摩诃婆罗多 · 章 8.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.61.1
तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके ।
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम् ॥ ८.६१.१ ॥
当他们之间的大战开始,血水横流之时,大地被鲜血多方浸透,光彩耀目。
8.61.2
ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत् ।
एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत्।
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥ ८.६१.२ ॥
尘埃落定之后,四处明亮起来。此时,克里希那对阿周那说了这番话,仿佛在指示贡蒂之子、法王坚战。
8.61.3
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः ।
जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते ॥ ८.६१.३ ॥
般度之子啊,你的兄弟般遮(阿周那)正被持弓的大力难敌等人迅速追赶,他们渴望杀死他。
8.61.4
तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत ।
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः ॥ ८.६१.४ ॥
婆罗多啊,般遮罗、遮提和摩差人也快速跟随着他,渴望保护这位大德之人。
8.61.5
एष दुर्योधनः पार्थ गजानीकेन दंशितः ।
राजा सर्वस्य लोकस्य राजानमनुधावति ॥ ८.६१.५ ॥
般遮啊,那难敌身披象军铠甲,正追赶世界之王坚战。
8.61.6
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली ।
आशीविषसमस्पर्शैः सर्वायुधविशारदैः ॥ ८.६१.६ ॥
他渴望杀死人中之虎,强大的他与兄弟们一同前来。他们的触碰如同毒蛇,精通一切兵器。
8.61.7
नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान् ।
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च ॥ ८.६१.७ ॥
如狮吼般咆哮,吹响海螺,强大的大弓手们挥动弓弦。
8.61.8
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः ।
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः ॥ ८.६१.८ ॥
这些象兵、骑兵、战车兵与步兵前行,欲擒住坚战,如同求取至上宝石的人一样,那是持国之子。
8.61.9
पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः ।
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे ॥ ८.६१.९ ॥
看那些被萨特瓦塔与怖军阻挡、又重新列阵的人,如同在战中被因陀罗与火神所阻、欲夺甘露的阿修罗。
8.61.10
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् ।
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ॥ ८.६१.१० ॥
这些大车兵因人数众多,又急速奔向般度之子,如雨季的水流奔向大海。
8.61.11
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् ।
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम् ॥ ८.६१.११ ॥
我想,贡蒂之子坚战已入死亡之口,而那贡蒂之子已落入难敌的掌控,成为火中的祭品。
8.61.12
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव ।
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ॥ ८.६१.१२ ॥
般度之子啊,持国之子的军队已布置得当;落入其箭矢射程之内者,即便是因陀罗也无法脱身。
8.61.13
दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः ।
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥ ८.६१.१३ ॥
在战场上,英雄难敌迅速射出箭雨,如同震怒的死神,谁能承受他的威势?
8.61.14
रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च ।
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत् ॥ ८.६१.१४ ॥
那咆哮的英雄——德罗纳之子、沙罗特婆多(克里帕)与迦尔纳的箭势,实能摧毁群山。
8.61.15
कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते ॥ ८.६१.१५ ॥
国王(坚战)被迦尔纳逼得背转身去,今日可见他已转身败退。
8.61.16
बलवाँल्लुघुहस्तश्च कृती युद्धविशारदः ।
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे।
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः ॥ ८.६१.१६ ॥
迦尔纳(罗陀之子)力量强大、手法敏捷、技艺娴熟、精通战阵,与持国的大力勇士诸子同心,能够在战场上压制般度诸子中的最优者。
8.61.17
तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः ।
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः ॥ ८.६१.१७ ॥
他与这些人在战阵中奋战,那位令人称道之人与其他大车战士,也完成了普利塔之子(阿周那)的功业。
8.61.18
उपवासकृशो राजा भृशं भरतसत्तमः ।
ब्राह्मो बले स्थितो ह्येष न क्षात्रे हि बले विभुः ॥ ८.६१.१८ ॥
这位国王因斋戒而极度消瘦,是婆罗多之最优者,他确实依靠婆罗门之力而立;此大能者并非依靠刹帝利之力。
8.61.19
कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः ।
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः ॥ ८.६१.१९ ॥
这位被迦尔纳攻击的国王,敌人的烧灼者,般度之子坚战,确实陷入了危境。
8.61.20
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः ।
यद्भीमसेनः सहते सिंहनादममर्षणः ॥ ८.६१.२० ॥
我想伟大的国王、普利塔之子坚战已经不在人世,因为不能忍受的毗摩森那仍在忍受狮子般的吼声。
8.61.21
नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः ।
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ॥ ८.६१.२१ ॥
当持国之子们在战场上不断咆哮,吹响大螺号,自以为已经获胜时,啊,征服敌人者!
8.61.22
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ ।
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥ ८.६१.२२ ॥
婆罗多之雄啊,这位迦尔纳煽动强大的持国之子说:「般度之子坚战已被杀死!」
8.61.23
स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च ।
प्रच्छादयन्ति राजानमनुयान्ति महारथाः ॥ ८.६१.२३ ॥
他们以斯图纳卡尔纳箭网和帕尔塔的帕舒帕塔武器遮蔽国王,大战车勇士们紧紧追赶他。