摩诃婆罗多 · 章 8.69
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.69.1
अथोपयातौ पृथुलोहिताक्षौ ।
शराचिताङ्गौ रुधिरप्रदिग्धौ।
समीक्ष्य सेनाग्रनरप्रवीरौ ।
युधिष्ठिरो वाक्यमिदं बभाषे ॥ ८.६९.१ ॥
此时,尤迪施提拉看见那两位位于军队前列的英雄走来:他们眼睛红而大,身上插满箭矢,满身血污,于是说出了这番话。
8.69.2
ततो युधिष्ठिरो दृष्ट्वा सहितौ केशवार्जुनौ ।
हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ॥ ८.६९.२ ॥
尤迪施提拉看见同来的克沙瓦与阿周那,便以为御者之子在战斗中已被持甘狄拔弓者杀死。
8.69.3
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना ।
स्मितपूर्वममित्रघ्न पूजयन्भरतर्पभ ॥ ८.६९.३ ॥
贡蒂之子先微笑着,以极其悦耳的言辞迎接并尊敬他们二人。啊,灭敌者,啊,婆罗多族的雄牛。
8.69.4
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय ।
प्रियं मे दर्शनं वाढं युवयोर्नरसिंहयोः ॥ ८.६९.४ ॥
欢迎你,提婆吉之子;欢迎你,财富征服者。你们两位人中狮子,见到你们,我实在欢喜。
8.69.5
अरिष्टयोरक्षतयोः कर्णं हत्वा महारथम् ।
आशीविपसमं युद्धे सर्वशस्त्रविशारदम् ॥ ८.६९.५ ॥
你们二人都安然无恙;你们在战斗中杀死了大车士迦尔纳,他如毒蛇般危险,精通一切武器。
8.69.6
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च ।
रक्षितं वृषसेनेन सुपेणेन च धन्विना ॥ ८.६९.६ ॥
持国王诸子之首,众人的庇护与铠甲,由射手伐利舍那与苏般那所守护。
8.69.7
अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम् ।
अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम् ॥ ८.६९.७ ॥
经罗摩许可习得武艺,威力巨大,以兵器而言难以战胜,为世界第一,是享誉世间的车战勇士。
8.69.8
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ।
हन्तारं परसैन्यानाममित्रगणमर्दनम् ॥ ८.६९.८ ॥
德勒塔拉斯陀罗之子的保护者,行进在军队前列,是敌军的杀手,是摧毁敌众的人。
8.69.9
दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम् ।
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः ॥ ८.६९.९ ॥
致力于难敌的利益,准备使我们受苦,在大战中不可战胜,即便天神与因陀罗联手也难以战胜。
8.69.10
अनलानिलयोस्तुल्यं तेजसा च बलेन च ।
पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम् ॥ ८.६९.१० ॥
在光辉与力量上与火和风相等,深邃如地底世界,是增添朋友欢乐之人。
8.69.11
अन्तकं मम मित्राणां हत्वा कर्णं महामृधे ।
दिष्ट्या युवामनुप्राप्तौ हत्वाऽसुरमिवामरौ ॥ ८.६९.११ ॥
在大战中杀死了对我的朋友如同死神的迦尔纳,你们二人幸运地取胜,如同两位杀死阿修罗的神。
8.69.12
तेन युद्धमभीतेन मयाऽद्याप्यच्युतार्जुनौ ।
कृतं घोरं महाबाहू धृष्टद्युम्नस्य पश्यतः।
अन्तकेनेव क्रुद्धेन प्रजाः सर्वा जिघांसता ॥ ८.६९.१२ ॥
今天我无畏地与他作战,啊阿训陀与阿周那,大臂者们,当德里斯塔祖摩那在旁观看时,我就像愤怒的死神想要杀尽所有众生一样战斗。
8.69.13
तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी ।
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥ ८.६९.१३ ॥
他砍断了我的旗帜,杀死了我的两名后侧御者,并在युयुधान注视下杀死我的马,使我失去战车。
8.69.14
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः ।
पश्यतां द्रौपदेयानां शतद्रोश्च महात्मनः ॥ ८.६९.१४ ॥
在धृष्टद्युम्न、双胞胎、英雄शिखण्डिन、德罗波蒂之子以及大德的शतद्रु注视之下。
8.69.15
एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान्बहून् ।
जितवान्मां महाबाहो यतमानो महारणे ॥ ८.६९.१५ ॥
大力的カルナ征服了这些人及众多敌军,也征服了我——啊,大臂者——我正在大战中奋战。
8.69.16
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु ।
तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः ॥ ८.६९.१६ ॥
在战斗中追逐我,他说了许多粗暴的话;战士中最优秀者啊,他到处羞辱我,毫无疑问。
8.69.17
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय ।
बहुनात्र किमुक्तेन हते सोढुं समुत्सहे ॥ ८.६९.१७ ॥
我能活着,全凭婆罗多的力量,啊,财富征服者;何必多言,他被杀之时,我才能忍受。
8.69.18
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय ।
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥ ८.६९.१८ ॥
啊,财富征服者,十三年来,因惧怕他,我夜里得不到睡眠,白天也从未得到安乐。
8.69.19
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय ।
आत्मनो मरणं जानन्वाध्रीणस इव द्विजः ॥ ८.६९.१९ ॥
Dhanañjaya啊,我因对他的仇恨而充满,内心焚烧,知道自己的死亡,如同被风吹动的鸟。
8.69.20
तस्यायमगमत्कालश्चिन्तयानस्य मे चिरम् ।
कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत् ॥ ८.६९.२० ॥
我长久地为此思虑,那时刻已经到来:我如何能在战场上摧毁迦尔纳?
8.69.21
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव स्मराह्यहम् ।
पश्यामि तत्रतत्रैव कर्णभूतमिदं जगत् ॥ ८.६९.२१ ॥
昆提之子啊,无论醒着还是睡着,我只想着迦尔纳;我到处所见的这个世界,都仿佛是迦尔纳所化。
8.69.22
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय ।
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥ ८.६९.२२ ॥
Dhanañjaya啊,因惧怕迦尔纳,我无论走到哪里,都看见迦尔纳站在我面前。
8.69.23
सोऽहं तेनैव वीरेण समरेष्वपलायिना ।
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥ ८.६९.२३ ॥
普利塔之子啊,那位在战斗中从不逃避的英雄,连同我的马匹和战车将我击败,并让我活着离去。
8.69.24
को नु मे जीवितेनार्थो राज्येनार्थो भवेत्पुनः ।
ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना ॥ ८.६९.२४ ॥
今日我被在战场上光彩夺目的迦尔纳如此重创,生命于我还有何用?王国于我又有何用?
8.69.25
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे ।
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥ ८.६९.२५ ॥
我先前在战场上未从毗湿摩、克利巴和德罗那那里得到的,今日在战场上从御者之子、大车战士那里得到了。
8.69.26
स त्वां पृच्छामि कौन्तेय यथा न कुशलस्तथा ।
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णो हतस्त्वया ॥ ८.६९.२६ ॥
贡蒂之子啊,我问你:请把迦尔纳如何被你杀死的经过完整地告诉我,正如他并不安好一样。
8.69.27
शक्रतुल्यबलो युद्धे यमतुल्यः पराक्रमे ।
रामतुल्यस्तथास्त्रेषु स कथं ते निषूदितः ॥ ८.६९.२७ ॥
他在战场上力量与因陀罗相等,勇猛与阎摩相等,武器上与罗摩相等——他是如何被你杀死的?
8.69.28
महारथसमाख्यातः सर्वयुद्धविशारदः ।
धनुर्धराणां प्रवरः सर्वेषां वै सदार्जुन ॥ ८.६९.२८ ॥
阿周那啊,他被誉为大车战士,精通各种战斗,一向是所有弓箭手中的最强者。
8.69.29
पूजितो धृतराष्ट्रेण सपुत्रेण विशाम्पते ।
त्वदर्थमेव राधेयः स कथं निहतस्त्वया ॥ ८.६९.२९ ॥
统治者啊,他与其子们一同受到持国王的尊敬——御者之子(迦尔纳)为你而战,他是如何被你杀死的?
8.69.30
धार्तराष्ट्रस्य योद्धारः सर्व एव सदार्जुन ।
तव मृत्युं रणे कर्णं मन्यन्ते पुरुषर्षभ ॥ ८.६९.३० ॥
阿周那啊,持国王之子的所有战士始终认为,迦尔纳将是你在战场上的死亡,人中之牛啊。
8.69.31
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः ।
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया ॥ ८.६९.३१ ॥
人中之虎啊,他在战斗中如何被你杀死?迦昆提之子啊,请告诉我迦尔纳如何被你杀死。
8.69.32
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् ।
त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः ॥ ८.६९.३२ ॥
人中之虎啊,在朋友们的注视下,你取下了他高昂的头颅,犹如狮子捕获鹿鹿。
8.69.33
सर्वा दिशः पर्यपतत्त्वदर्थं ।
त्वां सूतपुत्रः समरे परीप्सन्।
दित्सन्नृणां शकटं रत्नपूर्णं ।
कथं त्वयासौ निहतोऽद्य कर्णः ॥ ८.६९.३३ ॥
为了你,他奔向四方,在战斗中寻找你。这位想要赠予众人满载珠宝之车的御者之子迦尔纳,今日是如何被你杀死的?
8.69.34
त्वया रणे निहतः सूतपुत्रः ।
कच्चित्कृतं मे परमं त्वयाद्य
प्रियं रणे सूतपुत्रं निहत्य ॥ ८.६९.३४ ॥
迦尔纳,那御者之子,已被你在战斗中杀死。你今日在战斗中杀死御者之子,是否为我做了最大的喜事?
8.69.35
सर्वा दिशः पर्यपतत्त्वदर्थं ।
मुदान्वितो गर्वितः सूतपुत्रः।
स शूरमानी समरे समेत्य ।
कच्चित्त्वया निहतः सूतपुत्रः ॥ ८.६९.३५ ॥
为了你,他奔向四方,这位满怀喜悦、骄傲自负、自以为英雄的御者之子。他在战斗中与你相遇后,是否被你杀死?
8.69.36
राज्यं परं हस्तिगवाश्वयुक्तं ।
रथं दित्सुर्यः परेभ्यस्त्वर्दर्थे।
त्वया रणे स्पर्धते यः स पापः ।
कच्चित्त्वया निहतः पापबुद्धिः ॥ ८.६९.३६ ॥
那个愿为你将象、牛、马俱全的至高王国和战车赠予他人的人,如今在战场上与你争锋,那恶人。你是否已杀了那心怀恶念之人?
8.69.37
योऽसौ नित्यं शौर्यमदेन मत्तो ।
विकत्थते संसदि कौरवाणाम्।
प्रीत्यर्थं वै तात सुयोधनस्य ।
कच्चित्स पापो निहतस्त्वयाद्य ॥ ८.६९.३७ ॥
那个总被勇武之骄狂所醉、在俱卢人的集会上夸口只为取悦苏约达那的人——亲爱的孩子——你今天是否已杀了那恶人?
8.69.38
कच्चित्समागम्य धनुःप्रमुक्तै… ।
स्त्वत्प्रेषितैर्लोहमयैर्विहंगैः।
शेते भिन्नः पांसुषु सूतपुत्रः ।
कच्चिद्भग्रौ धार्तराष्ट्रस्य बाहू ॥ ८.६९.३८ ॥
在战场相遇,自弓上射出的……被你所遣的铁鸟(箭)射穿,那御者之子是否倒卧尘中?持国之子的双臂是否已被折断?
8.69.39
योऽसौ सदा श्लाघते राजमध्ये ।
दुर्योधनं हर्षयन्दर्पयुक्तः।
हन्ताऽस्मि सर्वानिति पाण्डुपुत्रा… ।
नहं हन्ता फल्गुनस्येति मोहात् ॥ ८.६९.३९ ॥
那个总在诸王之中使难敌欢喜、满怀傲慢而夸口的人,说:“我要杀尽般度之子”,又因迷惑而说:“我并非杀害费尔古那的人”……
8.69.40
कच्चिद्वचोऽस्य वितथं त्वया कृतं ।
यत्तत्प्रियामवदत्तात कर्णः।
सभामथ्ये रूक्षमनेकरूपं ।
धिक्पाण्डवानपतिस्त्वं हि कृष्णे ॥ ८.६९.४० ॥
克里希纳啊,卡尔纳在大会中对你所说的那些严厉而多样的话,难道不是真的吗?般度之子该受耻辱,因为你已没有丈夫了!
8.69.41
कच्चिद्भुवं शत्रुरयं महात्मा ।
ह्यधारयद्द्वादश यः समास्तु।
कर्णो व्रतं घोरममित्रसाहो ।
दुर्योधनस्यार्थनिविष्टबुद्धिः ॥ ८.६९.४१ ॥
啊,征服敌人者!这位为了难敌之事而心意专注、曾持守十二年可怕誓愿的伟大敌人迦尔纳,难道真的仍把那誓言记在心中吗?
8.69.42
पादौ न धावे यावदहं न हन्मि ।
धनञ्जयं समरेषूग्रवेगम्।
कच्चिद्रणे फल्गुन तं निहत्य ।
कच्चिद्व्रतं तस्य भग्नं त्वयाऽद्य ॥ ८.६९.४२ ॥
在战斗中,只要我还没有杀死迅猛的达难闍耶,我就不洗脚。法尔古那啊,你今天在战场上杀死了他,是否打破了他的誓言?
8.69.43
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः ।
कर्णः सभायां कुरुवीरमध्ये।
किं पाण्डवांस्त्वं न जहासि कृष्णे ।
सुदुर्बलान्पतितान्हीनसत्वान् ॥ ८.६९.४३ ॥
克里希纳啊,那心怀恶念的迦尔纳不是在大会中,在众库鲁英雄之间对你说了这些话吗?你难道不曾抛弃般度五子这些极其软弱、倾覆、缺乏勇气的人吗?
8.69.44
योऽसौ कर्णः प्रत्यजानात्त्वदर्थे ।
नाहं हत्वा सह कृष्णेन पार्थम्।
इहोपयातेति स पापबुद्धिः ।
कच्चिच्छेते शरसम्भिन्नगात्रः ॥ ८.६९.४४ ॥
那位心怀恶念的迦尔纳,曾为你发誓:若不与克里希纳一同杀死帕尔塔,决不回到此地。如今他是否身中箭矢,倒卧在地了?
8.69.45
कच्चित्सङ्ग्रामो विदितो वै तवायं ।
समागमे सृञ्जय कौरवाणाम्।
येनावस्थामीदृशीं प्रापितोऽहं ।
कच्चित्त्वया सोऽद्य हतो दुरात्मा ॥ ८.६९.४५ ॥
斯林阳啊,你是否知道这场与俱卢族的战斗,它使我陷入如此境地?你今天是否已杀了那恶心之人?
8.69.46
कच्चित्त्वया तस्य सुमन्दबुद्धे… ।
र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः।
सकुण्डलं भानुमदुत्तमाङ्गं ॥ ८.६९.४६ ॥
愚钝之人啊,你是否用从甘狄拔弓射出的燃烧之箭,斩下了他那戴着耳环、光辉的头颅……?
8.69.47
यत्तन्मया बाणसमर्पितेन ।
ध्यातोऽसि कर्णस्य वधाय वीर।
तन्मे त्वया कच्चिदमोघमद्य ।
ध्यानं कृतं कर्णनिपातनेन ॥ ८.६९.४७ ॥
勇士啊,我以箭所献而为你诛杀迦尔纳所思之念,今日你是否以迦尔纳之陨落而使之无误地完成?
8.69.48
यद्दर्पपूर्णः स सुयोधनोऽस्मा… ।
न्दिधक्षते कर्णसमाश्रयेण।
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य ।
भग्नः पराक्रम्य सुयोधनस्य ॥ ८.६९.४८ ॥
那骄慢满腔的苏尤达那,欲依仗迦尔纳来焚烧我们;今日他的依靠是否已被你以勇力摧毁?
8.69.49
यो नः पुरा षण्ढतिलानवोच… ।
त्सभामध्ये कौरवाणां समक्षम्।
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये ।
त्वया हतः सूतपुत्रोऽत्यमर्षी ॥ ८.६९.४९ ॥
那昔日在俱卢族的集会中、在众人面前辱骂我们为『阉人』与『芝麻』的人,那位心怀恶意、极为暴躁的御者之子,是否在战场上来到你面前,被你所杀?
8.69.50
यः प्राहिणोत्सूतपुत्रो दुरात्मा ।
कृष्णां जितां सौबलेहानयेति।
स मन्दबुद्धिर्निहतः प्रसह्य ।
वैकर्तनस्त्वद्य कच्चिन्महात्मन् ॥ ८.६९.५० ॥
那个恶念的御者之子曾派人将被赢得的克里希纳带到萨乌巴拉那里,他那愚钝的维卡尔塔纳今天是否已被强力杀死,大士?
8.69.51
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां ।
पितामहं व्याक्षिपदल्पचेताः।
सङ्ख्यायमानोऽर्धरथः स कच्चि… ।
त्त्वयां हतोऽद्याधिरथिर्महात्मन् ॥ ८.६९.५१ ॥
那个被视为半车战士、曾攻击大地上最优秀的持械者祖父的小智者……今天是否被你杀死,大士?今天那位御者之子(迦尔纳)已被你杀死。
8.69.52
अमर्षजं निकृतिसमीरणेरितं ।
हृदि स्थितं ज्वलनमिमं सदा मम।
हतो मया सोऽद्य समेत्य कर्ण ।
इति ब्रुवन्प्रशमयसेऽद्य फल्गुन ॥ ८.६९.५२ ॥
这团因愤怒而生、被欺骗之风煽起、常驻我心中的火焰——你说着“我迎战迦尔纳并杀死了他”,今天将它熄灭,阿周那。