ ॥

As he shot, with crescent-headed arrows his two arms, like iron clubs, were cut off, and with a razor-headed arrow his head, its face like the full moon, was struck away.

8.51.114

तत्पपात ततो वेगात्स्वलोहितपरिष्कृतम् ।
मनः शिलागिरेः शृङ्गं व्ज्रेणेवावदारितम् ॥ ८.५१.११४ ॥

It fell swiftly, adorned with its own blood, like a peak of the realgar mountain split by a thunderbolt.

8.51.115

सुदक्षिणादवरजं काम्भोजा ददृशुर्हतम् ।
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम्।
काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा ॥ ८.५१.११५ ॥

The Kāmbojas saw the younger brother of Sudakṣiṇa lying slain: tall, lotus-petal-eyed, exceedingly pleasing to behold, like a golden pillar, like a golden mountain split open.

8.51.116

ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम् ।
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥ ८.५१.११६ ॥

Then again a terrible and exceedingly wondrous battle arose, and the warriors fighting there came to be in many different conditions.

8.51.117

पार्थेषुनिहतैरश्वैः काम्भोजैर्यवनैः शकैः ।
शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशां पते ॥ ८.५१.११७ ॥

Horses slain by Pārtha's arrows, and Kāmbojas, Yavanas and Śakas smeared with blood: then everything was reddened, O lord of the peoples.

8.51.118

रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः ।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥ ८.५१.११८ ॥

Chariots with horses and charioteers slain; horsemen with their riders slain; elephants with their riders slain, and elephant-drivers with their elephants slain.

8.51.119

अन्योन्येन महाराज विनाशः पृथिवीक्षिताम्। ॥ ८.५१.११९ ॥

By one another, O great king, was the destruction of the rulers of the earth.

8.51.120

आसीत्क्रुद्वेऽर्जुने कर्णे भीमसेने च दारुणम् ।
तस्पिन्प्रपक्षे पक्षे च वध्यमाने मदोत्कटः। ॥ ८.५१.१२० ॥

There was a dreadful fight between the enraged Arjuna, Karṇa and Bhīmasena, while on that side and this side the proud, exultant warriors were being slain.

8.51.121

अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात् ।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम्।
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥ ८.५१.१२१ ॥

Droṇa's son hastened toward Arjuna, best of conquerors, shaking his great bow adorned with gold and taking up terrible arrows, as the sun takes up his own rays.

8.51.122

तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम् ।
विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः ॥ ८.५१.१२२ ॥

Between those two brothers of dharma, who wished to astonish the world and desired supreme glory, there arose a great and relentless battle.

8.51.123

संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः ।
सूतपुत्रस्तु पाञ्चालांस्त्रयोऽघ्नंस्त्वरिताः शरैः ॥ ८.५१.१२३ ॥

Kaunteya struck down the Saṃśaptakas, Vṛkodara the Kurus, and the son of the charioteer the Pāñcālas, the three swiftly striking them down with arrows.

8.51.124

एवमेष महाराज विनाशः पृथिवीक्षिताम् ।
युद्वं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे ॥ ८.५१.१२४ ॥

Thus, O great king, was this destruction of the rulers of the earth; and thus was the terrible battle, when the front of the army had been divided into three.