Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 8.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

8.53.1

ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः ।
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥ ८.५३.१ ॥

そのとき、金星とアンギラスのように輝く二人の間に戦いが起こった。空の星々の中の金星とアンギラスのように。

8.53.2

सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः ।
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥ ८.५३.२ ॥

燃えさかる矢の光で互いを苦しめ、世界に恐怖をもたらす二人は、軌道を外れた二つの惑星のようであった。

8.53.3

ततोऽविध्यद्धुवोर्मध्ये नाराचैरर्जुनो भृशम् ।
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥ ८.५३.३ ॥

そこでアルジュナは鉄の矢で、ドローナの息子の眉間を激しく射貫いた。そのため彼は、上に向かう光線の太陽のように輝いた。

8.53.4

अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम् ।
स्वरश्मिजालविकचौ युगान्तार्काविवासुतः ॥ ८.५३.४ ॥

そこで、アシュヴァッターマンに数百の矢で激しく苦しめられたクリシュナとアルジュナは、光の網を広げる劫末の太陽のようであった。

8.53.5

ततोऽर्जुनः सर्वतोधारमस्त्र… ।
मवासृजद्वासुदेवेऽभिभूते।
द्रौणायनिश्चाभ्यहनत्पृषत्कै… ।
र्वज्राग्निवैवस्वतदण्डकल्पैः ॥ ८.५३.५ ॥

そこでアルジュナは四方に降り注ぐ武器を放った……ヴァース デーヴァが屈したとき、ドローナの息子は矢で打ち込んだ……雷電、火、ヤマの杖のごとく。

8.53.6

स केशवं चार्जुनं चातितेजा ।
विव्याध मर्मस्वतिरौद्रकर्मा।
बाणैः सुमुक्तैरतितीव्रवेगै… ।
र्यैराहतो मृत्युरपि व्यथेत ॥ ८.५३.६ ॥

その極めて輝かしく恐ろしい行いをする者は、極めて速い勢いで放たれた矢で、ケーシャヴァとアルジュナの急所を射貫いた。それらに打たれれば、死神でさえ苦しんだであろう。

8.53.7

द्रौणेरिषूनिषुभिः सन्निवार्य ।
व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः।
तं साश्वसूतध्वजमेकवीर… ।
मावृत्य संशप्तकसैन्यमार्च्छत् ॥ ८.५३.७ ॥

ドローナの子の矢を自分の矢で防ぎ、弓を引きながら、倍の数の美しい羽根の矢で、その一人の英雄を馬・御者・旗もろとも覆い、サンシャプタカの軍勢へと向かった。

8.53.8

धनूंषि बाणानिषुधीर्धनुर्ज्याः ।
पाणीन्भुजान्पाणिगतं च शस्त्रम्।
छत्राणि केतूंस्तुरगान्रथेषां ।
वस्त्राणि माल्यान्यथा भूषणानि ॥ ८.५३.८ ॥

彼らの弓、矢、矢筒、弓弦、手、腕、手に持つ武器、傘、旗、馬、戦車、衣服、花輪、飾り。

8.53.9

चर्माणि वर्माणि मनोरमाणि ।
प्रसह्य चैषां स शिरांसि चैव।
स्रिच्छेद पार्थो द्विषतां सुमुक्तै… ।
र्बाणैः स्थितानामपराङ्मुखानाम् ॥ ८.५३.९ ॥

プリター の子は、退かずに立ち向かう敵たちの、美しい盾と鎧、そして頭までも、よく放たれた矢で力強く断ち切った。

8.53.10

सुकल्पिताः स्मन्दनवाजिनागाः ।
समास्थिताः कृतयत्नैर्नृवीरैः।
पार्थेरितैर्बाणशतैर्निरस्ता… ।
स्तैरेव सार्धं नृवरैर्विनेशुः ॥ ८.५३.१० ॥

よく整えられた戦車・馬・象は、奮戦する人中の英雄たちが乗っていたが、プリターの子の放った数百の矢に散らされ、その最上の人々とともに滅びた。

8.53.11

पद्मार्कपूर्णेन्दुनिभाननानि ।
किरीटमाल्याभरणोज्ज्वलानि।
भल्लार्धचन्द्रक्षुरसन्निकृत्ता… ।
न्यपातयच्छत्रुशिरांस्यजस्रम् ॥ ८.५३.११ ॥

蓮、太陽、満月のような顔を持ち、冠と花飾りと装身具に輝く敵の首を、バッラ矢、半月矢、剃刀矢で切られたまま、彼は絶え間なく落とした。

8.53.12

अथ द्विपैर्दैत्यरिपुद्विपाभै… ।
र्देवारिकल्पा बलमन्युकल्पैः।
कलिङ्गवङ्गाङ्गनिषादवीरा ।
जिघांसवः पाण्डवमभ्यधावन् ॥ ८.५३.१२ ॥

その時、ダイティヤの敵の象に似た象に乗り、神々の敵のごとく、力と怒りに等しいカリンガ、ヴァンガ、アンガ、ニシャーダの勇士たちは、パーンドゥの子を殺そうと望み、彼めがけて突進した。

8.53.13

तेषां द्विपानां निचकर्त पार्थो ।
वर्माणि चर्माणि करान्नियन्तॄन्।
ध्वजाः पताकाश्च ततः प्रपेतु… ।
र्वज्राहतानीव गिरेः शिरांसि ॥ ८.५३.१३ ॥

パールタは、それらの象の鎧、盾、鼻、御者を切り落とした。すると、金剛杵に打たれた山の峰のように、旗や幡が倒れた。

8.53.14

तेषु प्रभग्नेषु गुरोस्तनूजं ।
बाणैः किरीटि नवसूर्यवर्णैः।
प्रच्छादयामास महाभ्रजालै… ।
र्वायुः समुद्यन्तमिवांशुमन्तम् ॥ ८.५३.१४ ॥

彼らが敗走すると、冠者(アルジュナ)は新しい太陽の色の矢で師の子を覆った。風が昇る太陽を大きな雲の網で覆うように。

8.53.15

ततोऽर्जुनेषूनिषुभिर्निरस्य ।
द्रौणिः शितैरर्जुनवासुदेवौ।
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ।
ननाद सोऽम्भोद इवातपान्ते ॥ ८.५३.१५ ॥

するとドローナの子は、鋭い矢で阿周那の矢を退け、天空で阿周那とヴァースデーヴァを月と太陽のように覆い、夏の終わりの雲のように咆哮した。

8.53.16

तमर्जुनस्तांश्च पुनस्त्वदीया… ।
नभ्यर्दितस्तैरभिसृत्य शस्त्रैः।
वाणान्धकारं सहसैव कृत्त्वा ।
विव्याध पार्थो वरहेमपुङ्खैः ॥ ८.५३.१६ ॥

アルジュナは再び彼らと、あなたの兵を……彼らの武器に苦しめられ、突然矢の闇を断ち切り、優れた金羽の矢で射抜いた、プリター の子。

8.53.17

नाप्याददत्सन्दधन्नैव मुञ्च… ।
न्बाणान्रथेऽदृश्यत सव्यसाची।
रथांश्च नागांस्तुरगान्पदातीन् ।
संस्यूतदेहान्ददृशुर्हतांश्च ॥ ८.५३.१७ ॥

アルジュナが矢を取り、つがえ、放つのは見えなかった。ただ戦車の上に矢が見え、サヴィヤサーチンの姿が見えた。戦車、象、馬、歩兵が体を射抜かれて殺されているのが見られた。

8.53.18

सन्धाय नाराचवरान्दशाशु ।
द्रौणिस्त्वरन्नेकमिवोत्ससर्ज।
तेषां च पञ्चार्जुनमभ्यविध्य… ।
न्पञ्चाच्युतं निर्बिभुदुः सुपुङ्खाः ॥ ८.५३.१८ ॥

ドローナの子は急いで、優れたナーラーチャの矢を十本同時につがえて放った。そのうち五本はアルジュナを、五本はアチュユタ(クリシュナ)を射抜き、その見事な羽の矢が貫いた。

8.53.19

तैराहतौ सर्वमनुष्यमुख्या… ।
वसृक्स्रवन्तौ धनदेन्द्रकल्पौ।
समाप्तविद्येन तथाऽभिभूतौ ।
हतौ रणे ताविति मेनिरेऽन्ये ॥ ८.५३.१९ ॥

彼らに傷つけられた、人の中で最も優れた二人は……血を流し、クベーラとインドラに等しいが、技の完成した者にこのように圧倒された。他の人々は、この二人が戦場で殺されたと思った。

8.53.20

अथार्जुनं प्राह दशार्हनाथः ।
प्रमाद्यसे किं जहि योधमेतम्।
कुर्याद्धि दोषं समुपेक्षितोऽयं ।
कष्टो भवेद्व्याधिरिवाक्रियावान् ॥ ८.५३.२० ॥

するとダシャールハの主(クリシュナ)はアルジュナに言った。「なぜ油断しているのか。この戦士を打ち倒せ。放置すれば必ず害をなす。治療されない病のように、やがて重くなるのだ。」

8.53.21

तथेति चोक्त्वाऽच्युतमप्रमादी ।
द्रौणेः प्रहस्याशु किरीटमाली।
भुजौ वरौ चन्दनसारदिग्धौ ।
वक्षः शिरोऽथाप्रतिमौ तथोरू ॥ ८.५३.२१ ॥

「そうしよう」とアチュユタに言い、警戒を怠らぬ冠を戴くアルジュナは、ドローナの息子を笑って、すぐに。檀香の精で塗られた見事な二本の腕、胸、頭、そして比類なき二本の腿。

8.53.22

गाण्डीवमुक्तैः कुपिताहिकल्पै… ।
द्रौणिं शरैः संयति निर्बिभेद।
छित्त्वा तु रश्मींस्तुरगानविध्य… ।
त्ते तं रणादूहुरतीव दूरम् ॥ ८.५३.२२ ॥

ガーンディーヴァから放たれた、怒れる蛇のような矢で……戦いでドローナの息子を貫いた。手綱を断たれ、馬たちは……彼を戦場から遠くへ運び去った。

8.53.23

स तैर्हृतो वातजवैस्तुरङ्गै-
र्द्रौणिर्दृढं पार्थशराभिभूतः।
आवृत्य नैव व्यषहत्स योद्धुं ।
पार्थेन सार्धं मतिमान्विमृश्य। ॥ ८.५३.२३ ॥

風のように速いその馬に運ばれ、ドローナの息子はアルジュナの矢に強く打ちのめされ、戦いに耐えられなかった。賢者は熟慮の末、パールタと戦うことなく退いた。

8.53.24

जानञ्जयं नियतं वृष्णिवीरे ।
धनञ्जये चाङ्गिरसां वरिष्ठः
विवेश कर्णस्य बलं तरस्वी ।
भग्नोत्साहः क्षीणवाणास्त्रयोगः ॥ ८.५३.२४ ॥

ヴリシュニの英雄(クリシュナ)とダナンジャヤ(アルジュナ)がいれば勝利は確実だと知って、アンギラスの中で最も優れた力強き者はカルナの軍勢に入った。気力は砕け、矢と武技の働きは尽きていた。

8.53.25

प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः ।
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते ॥ ८.५३.२५ ॥

馬たちがアシュヴァッターマンを戦場から運び去ったとき、彼の望みは逆を向いていた。それは、真言と薬草の処方をもってしても病に身体が運び去られるようなものだった。

8.53.26

संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ ।
वातोद्वूतपताकेन स्यन्दनेनौघनादिना ॥ ८.५३.२६ ॥

サンシャプタカに向かって進んだケーシャヴァとアルジュナは、風になびく旗を掲げ、激流のように轟く戦車に乗っていた。