Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.63.1

निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥ ८.६३.१ ॥

当般度之子怖军与坚战退去,而我的军队正被般度之子与娑珊遮人所杀之时,

8.63.2

द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः ।
अवशेषं न पश्यामि मम सैन्येषु सञ्जय ॥ ८.६३.२ ॥

军队溃逃,一再徒然呼号,桑贾亚啊,我看不到我的军队中还剩下什么。

8.63.3

अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम् ।
जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम् ॥ ८.६३.३ ॥

唉!落到这般境地,我必定无法再活下去。御者啊,没有那些渴望胜利、从不退缩的儿子,我如何能活?

8.63.4

कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान् ।
बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम् ॥ ८.६३.४ ॥

听闻我的士兵已被杀死,我如何能活?今日何须多言,命运便是他们最后的归宿。

8.63.5

मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ ८.६३.५ ॥

我的人做了什么?桑贾亚啊,请告诉我。

8.63.6

दृष्ट्वा भीमं महाबाहुं तव पुत्रः प्रतापवान् ।
क्रोधरक्तेक्षणो राजन्भीमसेनमभिद्रवत् ॥ ८.६३.६ ॥

大王啊,您那勇猛的儿子见到臂力强大的怖军,怒目通红,便向怖军冲去。

8.63.7

तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम् ।
अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्राते।
इत्युक्त्वा प्रययौ कर्णो यत्र भीमो व्यवस्थितः ॥ ८.६३.७ ॥

“站住,站住,普利塔之子!今日看我的勇力。今日我要把你送往阎摩的住所。”说罢,迦尔纳便向毗摩所在之处走去。

8.63.8

तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।
यत्नेन महता कर्णः पर्यवस्थापयद्बली ॥ ८.६३.८ ॥

然而,见你的军队背离毗摩森那而逃,有力的迦尔纳费尽大力使其重新站稳。

8.63.9

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥ ८.६३.९ ॥

整顿好你儿子的军队之后,大臂的迦尔纳便向沉醉于战斗之傲的般度诸子进发。

8.63.10

प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः ।
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥ ८.६३.१० ॥

般度诸子的大车武士迎上了罗陀之子迦尔纳,在战场上挥动弓弦、射出箭矢。

8.63.11

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥ ८.६३.११ ॥

毗摩森那、西尼之孙(萨谛耶吉)、尸干底、阇那美阇耶、有力的德里斯塔祖姆纳,以及所有的普罗跋陀罗迦。

8.63.12

पाञ्चालानां नरव्याघ्राः समन्तात्त्व वाहिनीम् ।
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ॥ ८.६३.१२ ॥

般遮罗族中的人中猛虎,愤怒满胸,渴望在战斗中获胜,从四面八方扑向你的军队。

8.63.13

तथैव तावका राजन्पाण्डवानामनीकिनीम् ।
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान् ॥ ८.६३.१३ ॥

大王啊,你的战士们同样急速冲向般度之子的军队,想要杀死那些大车战士。

8.63.14

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥ ८.६३.१४ ॥

人中之虎啊,那支军队挤满了战车、象和马,遍布步兵与旌旗,成为奇异的景象。

8.63.15

शिखण्डी तु ययौ कर्णं धृष्टद्युम्नः सुतं तव ।
दुःशासनं महाराज महासेनः समभ्ययात् ॥ ८.६३.१५ ॥

始迦狄向迦尔纳进发,猛光攻向你的儿子难近。大王啊,大军也发动了进攻。

8.63.16

नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः ।
उलूकं समरे राजन्सहदेवः समभ्ययात् ॥ ८.६३.१६ ॥

无种攻向毗利沙犀那,坚战攻向奇使那。大王啊,偕天在战场上攻向乌卢迦。

8.63.17

सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान् ।
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः ॥ ८.६३.१७ ॥

萨提亚其攻向沙恭尼,德罗波蒂的诸子攻向俱卢族人,而大车战士、德罗纳之子则在战场上整装待发,攻向阿周那。

8.63.18

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥ ८.६३.१८ ॥

瞿答摩(克里巴)在战场上扑向大弓手优陀摩尼优,而强大的求多婆摩则冲向优多摩乔阇。

8.63.19

भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष ।
सहानीकान्महाबाहुरेक एव न्यवारयत् ॥ ८.६३.१९ ॥

大王啊,臂力强大的毗摩娑那独自一人阻挡了所有俱卢人和你的儿子们及其军队。

8.63.20

शिखण्डी तु ततः कर्णं विचरन्तमभीतवत् ।
भीष्महन्ता महाराज वारयामास पत्रिभिः ॥ ८.६३.२० ॥

大王啊,那时杀死毗湿摩的始建底用箭阻挡了无所畏惧地驰骋的迦尔纳。

8.63.21

प्रतिरुद्धस्ततः कर्णो रोपात्प्रस्फुरिताधरः ।
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत् ॥ ८.६३.२१ ॥

于是被阻挡的迦尔纳怒得嘴唇颤抖,用三支箭射中始建底的两眉之间。

8.63.22

धारयंस्तु स तान्वाणाञ्शिखण्डी बह्वशोभत ।
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥ ८.६३.२२ ॥

始建底身上插着那些箭,光彩夺目,如同一座有三峰的白银山。

8.63.23

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।
कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥ ८.६३.२३ ॥

那位大弓手被御者之子在战斗中重创,却用九十支利箭射穿了迦尔纳。

8.63.24

तस्य कर्णो हयान्हत्वा सारथिं च शरैः ।
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥ ८.६३.२४ ॥

迦尔纳杀死了他的马,用箭射倒了御者,这位大车将又以刃形箭斩断了他的旗帜。

8.63.25

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ॥ ८.६३.२५ ॥

马匹被杀后,这位大车战士跳下战车,愤怒地向迦尔纳投掷长矛,他是敌人的折磨者。

8.63.26

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥ ८.६३.२६ ॥

婆罗多啊,战斗中迦尔纳以三支箭将其斩断,随后又以九支利箭射中了湿婆坎迪。

8.63.27

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः ॥ ८.६३.२७ ॥

避开迦尔纳弓上射出的箭,人中之杰湿婆坎迪身受重伤,迅速撤退了。

8.63.28

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।
तूलराशिं समासाद्य यथा वायुर्महाबलः ॥ ८.६३.२८ ॥

大王啊,此时迦尔纳击倒了般度的军队,正如大力的风吹到一堆棉花上将其吹散。

8.63.29

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ८.६३.२९ ॥

大王啊,被您之子所困扰的猛光,以三支箭射中了难降的胸膛。

8.63.30

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।
स तेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥ ८.६३.३० ॥

尊者啊,难降射穿了他的左臂;而他以那支饰有金羽、节部弯曲的钺箭……

8.63.31

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।
दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ॥ ८.६३.३१ ॥

然而,被射中的德里色塔姆那怀着愤怒,向难敌之弟难降射出一支可怕的箭,婆罗多啊。

8.63.32

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् ।
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते ॥ ८.६३.३२ ॥

德里色塔姆那射来的那支疾速飞来的箭,你的儿子只用三支箭便将其射断了,人主啊。

8.63.33

अथापरैः षोडशभिर्भल्लैः कनकभूषणैः ।
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत् ॥ ८.६३.३३ ॥

随后,他以另外十六支金饰的薄刃箭靠近德里色塔姆那,射中了他的双臂和胸膛。

8.63.34

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष ।
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥ ८.६३.३४ ॥

于是愤怒的般沙塔之子,主人啊,用一支极为锋利的剃刀头箭斩断了他的弓,人们大声呼喊起来。

8.63.35

अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव ।
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥ ८.६३.३५ ॥

于是你的儿子拿起另一把弓,仿佛在笑,用密集的箭雨从四面八方包围了德里色塔姆那。

8.63.36

तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः ।
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसस्तथा ॥ ८.६३.३६ ॥

看到你那位大德之子的勇力,战场上的战士们都惊叹不已,悉陀和天女也同样惊叹。

8.63.37

धृष्टद्युम्नं तु पश्याम घटमानं महाबलम् ।
दुःशासनेन संरुद्धं सिंहेनेव महागजम् ॥ ८.६३.३७ ॥

我们看见大力的德里斯塔迪优姆那奋力作战,但难降(杜尚沙那)阻拦了他,如同狮子阻住大象。