Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.6.1

श्रिया कुलेन यशसा तपसा च श्रुतेन च ।
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥ ८.६.१ ॥

以财富、门第、名声、苦行与学识,今日善人视你如那忽沙之子耶耶底。

8.6.2

श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव ।
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥ ८.६.२ ॥

王啊,你闻知如大仙人,所作已办;当自坚定,不要让心陷入忧伤。

8.6.3

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्र सालप्रतीकाशः कर्णोऽहन्यत संयुगे ॥ ८.६.३ ॥

我认为天命最为至上;人力徒然,可耻可叹,如娑罗树般的迦尔纳竟在战斗中被杀。

8.6.4

हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् ।
प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥ ८.६.४ ॥

杀尽坚战之军与般遮罗的车阵,以箭雨灼烧四方的大车勇士。

8.6.5

मोहियित्वा रणे पार्थान्वज्नहस्त इवासुरान् ।
स कथं निहतः शेते वायुरुग्ण इव द्रुमः ॥ ८.६.५ ॥

他在战场上迷惑般度诸子,犹如持金刚的因陀罗迷惑阿修罗,如今却如被风折断的树木般被杀倒下,这是怎么回事?

8.6.6

शोकस्यान्तं न पश्यामि पारं जलनिधेरिव ।
चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते ॥ ८.६.६ ॥

悲痛无穷,我看不到尽头,犹如望不见大海的彼岸;我的忧虑极度增长,求死之念也油然而生。

8.6.7

कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च ।
अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥ ८.६.७ ॥

桑闍耶啊,听闻迦尔纳之死与法尔古那(阿周那)的胜利,我认为迦尔纳被杀之事难以置信。

8.6.8

वज्रसारमिदं नूनं हृदयं दुर्भिदं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥ ८.६.८ ॥

我的心必定坚如金刚之核,听闻人中猛虎迦尔纳被杀,它竟不碎裂。

8.6.9

आर्युर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा ।
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥ ८.६.९ ॥

诸神早已为我注定了极长的寿命,因为我听闻迦尔纳被杀,仍在此深感悲痛地活着。

8.6.10

धिग्जीवितमिदं चैव सुहृद्वीनस्य सञ्जय ।
अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम्।
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥ ८.६.१० ॥

桑闍耶啊,失去朋友的此生可耻!今日我陷入此可鄙之境;我将悲惨地活着,为众人所怜悯,愚钝的人啊。

8.6.11

अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः ।
परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम् ॥ ८.६.११ ॥

御者啊,我昔日受全世界尊敬,如今被他人羞辱,我怎能活下去?

8.6.12

दुःखाद्दुःखतरं भन्ये प्राप्तवानस्मि सञ्जय ।
भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः ॥ ८.६.१२ ॥

桑闍耶啊,我想,因毗湿摩与德罗纳之死,以及大德迦尔纳之死,我陷入了比悲痛更大的悲痛。

8.6.13

नावशेषं प्रपश्यामि सूतपुत्रे हते युधि ।
सहि पारं महानासीत्पुत्राणां मम सञ्जय ॥ ८.६.१३ ॥

桑闍耶啊,御者之子在战场上被杀之后,我看不到还剩下什么。他曾是我众子的大岸。

8.6.14

युद्धे हि निहतः शूरो विसृजन्सायकान्बहून् ।
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् ॥ ८.६.१४ ॥

在战斗中,那位发射了许多箭的英雄被杀了。没有那人中之牛,活着对我还有什么意义呢?

8.6.15

रथादाधिरथिर्नूनं न्यपतत्सायकार्दितः ।
पर्वतस्येव शिखरं व ज्रपाताद्विदारितम् ॥ ८.६.१५ ॥

御者之子被箭所伤,必定从车上坠落,如同被霹雳劈裂的山峰。

8.6.16

स शेते पृथिवीं नूनं शोभयन्रुधिरोक्षितः ।
मातङ्ग इव मत्तेन मताङ्गेन निपातितः ॥ ८.६.१६ ॥

他必定躺在地上,被血浸染,装饰着大地,如同发情的象被另一头发情的象击倒。

8.6.17

यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् ।
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥ ८.६.१७ ॥

那位曾是持国诸子之力、令般度诸子畏惧、乃善射者之标准的迦尔纳,被阿周那杀死了。

8.6.18

स हि वीरो महेष्वासो मित्राणामभयङ्करः ।
शेते विनिहतो वीरः शक्रेणेव पुरा बलः ॥ ८.६.१८ ॥

那位英雄,大弓手,为朋友带来无畏者,被杀而躺卧,如同往昔因陀罗杀死了钵罗。

8.6.19

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ।
दुर्योधनस्य लोभश्च समान्येतानि सञ्जय ॥ ८.६.१९ ॥

跛者行路,贫者所求,二者相同;杜尤丹那的贪欲亦与之相同,桑闍耶啊。

8.6.20

अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते ।
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥ ८.६.२० ॥

所计划的事情却另有结果,所发生的又是另一回事。唉,天命强大,时间难以超越。

8.6.21

पलायमानः कृपणो दीनात्मा दीनपौरुषः ।
कच्चिद्विनिहतः सूत पुत्रो दुःशासनो मम ॥ ८.६.२१ ॥

我的儿子难降,逃跑中,怯懦而无勇气,是否已被杀死,御者啊?

8.6.22

कच्चिन्न दीनाचरितं कृतवांस्तात संयुगे ।
कच्चिन्न निहतः शूरा यथाऽन्ये क्षत्रियर्षभाः ॥ ८.६.२२ ॥

孩子啊,他在战斗中是否做了什么卑劣之事?他是否像其他刹帝利中的雄牛那样,英勇地被杀了?

8.6.23

युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा ।
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥ ८.६.२३ ॥

愚昧的杜尤丹那从未接受坚战“不要开战”的话,就像病人拒绝有益的良药一样。

8.6.24

शतल्पे शयानेन भीष्मेण सुमहात्मना ।
पानीयं याचितः पार्थः सोविध्यन्मेदिनीतलम् ॥ ८.६.२४ ॥

当大心的毗湿摩躺在箭床上向帕尔塔要水时,他便以箭刺穿了大地表面。

8.6.25

जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च ।
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥ ८.६.२५ ॥

大力者看到潘杜之子所引出的水流,说道:孩子,与般度五子讲和吧。

8.6.26

प्रशमाद्वि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः ।
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥ ८.६.२६ ॥

和解才能带来和平;愿战争止于我身。以兄弟之情,与般度之子共享大地吧。

8.6.27

अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः ।
तदिदं समनुप्राप्त वचनं दीर्घदर्शिनः ॥ ८.६.२७ ॥

因为没有听从他的话,我的儿子必定在悲叹;那位远见者的话now已降临到我们身上。

8.6.28

अहं तु निहतामात्यो हतपुत्रश्च सञ्जय ।
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥ ८.६.२८ ॥

桑贾亚啊,我的大臣已被杀,儿子已被杀,因赌博而陷入困境,如同被剪断翅膀的鸟。

8.6.29

यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय ।
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥ ८.६.२९ ॥

桑贾亚啊,就像嬉戏的孩子们抓住一只鸟,剪断它的翅膀,欢喜地将它放开。

8.6.30

लूनपक्षतया तस्य गमनं नोपपद्यते ।
तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ॥ ८.६.३० ॥

翅膀被剪断,它便无法飞翔;我也如同被剪断翅膀的鸟,陷入了那样的境地。

8.6.31

क्षीणः सर्वार्थहीनश्च निर्ज्ञातिर्बन्धुवर्जितः ।
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥ ८.६.३१ ॥

我衰败、失去一切财富与目的,没有亲族,被亲属抛弃,悲惨地落入敌人的掌控之中,我该往哪个方向去呢?

8.6.32

इत्येवं धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।
प्रोवाच सञ्जयं भूयः सोकव्याकुलमानसः ॥ ८.६.३२ ॥

德拉什特拉如此哀叹,极度悲伤,心被忧愁所扰乱,又对桑贾亚说道。

8.6.33

योऽजयत्सर्वकाम्भोजानम्बष्ठान्कैकयैः सह ।
गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे ॥ ८.६.३३ ॥

他为某事在战场上征服了所有的甘波阇人、安巴什陀人与迦迦耶人,以及犍陀罗人和毗提诃人。

8.6.34

दुर्योधनस्य वृद्ध्यर्थं योऽजयत्पृथिवीं प्रभुः ।
स जितः पाण्डवैः शूरैः समरे वाहुशालिभिः ॥ ८.६.३४ ॥

那位为了杜尤丹那的兴盛而征服大地的君主,在战场上被勇猛有力的般度五子击败了。

8.6.35

तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना ।
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय ॥ ८.६.३५ ॥

大弓手迦尔纳在战场上被戴冠者阿周那杀死后,哪些英雄站在他的周围?桑贾亚啊,请告诉我。

8.6.36

कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे ।
उक्तं त्वया पुरा तात यथा वीरो निपातितः ॥ ८.६.३६ ॥

难道他不是被般度五子孤立地在战场上杀死的吗?亲爱的,正如你先前所说,那位英雄是如何被击倒的?

8.6.37

भीष्ममप्रतियुध्यन्तं शिखम्डी सायकोत्तमैः ।
पातयामास समरे सर्वशस्त्रभृतां वरम् ॥ ८.६.३७ ॥

在战斗中,尸犍底以上乘的箭射倒了不还手的毗湿摩;他是所有持械者中最优秀的。

8.6.38

तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि ।
धर्मराजवचः श्रुत्वा अश्वत्थामा हतस्त्विति ॥ ८.६.३८ ॥

同样,德罗波蒂之子在战斗中杀死了放下了所有武器的德罗纳;他听到了法王关于阿输婆摩已死的话语。

8.6.39

युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ।
निहतः खङ्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ॥ ८.६.३९ ॥

那位沉浸于瑜伽、身上插满箭矢的大弓箭手,被提举剑的德里斯塔德尤姆纳杀死了,萨阇耶啊。

8.6.40

अन्तरेण हतावेतौ छलेन च विशेषतः ।
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥ ८.६.४० ॥

这两人是趁着空隙被杀的,尤其是用诡计;我确实听说毗湿摩和德罗纳被击倒了。

8.6.41

भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् ।
न्यायेन युध्यन्समरे तद्वै सत्यं ब्रवीमि ते ॥ ८.६.४१ ॥

毗湿摩和德罗纳若在战斗中依正道作战,即使执金刚者本人也不能在战场上杀死他们;这是我对你说的真理。

8.6.42

कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च ।
कथमिन्द्रोपमं वीरं मृत्युर्युद्वे समस्पृशत् ॥ ८.६.४२ ॥

然而,那位与因陀罗相等、发射神圣与众多兵器的英雄迦尔纳,在战斗中是如何被死亡触及的?

8.6.43

यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् ।
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः ॥ ८.६.४३ ॥

因陀罗以两只耳环交换、赐予他的,是那闪电般光辉、饰以黄金、能杀敌的神圣长矛。

8.6.44

यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः ।
अशेत निशितः पत्री समरेष्वरिसूदनः ॥ ८.६.४४ ॥

他那蛇首、神圣、饰以黄金、锋利带羽的箭,在战场上静候,以歼灭敌人。

8.6.45

भीष्मद्रोणमुखान्वीरान्योऽवमत्य महारथान् ।
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥ ८.६.४५ ॥

他轻视以毗湿摩、德罗纳为首的大车战士,从雅玛达格尼(持斧罗摩)处学得了极为可怕的梵天神箭。

8.6.46

यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः ।
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शितैः ॥ ८.६.४६ ॥

那大臂者见德罗纳等人被箭所困而转身败退,便以利箭折断了萨乌跋德罗(阿毗曼尤)的弓。

8.6.47

यश्च नागायुतप्राणां वज्ररंहसमच्युतम् ।
विरथं सहसा कृत्वा भीमसेनमपाहसत् ॥ ८.६.४७ ॥

他突然使不败的毗摩森那(怖军)失去战车——此人有万象之力,迅捷如雷霆——并加以嘲笑。

8.6.48

सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः ।
कृपया विरथं कृत्वा नाहनद्धर्मचिन्तया ॥ ८.६.४८ ॥

他以弯曲箭头的箭也击败了偕天,使其失去战车,却出于怜悯、念及法,没有杀他。

8.6.49

यश्च मायासहस्राणि विकुर्वाणं जयैषिणम् ।
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान् ॥ ८.६.४९ ॥

他以因陀罗之矛杀死了罗刹之主怛铎迦查,此人为求胜利而施展了千百种幻术。

8.6.50

एवांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः ।
नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥ ८.६.५० ॥

阿周那在战场上畏惧多日,未曾前来单独决斗;那位英雄又是如何在战斗中被杀的呢?

8.6.51

संशप्तकानां योधा ये आह्वयन्त सदाऽन्यतः ।
एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे ॥ ८.६.५१ ॥

三战士之众常从另一方挑战:“待我杀尽此辈,然后在战场上杀死维卡尔塔那之子。”

8.6.52

इति व्यपदिशन्पार्थो वर्जयन्सूतजं रणे ।
स कथं निहतो वीरः पार्थेन परवीरहा ॥ ८.६.५२ ॥

如此托辞,阿周那在战场上避开了御者之子——那位杀尽敌方英雄的勇士,又怎会被阿周那所杀?

8.6.53

रथभह्गो न चेत्तस्य धनुर्वा न व्यशीर्यत ।
न चेदस्त्राणि नष्टानि स कथं निहतः परैः ॥ ८.६.५३ ॥

若他的战车未毁,弓未折断,兵器也未失,那他又怎会被敌人所杀?

8.6.54

को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः ।
विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे।
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम् ॥ ८.६.५४ ॥

谁能在战场上战胜迦尔纳——这位人中之虎,迅猛如猛虎,挥动巨弓,射出可怖的箭与神兵?

8.6.55

ध्रवं तस्य धनुश्छिन्नं रथो वाऽपि महीं गतः ।
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम्।
न ह्यन्यदपि पश्यामि कारणं तस्य नाशने ॥ ८.६.५५ ॥

无疑他的弓已断,或他的战车已倒地,或他的兵器已失,正如你所说他已被杀。我看不到他毁灭的其他原因。

8.6.56

न हिन्मि फल्गुनं यावत्तावत्पादौ न धावये ।
इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥ ८.६.५६ ॥

在我杀死法尔古那之前,我不洗脚。那位大德之人的誓言便是如此可怕。

8.6.57

यस्य भीतो रमे निद्रां धर्मराजो युधिष्ठिरः ।
त्रयोदशसमा नित्यं नाभजत्पुरुषर्षभः ॥ ८.६.५७ ॥

因为畏惧他,法王坚战,人中之雄,十三年间始终不曾安眠。

8.6.58

यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः ।
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥ ८.६.५८ ॥

我的儿子倚仗那位勇猛大德之人的威力,强行把般度诸子的妻子带到了议会大厅。

8.6.59

तत्रापि च सभामध्ये पाण्डवानां च पश्यताम् ।
दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ ॥ ८.६.५९ ॥

在那里,就在议会中央,当般度诸子注视之时,在俱卢诸人面前,他称般遮罗之女为'奴隶的妻子'。

8.6.60

न सन्ति तपयः कृष्णे सर्वे षण्डतिलैः समाः ।
उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि ॥ ८.६.६० ॥

克里希那,他们全都如同阉人与芝麻般无用,与你无关。美丽的女子啊,去侍奉另一个丈夫吧。

8.6.61

इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन्रुषा ।
सभायां सूतजः कृष्णां स कथं निहतः परैः ॥ ८.६.६१ ॥

那位昔日在大会上愤怒地对黑公主说出严厉之言的御者之子,究竟如何被敌人杀死?

8.6.62

यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः ।
न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन।
सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः ॥ ८.६.६२ ॥

若好战自矜的毗湿摩或嗜战狂傲的德罗纳出于偏私而不杀俱卢子孙的敌人,哦苏尤陀那,我自己便将杀尽他们;愿你心中的热病消散。

8.6.63

किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी ।
स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः।
स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः ॥ ८.६.६३ ॥

甘狄拔神弓与两只取之不尽的大箭囊又能做什么?那位涂着香檀、肩如公牛、如蚊虫般冲来的人,究竟如何被阿周那杀死?

8.6.64

यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् ।
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥ ८.६.६४ ॥

他不顾从甘狄拔弓射出的猛烈箭矢之触,望着普利塔之子们说道:'哦黑公主,你没有丈夫。'

8.6.65

यस्य नासीद्भयं पार्थात्सपुत्रात्सजनार्दनात् ।
स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ॥ ८.६.६५ ॥

哦,桑闍耶,那位不惧怕阿周那、其子以及生主(克里希那)的人,依靠自己臂膀之力,哪怕片刻……

8.6.66

तस्य नाऽहं वधं मन्ये देवैरपि सवासवैः ।
प्रतीपमभिघावद्भिः किं पुनस्तात पाण्डवैः ॥ ८.६.६६ ॥

我不认为他会因诸神与因陀罗同来敌对进攻而死,更何况是被般度之子所杀,我的孩子啊。

8.6.67

न हि ज्यां संसम्पृशानस्य तलत्रे वाऽपि गृह्णतः ।
पुमानाधिरथेः स्थातुं कश्चित्प्रमुखतोऽर्हति ॥ ८.६.६७ ॥

诚然,握弓持弦的阿提拉陀之子面前,无人能够站立。

8.6.68

अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः ।
न वध- पुरुषेन्द्रस्य संयुगेष्वपलायिनः ॥ ८.६.६८ ॥

即使大地失去日月的光芒,那不在战斗中逃避的人中之主也不会被杀害。

8.6.69

येन मन्दः सहायेन भ्रात्रा दुःशासनेन च ।
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत ॥ ८.६.६९ ॥

这个愚蠢而心术不正的人,借助兄弟难降的帮助,竟然喜欢拒绝婆苏提婆(黑天)。

8.6.70

स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम् ।
दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥ ८.६.७० ॥

我想,他见到肩如公牛的迦尔纳倒下、难降被杀,必定悲痛不已。

8.6.71

हतं वैकर्तनं दृष्ट्वा द्वैरथे सव्यसाचिना ।
जयतः पाण्डवान्दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत् ॥ ८.६.७१ ॥

见到维迦尔塔那(迦尔纳)在单独对决中被萨维亚萨钦(阿周那)杀死,而般度之子获胜,难敌于是说了什么?

8.6.72

दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे ।
प्रभग्रं च बलं दृष्ट्वा वध्यमानं महारथैः ॥ ८.६.७२ ॥

见到难降勇士(杜尔马尔沙那)被杀,又见到毗梨沙犀那被杀,军队溃散,被大车战士们所歼,(难敌说了什么?)

8.6.73

पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान् ।
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥ ८.६.७३ ॥

我看见国王和车战武士背转身子、逃散溃败,我想我的儿子正在悲叹。

8.6.74

अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः ।
हतोत्साहं बलं दृष्ट्वा किंस्विदुर्योधनोऽब्रवीत् ॥ ८.६.७४ ॥

骄傲、不驯、心术不正、不能制伏感官的难敌,看到士气已被摧毁的军队,说了什么?

8.6.75

स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः ।
प्रधने हतभूयिष्ठैः किंस्विद्दुर्योधनोऽब्रवीत् ॥ ८.६.७५ ॥

难敌自己结下大仇,虽有友人劝阻,在战斗中大多数人已阵亡,难敌说了什么?

8.6.76

भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे ।
रुधिरे पीयमाने च किंस्विद्द्रुर्योधनोऽब्रवीत् ॥ ८.६.७६ ॥

难敌看见兄弟在战斗中被怖军杀死,血被饮用,他说了什么?

8.6.77

सह गान्धारराजेन सभायां यदभाषत ।
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥ ८.६.७७ ॥

在会堂里与犍陀罗王一同说过:迦尔纳将在战斗中杀死阿周那;当迦尔纳被杀后,他说了什么?

8.6.78

द्यूतं कृत्वा पुरा हृष्ठो वञ्चयित्वा च पाण्डवान् ।
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥ ८.६.७८ ॥

从前欢喜地赌博并欺骗般度五子的苏波罗之子沙古尼,亲爱的,迦尔纳被杀后,他说了什么?

8.6.79

कृतवर्मा महेष्वासः सात्वतानां महारथः ।
हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत ॥ ८.६.७९ ॥

看到维迦尔坦(迦尔纳)被杀,萨特瓦特族的大弓箭手、大战车手檀多婆·Kṛtavarman(Hārdikya)说了什么?

8.6.80

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते ।
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥ ८.६.८० ॥

聪慧的德罗纳之子(马嘶·Aśvatthāman),brahmin、刹帝利与吠舍都愿意接受他的教导,渴望学习射箭之术。

8.6.81

युवा रूपेण सम्पन्नो दर्शनीयो महायशाः ।
अश्वत्थामा हते कर्णे किमभाषत सञ्जय ॥ ८.६.८१ ॥

年轻、容貌俊美、令人悦目、大名远扬的马嘶(Aśvatthāman),在迦尔纳被杀后说了什么,桑闪亚(Sañjaya)啊?

8.6.82

आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः ।
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥ ८.६.८२ ॥

精通射箭之术的师尊、乔达摩氏族的沙罗陀凡之子、战车手中最杰出的克里帕(Kṛpa),亲爱的,迦尔纳被杀时他说了什么?

8.6.83

मद्रराजो महेष्वासः शल्यः समितिशोभनः ।
दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः।
किमभाषत सौवीरो मद्राणामधिपो बली ॥ ८.६.८३ ॥

摩德罗国王、大弓箭手沙利耶(Śalya)——战场上光耀夺目、战车手中最杰出、曾为迦尔纳御车之人——见迦尔纳被杀,这位索维罗与摩德罗人的强大君主说了什么?

8.6.84

दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः ।
ये च केन राजानः पृथिव्यां योद्वुमागताः।
वैकर्तनं हतं दृष्टवा कान्यभाषन्त सञ्जय ॥ ८.६.८४ ॥

看到迦尔纳被杀,所有如象般不可战胜的武士,以及为与之交战而来到大地上的诸王,桑闪亚啊,他们见维迦尔坦之子被杀后说了什么?

8.6.85

द्रोणे तु निहते वीरे रथव्याघ्रे नरर्षभे ।
के वा मुखमनीकानामासन्सञ्जय भागशः ॥ ८.६.८५ ॥

桑闍耶啊,英雄德罗纳——战车手中的猛虎、人中的雄牛——被杀之后,各军的前列由谁依次把守?

8.6.86

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः ।
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥ ८.६.८६ ॥

桑闍耶啊,马德拉王沙利耶——战车手中的最优者——如何被任命为毗迦尔坦之子迦尔纳的御者?请把此事告诉我。

8.6.87

केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य युध्यतः ।
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥ ८.६.८७ ॥

在那位御者之子作战时,谁守护着右轮,谁守护着左轮?或者,那位英雄身后是谁?

8.6.88

के कर्णं न जहुः शूराः के क्षुद्राः प्राद्रवंस्ततः ।
कथं च वः समेतानां हतः कर्णो महारथः ॥ ८.६.८८ ॥

哪些英雄没有抛弃迦尔纳?哪些卑劣之徒当时逃走了?你们都聚集在一起,大战车手迦尔纳却怎样被杀了?

8.6.89

पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः ।
सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः ॥ ८.६.८९ ॥

般度之子们自己也作为英勇的大战车手挺身而进,如同乌云倾注水流一般,倾泻箭雨。

8.6.90

स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा ।
व्यर्थः कथं समभवत्तन्ममाचक्ष्व स़ञ्जय ॥ ८.६.९० ॥

那支蛇首的神箭,乃大箭中之最,当时怎么竟归于徒劳?桑闍耶啊,请把此事告诉我。

8.6.91

मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥ ८.६.९१ ॥

桑闍耶啊,我这支军队的高度已被打倒;肩峰(统帅)被碾碎之后,我看不到任何残余。

8.6.92

तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवीतौ ।
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥ ८.६.९२ ॥

那两位为我舍命的英雄、大弓箭手毗湿摩与德罗纳已被杀害;听闻此事,我活着还有什么意义?

8.6.93

पुनः पुनर्न मृष्यामि वधं कर्णस्य पाण्डवैः ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ ८.६.९३ ॥

一次又一次,我无法忍受般度之子杀死迦尔纳,他臂力可比百百头大象。

8.6.94

द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह ।
सङ्घामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥ ८.६.९४ ॥

德罗纳被杀之时,桑闍耶啊,请告诉我,在战斗中,考罗婆英雄们与敌人一起发生了什么。

8.6.95

यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत् ।
तथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥ ८.६.९५ ॥

迦尔纳如何与贡蒂之子交战,以及这位杀敌者如何在战斗中归于寂静——愿此事得以述说。