摩诃婆罗多 · 章 8.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.68.1
ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशाम्पते ।
रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत ॥ ८.६८.१ ॥
于是Janārdana听了他的话,人主啊,婆罗多子孙啊,迅速驾车退出了战场。
8.68.2
प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम् ।
अलं विषहितुं ह्येष कुरूणां सम्प्रपश्यताम् ॥ ८.६८.२ ॥
在俱卢人注视之下,他把勇猛可怖的怖军布置在敌军之前,唯有他能够抵挡。
8.68.3
कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति ।
विश्वमार्थं च कौरव्य पार्थस्य च महात्मनः।
अपयातो रणाद्वीरो राजानं द्रष्टुमेव च ॥ ८.६८.३ ॥
大王啊,那位英雄退出战场,只是为了去见国王,他正要让迦尔纳在疲劳之后再次作战,也为了让伟大的贡之子普利塔之子得到休息,俱卢后裔啊。
8.68.4
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः ।
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥ ८.६८.४ ॥
克里希纳对阿周那说:“国王非常悲伤。俱卢中最优秀的人啊,安慰了他之后,你便会杀死迦尔纳。”
8.68.5
ततो धनञ्जयः श्रुत्वा राजानं शल्यपीडितम् ।
याहियाहिति बहुशो वासुदेवमचोदयत्।
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः ॥ ८.६८.५ ॥
于是财富征服者听说国王被箭所伤,便一再催促瓦苏提婆:“快走,快走!毗湿尼后裔啊,我的心因国王而深感痛苦。”
8.68.6
स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः ।
रथेनापययौ क्षिप्रं सङ्ग्रामाद्धोरदर्शनात् ॥ ८.६८.६ ॥
在帕尔塔的催促下,杀死恶魔开希的人,毗湿尼的喜悦者,迅速驾车离开了那可怖的战场。
8.68.7
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया ।
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥ ८.६८.७ ॥
鞠陀之子一边前行,一边因想见法王而观望军队,却未在那里看见他的长兄。
8.68.8
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत ।
दुःसहं वज्रिणा सङ्ख्ये पराजित्य गुरोः सुतम् ॥ ८.६८.८ ॥
婆罗多啊,鞠陀之子与德罗纳之子交战后,在战场上击败了那位如因陀罗般难以抵挡的师子。
8.68.9
द्रौणिं पराजित्य ततोग्रधन्वा ।
कृत्वा महद्दुष्करं शूरकर्म।
आलोकयामास ततः स्वसैन्यं ।
धनञ्जयः शत्रुभिरप्रधृष्यः ॥ ८.६८.९ ॥
击败德罗纳之子后,猛弓者持财者(阿周那)完成了伟大而艰难的英勇之举,随后环顾自己的军队——持财者不可被敌人战胜。
8.68.10
संयुध्यमानान्पृतनामुखस्था… ।
ञ्शूरः शूरान्हर्षयन्सव्यसाची।
पूर्वापदानैः प्रथितैः प्रशंस… ।
न्स्थितांश्चकारात्मरथाननीके ॥ ८.६८.१० ॥
这位英雄萨维亚萨钦鼓舞着在军前奋战的勇士,赞扬他们昔日著名的功绩,并将自己的车战者安置在军中。
8.68.11
अपश्यमानस्तु किरीटमाली ।
युधिष्ठिरं भ्रातरमाजमीढम्।
उवाच भीमं तरसाभ्युपेत्य ।
राज्ञः प्रवृत्तिस्त्विह कुत्र चेति ॥ ८.६८.११ ॥
然而,不见兄长阿遮弥陀族的坚战,戴冠者(阿周那)急忙走到怖军身边说:“国王的消息在这里何处?”
8.68.12
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।
कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन ॥ ८.६८.१२ ॥
法王之子国王坚战已从此处离去,他的身体被迦尔纳的箭所折磨。若他还能活着……
8.68.13
तस्माद्भवाञ्शीघ्रमितः प्रयातु ।
ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य।
नूनं स विद्धोऽतिभृशं पृषत्कैः ।
कर्णेन राजा शिबिरं गतोऽसौ ॥ ८.६८.१३ ॥
因此你快快离开此地,去查明那位人中雄牛的情况。想必那位国王被迦尔纳的箭重伤,已经回到营地去了。
8.68.14
यः सम्प्रहारैर्युधि सम्प्रवृत्ते ।
द्रोणेन विद्धोऽतिभृशं तरस्वी।
तस्थौ स तत्रापि जयप्रतीक्षो ।
द्रोणेन यावन्न हतः किलासीत् ॥ ८.६८.१४ ॥
当战斗在猛烈的交击中展开时,他被德罗纳重创,却仍留在那里等待胜利,直到被德罗纳杀死。
8.68.15
स संशयं गमितः पाण्डवाग्र्यः ।
सङ्ख्येऽद्य कर्णेन महानुभावः।
ज्ञातुं प्रयाह्याशु तमद्य भीम ।
स्थास्याम्यहं शत्रुगणान्निरुध्य ॥ ८.६८.१५ ॥
那位般度之子中的翘楚、大威力者,今日在战中被迦尔纳陷入忧疑。啊,怖军,快去探问他的消息;我将留在此地,拦住敌军。
8.68.16
त्वमेव जानीहि महानुभाव ।
राज्ञः प्रवृत्तिं भरतर्षभस्य।
अहं हि यद्यर्जुन याम्यमित्रा ।
वदन्ति मां भीत इति प्रवीराः ॥ ८.६८.१६ ॥
啊,大威力的阿周那,你自己去了解婆罗多族之牛——那位国王的情况吧。因为若我前往,敌人中的英雄会说我怯懦。
8.68.17
ततोऽब्रवीदर्जुनो भीमसेनं ।
संशप्तकाः प्रत्यनीकस्थिता मे।
एतानहत्वाद्य मया न शक्य… ।
मितोपयातुं रिपुसङ्खमध्यात् ॥ ८.६८.१७ ॥
于是阿周那对怖军说:若今日不杀死站在我对面的三誓者,我便不可能从敌军中间脱身……
8.68.18
अथाब्रवीदर्जुनं भीमसेनः ।
स्ववीर्यमासाद्य कुरुप्रवीर।
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये ।
सर्वानहं याहि धनञ्जय त्वम् ॥ ८.६८.१८ ॥
于是婆摩森那对阿周那说:库鲁之杰,我将依靠自己的勇力,在战场上与三伽多人作战。达那闍耶,你去找他们所有人吧。
8.68.19
तद्भीमसेनस्य वचो निशम्य ।
धनञ्जयो भ्रातुरमित्रमध्ये।
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्य… ।
न्प्रोवाच वृष्णिप्रवरं तदानीम् ॥ ८.६८.१९ ॥
达那闍耶听了婆摩森那的话,想要前往敌人中间去见他的兄长,便对当时维里什尼族中最杰出者说道。
8.68.20
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः ।
चोदयाश्वान्हृषीकेश विहायैतद्बलार्णवम्।
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥ ८.६८.२० ॥
维里什尼的后裔啊,我的心为国王深深痛苦。须弥卡希啊,离开这海洋般的军队,驱策马匹吧。凯沙瓦啊,我想见阿阇多舍睹罗王。
8.68.21
तं रथ चोदयामास बीभत्सोर्वचनाद्धरिः ॥ ८.६८.२१ ॥
依毗跋苏(阿周那)之言,哈利(克里希那)驱动了那辆战车。
8.68.22
ततो हयान्सर्वदाशार्हमुख्यः ।
प्रचोदयन्भीममुवाच चेदम्।
नैतच्चित्रं तव कर्माद्य भीम ।
यास्यावहे जहि पार्थारिसङ्घान् ॥ ८.६८.२२ ॥
于是达沙尔诃族中的首领驱策马匹,对婆摩说:婆摩啊,你今日的这一行为并不奇怪。来吧,去杀尽般度之子的敌军吧。
8.68.23
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः ।
शीघ्राच्छीघ्रतरो राजन्वाजिभिर्गरुडोपमैः ॥ ८.६८.२३ ॥
于是须弥卡希(克里希那)前往般遮罗王的所在,大王啊,他驾驭着如迦卢达般的骏马,快上加快地前去。
8.68.24
प्रत्यनीके त्ववस्थाप्य भीमसेनमरिन्दमम् ।
सन्दिश्य चैनं राजेन्द्र युद्धं प्रति वृकोदरम् ॥ ८.६८.२४ ॥
哦,王中之王,将制服敌人的怖军安置在敌阵前列,并对狼腹(怖军)下达了作战的指令。
8.68.25
ततस्तु गत्वा पुरुषप्रवीरौ ।
राजानमासाद्य शयानमेकम्।
रथादुभौ प्रत्यवरुह्य तस्मा… ।
द्ववन्दतुर्धर्मराजस्य पादौ ॥ ८.६८.२५ ॥
随后,两位人中英雄前往,来到独自躺卧的国王身边,二人都下了战车,……向法王的双足叩拜。
8.68.26
इत्येवमुपसङ्गृह्य उभौ तु पाञ्जली स्थितौ ।
शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ।
निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात् ॥ ८.६८.२६ ॥
二人便这样合掌站立,大王啊,身上带着兵器的创伤,浑身染血。为您歼灭了军队之后,他们二人离开了战场。
8.68.27
तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम् ।
मुदाभ्यनन्दतां कृष्णावश्विनाविव वासवम् ॥ ८.६८.२७ ॥
二位黑天看见那位人中之虎、人中之牛安然无恙地站立,便欢欣地向他致贺,如双马童向因陀罗致贺一般。
8.68.28
तावभ्यनन्दद्राजापि विवस्वानश्विनाविव ।
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥ ८.६८.२८ ॥
国王也向他们致贺,如毗婆娑瓦特为双马童致贺,又如导师在大阿修罗遮婆被杀时为帝释与毗湿奴致贺。
8.68.29
मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः ।
स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः।
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः ॥ ८.६८.२९ ॥
以为迦尔纳已被杀死,心中欢喜的那位人中之虎、征服敌城者,国王坚战便以喜悦哽咽的声音说道,啊,焚烧敌人者。