Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.67.1

द्रौणिस्तु रथवंशेन महता परिवारितः ।
अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः ॥ ८.६७.१ ॥

散阇耶说:大王,德罗纳之子被大群战车环绕,突然冲向站立着的般度之子(阿周那)所在之处。

8.67.2

तमापतन्तं सहसा शूरः शौरिसहायवान् ।
दधार समरे पार्थो वेलेव मकरालयम् ॥ ८.६७.२ ॥

那位有沙利(克里希那)为助的英雄般度之子,在战场上阻挡了突然冲向他的人,正如海岸阻挡栖息着摩竭鱼的大海。

8.67.3

ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् ।
अर्जुनं वासुदेवं च च्छादयामास सायकैः ॥ ८.६७.३ ॥

大王啊,于是愤怒而威武的德罗纳之子,用箭遮蔽了阿周那和婆苏提婆(克里希那)。

8.67.4

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥ ८.६७.४ ॥

看见两位克里希那在那里被遮蔽,大车战士和库鲁人感到极大的惊异,于是注视着。

8.67.5

अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।
तदस्त्रं वारयामास ब्राह्मणो युधि भारत ॥ ८.६७.५ ॥

于是阿周那仿佛含笑地施放神圣的兵器;婆罗多啊,他在战斗中挡开了那位婆罗门(德罗纳之子)的兵器。

8.67.6

यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया ।
तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह ॥ ८.६७.६ ॥

无论法尔古那(阿周那)在战斗中以杀意掷出什么兵器,大弓手德罗纳之子都以自己的兵器将其击败。

8.67.7

अस्त्रयुद्धे महाराज वर्तमाने महाभये ।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥ ८.६७.७ ॥

大王啊,在武器之战以巨大恐怖进行之时,我们在战场上看见德罗纳之子,如张口的死神。

8.67.8

स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः ।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥ ८.६७.८ ॥

他以笔直的箭遮蔽了诸方与次方,用三支箭射穿了婆苏提婆(克里希那)的右臂。

8.67.9

ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान् ।
चकार समरे भूमिं शोणितौघपरिप्लुताम्।
सर्बलोकवहां रौद्रां परलोकवहां नदीम् ॥ ८.६७.९ ॥

此后,阿周那杀尽他的全部战车与随从步兵,使战场变成一条可怖的河流,淹没于血流之中,载着一切世界,送往另一个世界。

8.67.10

सरथा रथिनः पेतुः पार्थचापच्युतैः शरैः ॥ ८.६७.१० ॥

战车武士连同战车倒下,被从帕尔塔之弓射出的箭所击中。

8.67.11

द्रौणेरपहतान्सङ्खे ददृशु स च तां तथा ।
प्रावर्तयन्महाघोरां नदीं परवहां तदा ॥ ८.६७.११ ॥

他们看见被德罗纳之子在战场上击倒的人,他也看见了;于是他们让那可怖至极、通往另一世界的河流奔涌起来。

8.67.12

तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे ।
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः ॥ ८.६७.१२ ॥

在德罗纳之子与帕尔塔那场可怖而混乱的战斗中,不顾法度而战的人从背后奔逃而来。

8.67.13

रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः ।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥ ८.६७.१३ ॥

战车的马匹与御者皆被杀,马与象的骑士被杀,象的大驭者与象皆被杀。

8.67.14

पार्थेन समरे राजन्कृतो घोरो जनक्षयः ।
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ॥ ८.६७.१४ ॥

大王啊,在战斗中,般度之子(阿周那)造成了可怕的人员屠杀;被从般度之子的弓上射出的箭射死的战车武士纷纷倒下。

8.67.15

हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ।
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः ॥ ८.६७.१५ ॥

马匹脱去轭和缰绳,四处奔跑。战场上闪耀的德罗纳之子(马嘶摩)见到般度之子的那一功绩……

8.67.16

अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान् ।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥ ८.६७.१६ ॥

他迅速来到胜利者中最优秀的阿周那面前,这位勇士挥动着他那镶金的大弓。

8.67.17

अवाकिरत्ततो द्रौमिः समन्तान्निशितैः शरैः ।
भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ॥ ८.६७.१७ ॥

于是德罗纳之子从四面八方倾泻锐利的箭雨。大王啊,德罗纳之子又拉开一支带羽的箭,向阿周那射去。

8.67.18

वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम् ।
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ॥ ८.६७.१८ ॥

他毫不留情地猛击般度之子的胸膛。婆罗多啊,阿周那在战斗中被德罗纳之子重创,他……

8.67.19

गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः ।
सञ्छाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम् ॥ ८.६७.१९ ॥

持甘狄拔弓的高尚心志的阿周那在战斗中猛烈地以箭雨遮蔽德罗纳之子,并斩断了他的弓。

8.67.20

स च्छिन्नधन्वा परिधं वज्रस्पर्शसमं युधि ।
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने ॥ ८.६७.२० ॥

弓已断,德罗纳之子拿起一根如同金刚杵触感般的铁杵,在战斗中投向戴冠的阿周那。

8.67.21

तमापन्ततं परिघं जाम्बूनदपरिष्कृतम् ।
चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः ॥ ८.६७.२१ ॥

大王啊,般度之子仿佛含笑般,立即斩断了那根装饰着金饰、扑面而来的铁杵。

8.67.22

स पपात तदा भूमौ निकृत्तः पार्थसायकैः ।
विकीर्णः पर्वतो राजन्यथा वज्रेण ताडितः ॥ ८.६७.२२ ॥

大王啊,他被阿周那的箭射断,随即倒在地上,如同被金刚杵击中的山岳般四散崩裂。

8.67.23

ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः ।
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत् ॥ ८.६७.२३ ॥

于是,大王啊,愤怒的大车将德罗纳之子以因陀罗神箭的力量,向毗跋蹉(阿周那)倾泻箭雨。

8.67.24

तस्येन्द्रजालावततं समीक्ष्य ।
पार्थो राजन्गाण्डिवमाददे सः।
ऐन्द्रं जालं प्रत्यहरत्तरस्वी ।
वरास्त्रमादाय महेन्द्रसृष्टम् ॥ ८.६७.२४ ॥

大王啊,阿周那见到他的因陀罗幻网铺开,便拿起甘狄拔弓;这位迅捷的英雄取过摩亨陀罗所放的殊胜神箭,将因陀罗之网挡回。

8.67.25

विदार्य तज्जालमथेन्द्रमुक्तं ।
पार्थस्ततो द्रौणिरथं क्षणेन।
प्रच्छादयामास ततोऽभ्युपेत्य ।
द्रौणिस्तदा पार्थशराभिभूतः ॥ ८.६७.२५ ॥

帝释所说的那张网被撕破后,般度之子在瞬间遮蔽了德罗纳之子的战车。此时德罗纳之子被阿周那的箭所压制,便上前……

8.67.26

विगाह्य तां पाण्डवबाणवृष्टिं ।
शरैः परं नाम ततः प्रकाश्य।
शतेन कृष्णं सहसाभ्यविद्ध्या… ।
त्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम् ॥ ८.६७.२६ ॥

他冲入般度族的箭雨之中,随后报出自己的名字,突然以百箭射中黑天……并以三百支小箭射向阿周那……

8.67.27

ततोऽर्जुनः सायकानां शतेन ।
गुरोः सुतं मर्मसु निर्बिभेद।
अश्वांश्च सूतं च तथा धनुर्ज्या… ।
मवाकिरत्पश्यतां तावकानाम् ॥ ८.६७.२७ ॥

于是阿周那以百支箭射穿了老师(德罗纳)之子的要害,并在你方众人眼前,将马匹、御者与弓弦……纷纷射散。

8.67.28

स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ८.६७.२८ ॥

那位般度之子,敌方英雄的杀手,射穿了德罗纳之子的要害,并以一支钵罗箭将他的御者从车座上射落。

8.67.29

स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः ।
तत्राद्भुतमपरश्याम द्रौणेराशु पराक्रमम् ॥ ८.६७.२९ ॥

他亲自掌控马匹,并以箭矢遮蔽了两位黑天(黑天与阿周那);在那里,我们惊异地看到了德罗纳之子迅猛的勇武。

8.67.30

संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत् ।
तदस्य समरे राजन्सर्वभूतान्यपूजयन् ॥ ८.६७.३० ॥

他一边控制马匹,一边也与法尔古那(阿周那)交战。大王啊,战场上的一切众生都赞叹了他的那一功绩。

8.67.31

तेनास्य समरे योधास्तुष्टुवुः सर्व एव ते ।
यदा निजगृहे पार्थो द्रोणपुत्रेण धन्विना ॥ ८.६७.३१ ॥

当德罗纳之子、弓箭手马嘶(Aśvatthāman)在战场上阻挡了普利塔之子(阿周那)时,众武士都因此赞美他。

8.67.32

तदा प्रहस्य बीभस्तुर्द्रोणपुत्रस्य संयुगे ।
क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥ ८.६७.३२ ॥

于是毗巴特苏(阿周那)笑着,在战斗中用刀刃形的箭迅速斩断了德罗纳之子的缰绳和马匹,取得了胜利。

8.67.33

प्राद्रवंस्तुरगास्तस्य शरवेगप्रपीडिताः ।
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत ॥ ८.६७.३३ ॥

他的马被箭的速度所困扰而逃窜。那时,婆罗多啊,你的军队中爆发出可怕的喧嚣。

8.67.34

पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन् ।
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥ ८.६७.३४ ॥

般度之子获得胜利后,从四面八方冲向你的军队,射出锐利的箭矢,渴望取胜。

8.67.35

तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः ।
पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः ॥ ८.६७.३५ ॥

你这支四军的大军,被渴望胜利的般度英雄们一次又一次地击溃。

8.67.36

पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।
शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते ॥ ८.६७.३६ ॥

大王啊,当你那些奇异的武士之子们观看时,当苏巴拉之子沙古尼与迦尔纳观看时,人主啊。

8.67.37

वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।
न चातिष्ठत सङ्ग्रामे पीड्यमाना समन्ततः ॥ ८.६७.३७ ॥

人主啊,那支被你的儿子们阻拦的大军在战场上无法站稳,四面受到逼迫。

8.67.38

ततो योधैर्महाराज पलायद्भिः समन्ततः ।
अभवद्य्वाकुलं भीतं पुत्राणां ते महद्बलम् ॥ ८.६७.३८ ॥

于是,大王啊,你的儿子们那支庞大的军队因战士四散奔逃而慌乱惊恐。

8.67.39

तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः ।
नावतिष्ठति सा सेना वध्यमाना महात्मभिः ॥ ८.६७.३९ ॥

御者之子不停地高喊:“站住,站住!”然而那支被大丈夫们击打的军队仍不肯停下。

8.67.40

अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः ॥ ८.६७.४० ॥

于是,大王啊,那些已征服迦尸的般度诸子看到持国之子的大军四散奔逃,便发出了高声的呼喊。

8.67.41

ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव ।
पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम् ॥ ८.६७.४१ ॥

于是难敌出于关切对迦尔纳说:“迦尔纳啊,看看这支被般度诸子深深重创的大军吧。”

8.67.42

त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते ।
एतज्ज्ञत्वा महाबाहो कुरु प्राप्तमरिन्दम ॥ ८.६७.४२ ॥

“你虽站立,这支军队仍因恐惧而四面逃散。知道了这一点,大臂者啊,征服敌人的人啊,请做应当做的事吧。”

8.67.43

सहस्राणि च योधानां त्वामेव पुरुषोत्तम ।
क्रोशन्ते समरे वीर द्राव्यमाणानि पाण्डवैः ॥ ८.६७.४३ ॥

最优秀的人啊,英雄啊,在战场上被般度之子驱赶的成千上万的战士,只向你呼喊。

8.67.44

एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् ।
मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव ॥ ८.६७.४४ ॥

罗陀之子迦尔纳听了难敌的这番大话,仿佛含笑一般,对摩德罗国王说了这番话。

8.67.45

पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ॥ ८.६७.४५ ॥

人主啊,请看我双臂的威力与我的兵器;今日我将在战场上与般度之子一同杀尽所有般遮罗人。

8.67.46

वाहयाश्वान्नरव्याघ्र मद्राधिप न संशयः ।
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ॥ ८.६७.४६ ॥

人中猛虎、摩德罗之主啊,驾马前行,毫无疑问。大王,如此说罢,威猛的御者之子……

8.67.47

प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः ॥ ८.६७.४७ ॥

英雄拿起名为胜利的古老而最好的弓;大王啊,他为弓上弦,并反复擦拭……

8.67.48

सन्निवार्य च तान्योधान्सत्येन शपथेन च ।
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥ ८.६७.४८ ॥

他以真实与誓言制止了那些战士,无量心志的大力者施放了婆迦婆(持斧罗摩)之箭。

8.67.49

तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥ ८.६७.४९ ॥

因此,大王啊,成千上万、千万、亿万的利箭在那场大战中射出。

8.67.50

ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः ।
सञ्चन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ॥ ८.६७.५० ॥

被那些燃烧的、可怕的、以鹤与孔雀羽毛装饰的箭遮蔽的般度军,已无法辨认任何东西。

8.67.51

हाहाकारो महानासीत्पाण्डवानां विशाम्पते ।
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥ ८.६७.५१ ॥

般度之子之中升起巨大的哀号,人主啊,他们在战斗中被强大的婆利古之箭所折磨。

8.67.52

निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः ।
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः ॥ ८.६७.५२ ॥

大王啊,人中猛虎啊,象、马、车和人成千上万地从四面倒下。

8.67.53

प्राकम्पत मही राजन्निहतैस्तैः समन्ततः ।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥ ८.६७.५३ ॥

大王啊,那些被杀者使大地从四面震动;般度之子的整个大军陷入混乱。

8.67.54

कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।
दहञ्शत्रून्नरव्याघ्रः शुशुभे स परन्तपः ॥ ८.६७.५४ ॥

唯有迦尔纳是诸武士中最优秀的,如同无烟之火,焚烧敌人——那人中猛虎,敌人的灼烧者,光芒四射。

8.67.55

ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह ।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ॥ ८.६७.५५ ॥

被迦尔纳杀戮的般遮罗人与切迪人,在此处彼处惊慌失措,犹如森林大火中的大象。

8.67.56

चुक्रुशुश्च नरव्याघ्र यथाप्राणं नरोत्तमाः ।
तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि ॥ ८.६७.५६ ॥

人中虎啊,那些人中最杰出者竭尽全力呼喊;在战阵前列,那些惊恐者哀切地哭号,

8.67.57

धावतां च ततो राजंस्त्रस्तानां च समन्ततः। ॥ ८.६७.५७ ॥

于是,大王啊,四面八方响起了奔逃者与惊恐者的呼喊。

8.67.58

वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष ।
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥ ८.६७.५८ ॥

尊者啊,见他们被御者之子杀戮,一切众生都惊恐起来,甚至包括生于畜生道的众生。

8.67.59

ते वध्यमाताः समरे सूतपुत्रेण सृञ्जयाः ।
अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥ ८.६७.५९ ॥

那些被御者之子在战场上杀戮的圣阁耶人,一次又一次地呼唤阿周那和伐苏提婆,犹如迷惘者在阎摩之城中呼唤阎摩王。

8.67.60

श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः ।
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धऩञ्जयः।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम् ॥ ८.६७.६० ॥

闻听被迦尔纳箭矢杀戮者的哀号,又见那里发出了极为可怖的婆利古神箭,贡蒂之子持财者(阿周那)对伐苏提婆说道。

8.67.61

पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ॥ ८.६७.६१ ॥

克里希那啊,大臂者,请看婆利古之箭的威力。在战斗中,此箭无论如何也无法被摧毁。

8.67.62

सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे ।
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम् ॥ ८.६७.६२ ॥

克里希那啊,请看大战中愤怒的御者之子,他以堪比死神的威力做出可怕的事。

8.67.63

अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः ।
नच शक्ष्यामि कर्णस्य संयुगेऽहं पलायितुम् ॥ ८.६७.६३ ॥

他不断驱策马匹,一次又一次地看着我;而我在战斗中无法从迦尔纳面前逃走。

8.67.64

जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ ।
मृतस्य तु हृपीकेश भङ्ग एव कुतो जयः ॥ ८.६७.६४ ॥

活着的人在战斗中获得胜利或失败;但对于死者,啊希利希凯沙,只有溃逃。那么胜利从何而来?

8.67.65

एष कर्णो रणे भाति मध्याह्न इव भास्करः ।
निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति ॥ ८.६७.६५ ॥

这位迦尔纳在战场上闪耀如正午的太阳。克里希那啊,调转战车吧;只有活着的人才能看见吉祥之事。