Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.64.1

ततः सरथनागाश्वाः पाञ्चालाः पाण्डुसृञ्जयाः ।
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव ॥ ८.६४.१ ॥

于是般遮罗、般度族与苏珊阳人,携战车、象、马,欲护卫统帅,包围了你的儿子。

8.64.2

ततः प्रववृते युद्वं तावकानां परैः सह ।
घोरं प्राणभृतां काले भीमरूपं परन्तप ॥ ८.६४.२ ॥

于是你的部众与敌人之间爆发了可怕的战斗,其景象对众生而言如死神般骇人,哦,敌人的焚烧者。

8.64.3

नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः ।
पितुः समीपे तिष्ठन्तं त्रिभिरन्त्यैरविध्यत ॥ ८.६४.३ ॥

那कुल以五支铁箭射中站在父亲身边的伐尔沙塞那,随后又以三支最后的箭再次射中他。

8.64.4

नकुलं तु ततः शूरो वृषसेनो हसन्निव ।
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम् ॥ ८.६४.४ ॥

勇猛的伐尔沙塞那仿佛在笑,以极锋利的那罗遮箭深深射中那कुल的胸膛。

8.64.5

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शन ।
शत्रुं विव्याध विंशत्या सूतं चैवास्य सप्तभिः ॥ ८.६४.५ ॥

哦,降伏敌人者!他被强大的敌人重创,便以二十支箭射中敌人,以七支箭射中其御者。

8.64.6

ततः शरसहस्रेण तावुभौ पुरुषर्षभौ ।
अन्योन्यमाच्छादयतां तवाभज्यत वाहिनी ॥ ८.६४.६ ॥

于是这两位人中雄牛以千支箭互相遮蔽,你的军队溃散了。

8.64.7

स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः ।
निवारयामास बलादनुपत्य विशाम्पते ॥ ८.६४.७ ॥

此时,御者之子见持国之子的军队溃逃,便追赶上去,强行将其阻止,哦,人民之主。

8.64.8

एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते ।
निवृत्ते तु ततः सैन्ये नकुलः कौरवान्ययौ ॥ ८.६४.८ ॥

其间发生了激烈的战斗,哦,人民之主。随后军队返回,那古拉向俱卢人进发。

8.64.9

कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु ।
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष ॥ ८.६४.९ ॥

然而迦尔那之子在战斗中舍弃那古拉,急忙护卫罗陀耶(迦尔那)的车轮,哦,尊者。

8.64.10

उलूकस्तु रणे क्रुद्धः सहदेवेन मारिष ।
निवारितः शरशतैः क्रुद्धेन रणमूर्धनि ॥ ८.६४.१० ॥

然而乌卢迦在战斗中愤怒,哦,尊者,在战阵前沿被愤怒的萨诃提婆以数百支箭所阻。

8.64.11

तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ ८.६४.११ ॥

萨诃提婆杀死其四匹马,这位威猛的英雄便将御者送往阎摩的居所。

8.64.12

उलूकस्तु ततो यानादवप्लुत्य विशाम्पते ।
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः ॥ ८.६४.१२ ॥

于是乌卢迦从战车上跃下,哦,人民之主,迅速前往三摩竭国之军,他是毗黎之子。

8.64.13

सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः ।
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ ८.६४.१३ ॥

萨提亚基以二十支利箭射穿沙古尼,仿佛含笑般,用一支月牙箭斩断了苏跋罗之子的旗帜。

8.64.14

सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् ।
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥ ८.६४.१४ ॥

大王,苏跋罗在战中愤怒而威猛,撕开他的甲胄,又斩断了他的金色旗帜。

8.64.15

तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत ।
सारथिं च महाराज त्रिभिरेव समार्पयत् ॥ ८.६४.१५ ॥

萨提亚基同样以利箭反射穿了他,大王啊,并用三支箭射中了他的御者。

8.64.16

अथास्य वाहांस्त्वरितः शरैर्नित्ये यमक्षयम् ।
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ॥ ८.६४.१६ ॥

随即他迅速以箭将其马匹送往阎摩之所;然后,沙古尼突然跃下,婆罗多族的雄牛啊。

8.64.17

आरुरोह रथं तूर्णमुलूकस्य महात्मनः ।
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥ ८.६४.१७ ॥

他迅速登上了高尚的乌卢迦的战车;随后便迅速远离了精通战斗的室尼耶(萨提亚基)。

8.64.18

सात्यकिस्तु रण राजंस्तावकानामनीकिनीम् ।
अभिदुद्राव वेगेन ततोऽनीकमभज्वत ॥ ८.६४.१८ ॥

然而萨提亚基,大王啊,在战场上迅速冲向你的军队,于是那支军队溃散了。

8.64.19

शैनेयशरसञ्छन्नं तव सैन्यं विशाम्पते ।
भेजे दशा दिशस्तूर्णं न्यपतच्च गतासुवत् ॥ ८.६४.१९ ॥

人主啊,被尸尼之裔的箭雨覆盖的你的军队,迅速向十方溃逃,倒下如同死人。

8.64.20

भीमसेनं तव सुतो वारयामास संयुगे ॥ ८.६४.२० ॥

你的儿子在战斗中阻挡了婆罗多瑟那(Bhīmasena)。

8.64.21

तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ।
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः ॥ ८.६४.२१ ॥

然而毗摩在片刻之间使他失去马匹、御者、战车与旗帜,并在那里使他成为世界之主(死亡之主);人们因此真的欢喜。

8.64.22

ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः ।
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत्।
तत्र नादो महानासीद्धीमसेनं जिघांसताम् ॥ ८.६४.२२ ॥

于是那位国王因畏惧毗摩森那而从那里逃走。随后整个俱卢军队冲向毗摩森那,那些想要杀害毗摩森那的人发出了巨大的喧嚣。

8.64.23

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे ।
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः।
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ॥ ८.६४.२३ ॥

犹陀摩尤射中克里帕,迅速斩断了他的弓。于是持械者中的最优者克里帕取来另一把弓,使犹陀摩尤的旗帜、御者和华盖都坠落在地。

8.64.24

ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥ ८.६४.२४ ॥

于是大车将犹陀摩尤乘着自己的战车逃走了。

8.64.25

उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम् ।
छादयामास सहसा मेघो वृष्ट्येव पर्वतम् ॥ ८.६४.२५ ॥

乌达玛奥迦与希尔第迦之子突然围住了威力可怖的怖军,犹如乌云以雨覆盖山岳。

8.64.26

तद्युद्धमासीत्सुमहद्धोररूपं परन्तप ।
तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते ॥ ८.६४.२६ ॥

那场战斗极为宏大,形貌可怖,啊,敌人的降服者;如此的战斗,我以前从未见过,啊,民之主。

8.64.27

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे ।
हृदि विव्याध सहसा रथोपस्थ उपाविशत् ॥ ८.६४.२७ ॥

随后,大王啊,克利塔瓦尔曼在战斗中突然击中乌达玛奥迦的胸膛,并坐在战车的座位上。

8.64.28

सारथिस्तमपोवाह रथेन रथिनां वरम् ।
ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत् ॥ ८.६४.२८ ॥

他的御者驾着战车带走了诸车士中的佼佼者;随后,大王啊,萨特瓦塔(萨提亚基)冲向般度军。

8.64.29

दुःशासनः सौबलश्च गजानीकेन पाण्डवम् ।
महता परिवार्यैव क्षुद्रकैरभ्यताडयत् ॥ ८.६४.२९ ॥

难降与苏巴拉之子(沙恭尼)以庞大的象军包围般度之子,以小部队打击他。

8.64.30

ततो भीमः शरशतैर्दुर्योधनममर्षणम् ।
विमुखीकृत्य तरसा गजानीकमुपाद्रवत् ॥ ८.६४.३० ॥

于是怖军以数百支箭使愤怒的难敌转身退避,迅速冲向象军。

8.64.31

तमापतन्तं सहसा गजानीकं वृकोदरः ।
दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत् ॥ ८.६४.३१ ॥

维柯多罗见一群象兵突然冲来,怒不可遏,便发出了神圣的武器。

8.64.32

गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान् ॥ ८.६४.३२ ॥

如因陀罗以金刚杵击杀阿修罗,他以象攻象,击杀了众象。

8.64.33

ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम् ।
छादयामास समरे गजान्निघ्नन्वृकोदरः ॥ ८.६४.३३ ॥

于是维柯多罗在战中击杀群象,以箭雨遮蔽天空,如蝗虫覆盖树木一般。

8.64.34

ततः कुञ्जरयूथानि समेतानि सहस्रशः ।
व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः ॥ ८.६४.३४ ॥

于是毗摩以疾速驱散成千上万聚集的象群,如风吹散云团。

8.64.35

सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः ।
रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः ॥ ८.६४.३५ ॥

披着金网与宝珠网的象群在战场上光芒万丈,宛如带着闪电的云。

8.64.36

ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः ।
केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि ॥ ८.६४.३६ ॥

大王!那些被毗摩击中的象逃散了;有些象心脏被刺穿,倒在地上。

8.64.37

पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः ।
अशोभत मही तत्र विशीर्णैरिव पर्वतैः ॥ ८.६४.३७ ॥

倒下和正在倒下的金饰象群使那里的大地如同崩裂的山峰一般闪耀。

8.64.38

दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः ।
रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः ॥ ८.६४.३८ ॥

闪亮镶宝的象兵倒地,大地如同功德耗尽而坠落的星辰般闪耀。

8.64.39

ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा ।
दुद्रुवुः शतशः संख्ये भीमसेनशराहताः ॥ ८.६४.३९ ॥

于是数百头太阳穴和额头裂开的象,在战场上被怖军的箭射中,纷纷逃散。

8.64.40

केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः ।
व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः ॥ ८.६४.४० ॥

有些象吐着血,因恐惧而痛苦,形如山岳,肢体被箭射穿,如同染有矿物色彩的山峰般奔逃。

8.64.41

महाभुजगसङ्काशौ चन्दनागुरुरूषितौ ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥ ८.६४.४१ ॥

如同大蛇,涂着檀香与沉香,我看见怖军的双臂正挥动弓弦。

8.64.42

तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम् ।
विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम् ॥ ८.६४.४२ ॥

听到他弓弦的响声如雷霆一般,象群排泄粪便,猛烈地奔逃而去。

8.64.43

भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः ।
निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ ॥ ८.६४.४३ ॥

大王啊,智慧的毗摩娑那独自一人的那番壮举,犹如毁灭一切众生的楼陀罗一般光芒四射。