Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.52.1

कथं संशप्तकैः सार्धमर्जुनस्याभवद्रणः ।
सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम् ॥ ८.५२.१ ॥

阿周那如何与三誓士交战?御者之子(迦尔纳)又如何与般遮罗人开战?

8.52.2

अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च सञ्जय ।
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥ ८.५२.२ ॥

桑耶,请告诉我阿濕婆塔马与阿周那之战,以及我方其他人与般度之子的战斗。

8.52.3

शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम ।
वीराणां शत्रुभिः सार्धं देहपाप्मविनाशनम् ॥ ८.५२.३ ॥

大王,请听我如实讲述这场战斗:英雄与敌人的交战,此战能消除身体的罪孽。

8.52.4

पार्थः संशप्तकबलं प्रविश्यार्णवसन्निभम् ।
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥ ८.५२.४ ॥

杀敌者般特之子(阿周那)进入如大海般的三誓士军中,使之翻腾,如同大风搅动大海。

8.52.5

पूर्णचन्द्राभवक्राणि स्वक्षिभ्रूदशनानि च ।
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः।
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥ ८.५२.५ ॥

财富征服者(阿周那)用锐利的月牙箭斩下那些面如满月、有眼、眉、齿的英雄的头颅,迅速将它们洒满大地,如同断茎的莲花。

8.52.6

सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् ।
सायुधान्सतलत्रांश्च पञ्चास्योरगसन्निभान्।
बाहून्क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः ॥ ८.५२.६ ॥

阿周那在战斗中用利刃斩断敌人的手臂,那些手臂圆润、修长、饱满,饰以檀香与沉香,持有武器并戴护臂,如同五头毒蛇。

8.52.7

धुर्यान्धुर्योतरान्सूतान्ध्वजांश्चापानि सायकान् ।
पाणीन्नितान्तनिशितैर्भल्लैश्चिच्छेद पाण्डवः ॥ ८.५२.७ ॥

般度之子以极锐利的薄刃箭斩断了轭马、后排马、御者、旗幡、弓、箭和手臂。

8.52.8

रथान्द्विपान्हयांश्चैव सारोहानर्जुनो युधि ।
शरैरनेकसाहस्रैर्निन्ये राजन्यमक्षयम् ॥ ८.५२.८ ॥

阿周那在战场上以数千支箭,将战车、象与马连同其乘者送往阎摩之域,大王啊。

8.52.9

तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः ।
वासितार्थमिव क्रुद्धमभिद्रुत्य महोत्कटाः।
निघ्न्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥ ८.५२.९ ॥

那些英勇战士极度愤怒,如咆哮的公牛,又如追逐发情母牛的公牛般扑向他,以如角般的箭射击这位正在猛烈杀敌的愤怒者。

8.52.10

तस्य तेषां च तद्युद्वमभवद्रोमहर्षणम् ।
त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा ॥ ८.५२.१० ॥

他与他们的那场战斗令人毛骨悚然,宛如征服三界时,阿修罗与执雷者(因陀罗)的交战。

8.52.11

अस्त्रैस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।
इषुभिर्बहुभिस्तूर्णं विद्व्वा प्राणाञ्जहार सः ॥ ८.५२.११ ॥

阿周那以自己的兵器从四面八方挡开敌人的兵器,迅速以众多箭射穿他们,夺走了他们的性命。

8.52.12

छिन्नत्रिवेणुचक्राक्षान्हतयोधान्ससारथीन् ।
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥ ८.५२.१२ ॥

战车的辕、轮与轴被斩为三段,战士与御者被杀,兵器与箭袋粉碎,旗幡被拔倒。

8.52.13

सञ्छिन्नयोक्ररश्मीषान्वित्रिवेणून्विकूबरान् ।
विस्रस्तबन्धुरयुगान्विस्रस्ताक्षप्रमण्डलान् ॥ ८.५२.१३ ॥

轭、缰绳与皮带皆已断裂,车杆与车辕端皆已折断,驾具松脱,车轴与轮圈四散破碎。

8.52.14

रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥ ८.५२.१४ ॥

犹如狂风吹散巨大的云团,他将战车打得粉碎。

8.52.15

विस्मापकं प्रेक्षकाणां द्विषतां भयवर्धनम् ।
महारथसहस्रस्य समं कर्माकरोज्जयः ॥ ८.५२.१५ ॥

令旁观者惊叹、令敌人愈加恐惧,胜者的功绩竟与千名大车勇士相当。

8.52.16

सिद्धदेवर्षिसङ्घाश्च चारणाश्चापि तुष्टुवुः ॥ ८.५२.१६ ॥

成就者、天神与仙人之众,以及乾闼婆乐师,也都赞颂他们。

8.52.17

देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ।
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्वाशरीरिणी ॥ ८.५२.१७ ॥

天鼓齐鸣,花雨落在克舍婆与阿周那的头顶之上。随即,一个无形之声说道。

8.52.18

चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः ।
यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ ॥ ८.५२.१८ ॥

这两位英雄,克舍婆与阿周那,正是那常常承载着月、火、风、日之光辉、明亮、力量与灿烂的人。

8.52.19

ब्रह्मेशानाविव पुरा वीरावेकरथे स्थितौ ।
सर्वभूतवरौ वीरौ नरनारायणाविमौ ॥ ८.५२.१९ ॥

如同往昔的梵天与自在天,这两位英雄同立一辆战车之上:他们是那罗与那罗延,乃一切众生中最优秀者。

8.52.20

इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत ।
अश्वत्थामा सुसङ्क्रुद्धः कृष्णावभ्यद्रवद्रणे ॥ ८.५२.२० ॥

婆罗多啊,马嘶多门目睹并听闻此大奇迹,极为愤怒,便在战场上冲向那两位黑天。

8.52.21

अथ पाण्डवमस्यन्तममित्रान्तकराञ्छरान् ।
सेषुणा पाणिनाऽऽहूय प्रहसन्द्रौणिरब्रवीत् ॥ ८.५२.२१ ॥

此时,见般度之子射出能摧毁敌人的箭矢,德罗纳之子便持弓举手呼唤他,笑着说道。

8.52.22

यदि मां मन्यसे वीर प्राप्तमर्हमिहातिथिम् ।
ततः सर्वात्मना त्वद्य युद्वातिथ्यं प्रयच्छ मे ॥ ८.५२.२२ ॥

勇士啊,若你视我为来此的应尊之客,那么今日请全心全意地以战斗之礼款待我。

8.52.23

एवमाचार्यपुत्रेण समाहूतो युयुत्सया ।
बहुमेनेऽर्जुनोऽऽत्मानमिति चाह जनार्दनम् ॥ ८.५२.२३ ॥

老师之子怀着好战之心如此挑战,阿周那便高看自己,对阇那陀那说道。

8.52.24

संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् ।
यदत्रानन्तरं प्राप्तं शंस मे तद्वि माधव ॥ ८.५२.२४ ॥

三摩沙迦是我应当诛杀之人,德罗纳之子又向我挑战。摩陀婆啊,请告诉我,此刻接下来当如何。

8.52.25

आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे ।
एवमुक्तोऽवहत्पार्थं कृष्णोद्रोणात्मजान्तिके ॥ ८.५२.२५ ॥

若你认为合适,就应当起身以待客之礼相赠。被如此告知后,克里希纳把般度之子带到德罗纳之子身边。

8.52.26

शैक्ष्येण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे ।
तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत् ॥ ८.५२.२६ ॥

克舍婆称呼那位心志专一的般度之子,他如同祭祀中依礼被请来的风神之于因陀罗,然后对德罗纳之子说道。

8.52.27

अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ।
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ॥ ८.५२.२७ ॥

阿湿婆摩,坚定地迅速出击并忍耐。这正是偿还主人食禄之恩的时候,因为这是依靠主人为生者的时刻。

8.52.28

सूक्ष्मो विवादो विप्राणां सूक्ष्मौ क्षास्त्रौ जयाजयौ ॥ ८.५२.२८ ॥

婆罗门的争论精微;经典精微,胜负也精微。

8.52.29

नहि संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् ।
समाप्तिमिच्छन्युध्यस्व स्यिरो भूत्वाऽद्य पाण्डवं ॥ ८.५२.२९ ॥

你因迷惑而不能忍受对般度之子的神圣礼遇。若求结束,今日便应坚定地与般度之子作战。

8.52.30

इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः ।
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥ ८.५२.३० ॥

婆苏提婆如此说后,那位婆罗门中最优秀者说“就这样吧”,用六十支铁箭射中克舍婆,又用三支射中阿周那。

8.52.31

तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्बाणैः शरासनम् ।
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥ ८.५२.३१ ॥

阿周那大怒,以三支箭斩断了他的弓。于是德罗纳之子又拿起另一把更可怕的弓。

8.52.32

सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ ।
त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम् ॥ ८.५२.३२ ॥

他顷刻间将弓弦上好,射中阿周那与克沙瓦:以三百箭射瓦苏提婆,以千箭射般度之子。

8.52.33

ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ।
ससृजे द्रौणिरायस्तः स्तम्भयामास चार्जुनम् ॥ ८.५२.३३ ॥

于是德罗纳之子竭尽全力,射出数千、数万乃至数亿支箭,使阿周那陷入僵直。

8.52.34

इषुधेर्धनुषो ज्यायास्त्वङ्गुलिभ्यश्च मारिष ।
बाह्वोः कराभ्यामुरसो वदनाद्व्राणनेत्रतः ॥ ८.५२.३४ ॥

哦,尊者!从箭囊、弓、弦、手指、臂、手、胸、口,以及鼻和眼中,箭纷纷涌出。

8.52.35

कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्मभ्य एव च ।
रथध्वजाभ्यां च शरा निष्पेतुर्ब्रह्मवादिनः ॥ ८.५२.३५ ॥

从耳、头、四肢、毛孔,以及战车与旗帜中,经咒语加持的箭纷纷射出。

8.52.36

शरजालेन महता बद्ध्वा माधवपाण्डवौ ।
ननाद सुदितो द्रौणिर्महामेघौघनिःस्वनम् ॥ ८.५२.३६ ॥

他以巨大的箭网缚住摩陀婆与般度之子,德罗纳之子大喜,发出如巨大雷云般的吼声。

8.52.37

तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ॥ ८.५२.३७ ॥

大王啊,那些由德罗纳之子射出、从四面八方落下的箭,遮蔽了站在战车上的二人:黑天与财施(阿周那)。

8.52.38

ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् ।
निश्चेष्टा तावुभौ चक्रे रणे माधवपाण्डवौ ॥ ८.५२.३८ ॥

于是威武的婆罗堕遮之子以数百支锐利之箭,使战场上的摩陀婆与般度之子二人都动弹不得。

8.52.39

महाकृतमभूत् सर्वं स्थावरं जङ्गमं तथा ।
चराचरसा मोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ॥ ८.५२.३९ ॥

一切动与不动之物都变成了大奇迹——因为看到动与不动之世界的两位守护者被箭矢遮蔽。

8.52.40

सिद्धचार…श्च संपेतुर्शै समन्ततः ।
अपि … लोकानामिति चाब्रुवन् ॥ ८.५२.४० ॥

悉陀与持明从四面八方聚集,并谈论着诸世界如此说道。

8.52.41

न मया … राजन्दृष्टपृर्वः पराकमः ।
… कृष्णो छादयतो रणे ॥ ८.५२.४१ ॥

大王啊,我从前从未见过这样的勇力,在战场上以箭遮蔽黑天。

8.52.42

…शब्दं रथानां त्रासनं रणे ।
… राजन्सिंहस्य नदतो यथा ॥ ८.५२.४२ ॥

大王啊,战场上战车那令人恐惧的声音,犹如雄狮吼叫。

8.52.43

चरतो युद्धे सव्यं दक्षिणमस्यतः ।
विद्युदम्भोधरस्येव भ्राजमाना व्यदृश्यत ॥ ८.५२.४३ ॥

他在战场上来回奔驰,左右开弓放箭,像云中闪耀的闪电一样显现出来。

8.52.44

स तदा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।
प्रमोहं परमं गत्वा प्रेक्षन्नास्ते धनञ्जयः ॥ ८.५२.४४ ॥

那时,行动迅捷、手臂有力的般度之子达那闻耶陷入极度的迷惘,只是呆望着。

8.52.45

विक्रमं चरतो युद्धे सव्यं दक्षिणमस्यतः ।
विक्रमं च हृतं मेने आत्मनस्तेन संयुगे ॥ ८.५२.४५ ॥

看到他在战场上左右开弓、来回奔驰的勇武,他以为自己的勇武在这场战斗中已被对方夺去。

8.52.46

अथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ।
द्रौणेस्तत्कुर्वतः कर्म यादृग्रूपं पिनाकिनः ॥ ८.५२.४६ ॥

那时,大王,他在战场上的形貌变得难以直视;德罗纳之子做那些事迹时,看起来像持弓者毗那迦(湿婆)的形象。

8.52.47

वर्धमाने ततस्तत्र द्रोणपुत्रे विशाम्पते ।
हीयमाने च कौन्तेये कृष्णं रोषः समाविशत् ॥ ८.५२.४७ ॥

那时,人民之主啊,德罗纳之子在那里愈发强盛,而贡提之子渐渐衰弱,克里希那心中便涌起了愤怒。

8.52.48

स रोषान्निश्वसन्राजन्निर्दहन्निव चक्षुषा ।
द्रौणिं ददर्श सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ॥ ८.५२.४८ ॥

大王啊,他怒气冲冲地叹息,目光仿佛要用眼睛烧尽一切,在战场上一次又一次地望着德罗纳之子与法尔古那。

8.52.49

ततः कृष्णोऽब्रवीत्क्रुद्धः पार्थं सप्रणयं वचः ॥ ८.५२.४९ ॥

于是愤怒的黑天怀着深情对贝塔(阿周那)说道:

8.52.50

अत्यद्भुततमिदं पार्थ त्वयि पश्यामि संयुगे ।
यत्त्वां विशेषयत्याजौ द्रोणपुत्रोऽद्य भारत ॥ ८.५२.५० ॥

帕尔塔啊,我在战斗中看到你身上一件极为奇异的事:今日,婆罗多啊,德罗纳之子竟在战斗中胜过了你。

8.52.51

कच्चित्ते गाण्डिवं हस्ते मुष्टिर्वा न व्यशीर्यत ।
कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव ॥ ८.५२.५१ ॥

你手中的甘狄拔弓是否还在?你的握力是否没有松弛?你的勇气与双臂之力是否如从前一样?

8.52.52

उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे ।
गुरुपुत्र इति ह्येनं मानयन्पाण्डवर्षभ।
उपेक्षां मा कृथाः पार्थ नायं काल उपेक्षितुम् ॥ ८.५२.५२ ॥

我看到德罗纳之子在战场上奋勇进逼。别因他是老师之子而敬重他,就轻视他,帕尔塔啊,般度族的雄牛;此时不是轻忽的时候。

8.52.53

पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति ।
वधं प्राप्तौ मन्यते नौ प्रावेश्य शवरेश्मनि।
एषोस्मि हन्मि सङ्कल्पं शिक्षया च बलेन च ॥ ८.५२.५३ ॥

看哪,摩陀婆,老师之子对我的恶意!他以为把我们两人引入尸屋便能置我们于死地。我在此:我将凭技艺与力量完成我的决心。

8.52.54

एवमुक्त्वाऽस्य चिच्छेद भल्लैः कर्मारमार्जितैः ।
धनुश्छत्रं पताकां च रथशक्तिं गदां वराम् ॥ ८.५२.५४ ॥

说完,他用工匠磨亮的薄刃箭斩断了对方的弓、华盖、旗帜、战车长矛与上好的钉头槌。

8.52.55

अश्वत्थाम्नः शरानस्ताञ्छित्त्वैकैकं त्रिधा त्रिधा ।
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥ ८.५२.५५ ॥

婆罗多族中最优秀者将阿输婆摩的箭逐一斩成三段,将其驱散,犹如风吹散薄雾。

8.52.56

ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् ।
ध्वजपत्तिगणानुर्ग्रैर्बाणैर्विव्याध पाण्डवः ॥ ८.५२.५६ ॥

随后,般度之子又用猛烈的箭射穿了三界盟约者,连同他们的马匹、御者、战车、大象,以及持旗的步兵队伍。

8.52.57

ये ये ददृशिरे तत्र यद्यद्रूपास्तदा जनाः ।
ते ते तत्र शरैर्व्याप्तं मेनिरेऽऽत्मानमात्मना ॥ ८.५२.५७ ॥

凡是在那里出现的人,无论是何种形貌,他们在那里都被箭所覆盖,便以为自己被自己的箭所覆盖。

8.52.58

ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः ।
क्रोशे साग्रे स्थिताञ्जघ्नुर्द्विपांश्च पुरुषान्रणे ॥ ८.५२.५८ ॥

从甘提婆弓射出的那些形态各异的羽箭,在一俱卢舍之内,将站在前面的大象与人在战场上击杀。

8.52.59

भल्लैश्छिन्नाः कराः पेतुः करिणां मदवर्षिणाम् ।
यथा वने परशुभिर्निकृत्ताः शाल्मलिद्रुमाः ॥ ८.५२.५९ ॥

被月牙箭头斩断的、流淌着发情液的大象之鼻落下,犹如森林中被斧头砍倒的木棉树。

8.52.60

पश्चात्तु शैलवत्पतुस्ते गजाः सह सादिभिः ।
वज्रिवज्रावमथिता यथैवाद्रिचयास्तथा ॥ ८.५२.६० ॥

随后那些大象连同其骑手倒下,如同被因陀罗的金刚杵击碎的群山堆倒塌一般。

8.52.61

गन्धर्वनगराकारान्रथांश्चैव सुकल्पितान् ।
विनीतैर्जवनैर्युक्तानास्थितान्युद्वदुर्मदैः ॥ ८.५२.६१ ॥

如乾闥婆城般精心装备的战车,套着驯良迅捷的骏马,车上站满了在战斗中骄傲勇猛的战士。

8.52.62

शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् ।
स्वलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ॥ ८.५२.६२ ॥

达那闍耶以箭将敌人射得粉碎,向他们倾泻箭雨,并击杀了装饰华美的骑兵与步卒。

8.52.63

धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् ।
व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः ॥ ८.५२.६३ ॥

达那闍耶如同劫末之日,以锐利的箭之光芒,烧干了难以烧干的三摩舍多迦大海。

8.52.64

पुनर्द्रौणिमहाशैलं नाराचैर्वज्रसन्निभैः ।
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥ ८.५२.६४ ॥

他再次以极大的力量急速前进,用如金刚杵般的铁箭射穿了德罗纳之子这座大山,正如执金刚的因陀罗射穿山岳。

8.52.65

तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः ।
युयुत्सुरागमद्योद्धुं पार्थस्तानच्छिनच्छरान् ॥ ८.५२.६५ ॥

师尊之子愤怒地前来求战,以疾箭连同马匹与御者一起攻击他;贝尔塔将那些箭斩断。

8.52.66

ततः परमसङ्क्रुद्धः काण्डकोशमवासृजत् ।
अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥ ८.५२.६६ ॥

于是他大怒,向这位可敬的阿室婆多摩倾尽箭囊,正如为客人敞开家门一般。

8.52.67

अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् ।
अपाङ्क्तेयानिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥ ८.५२.६७ ॥

于是,潘度之子舍弃三誓者,奔向德罗纳之子,如施主舍弃不配同席者,而去寻找配同席的乞者。

8.52.68

स्थिताः संशप्तका राजन्दृष्ट्वा युद्वं महात्मनोः ॥ ८.५२.६८ ॥

大王,三誓者站立着观看那两位大士的战斗。