Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.7.1

हते द्रोणे महेष्वासे तस्मिन्नहनि भारत ।
कृते च मोघसंकल्पे द्रोणपुत्रे महारथे ॥ ८.७.१ ॥

婆罗多之子啊,那一日,伟大的弓手德罗纳被杀,德罗纳之子大战车武士的誓愿落空之时,

8.7.2

द्रवमाणे महाराज कौरवाणां बलार्णवे ।
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्वातृभिर्वृतः ॥ ८.७.२ ॥

大王啊,当俱卢军的大海奔逃之时,般度之子将自己的军队布成阵列,被兄弟们环绕而立。

8.7.3

तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ ।
विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥ ८.७.३ ॥

婆罗多中最優者啊,知他仍然屹立不動,你的兒子見自己的軍隊奔逃,便以男子漢的勇氣將其制止。

8.7.4

स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः ।
युद्धा च सुचिरं कालं पाण्डवैः सह भारत ॥ ८.७.४ ॥

他整顿自己的军队,依恃臂力,婆罗多啊,与般度诸子长久激战。

8.7.5

लब्धलक्षैः परैर्हष्टैर्व्यायच्छद्भिश्चिरं तदा ।
सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ॥ ८.७.५ ॥

敌人得其所望、欢喜而久久奋力之时,到了黄昏,他便下令撤退。

8.7.6

निवेश्य बलवद्वोरं क्षुत्पिपासाबलैर्युतम् ।
श्रमेण महता युक्तं तथा द्रोणवधेन च ॥ ८.७.६ ॥

他将那支强大可怖、为饥渴所困、极度疲惫且又因德罗纳之死而受挫的军队带回驻扎。

8.7.7

दीनरूपा रणे कर्म कृत्वा घोरं च शर्वरीम् ।
विशं प्राप्य सा सेना विश्रम्य मुदिताऽभवत् ॥ ८.७.७ ॥

那支军队在战场上度过了可怕的夜晚,陷入困顿之境,回到营地休息后便欢欣起来。

8.7.8

कृत्वाऽवहारं सैन्यानां प्रविश्य शिबिरं स्वकम् ।
कुरवः सहिता मन्त्रं मन्त्रयाञ्चक्रिरे मिथः ॥ ८.७.८ ॥

撤回军队、进入各自营帐后,俱卢族人聚集在一起,彼此商议。

8.7.9

पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च ।
वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥ ८.७.९ ॥

他们坐在上好的床榻和精美的坐椅上,覆着令人羡慕的锦褥,如同天神安卧于舒适的卧榻之上。

8.7.10

ततो दुर्योधनो राजा साम्ना परमवल्गुना ।
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ॥ ८.७.१० ॥

于是国王难敌以最温和的言辞招呼那些大弓箭手,说出了合时宜的话。

8.7.11

मतं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत मा चिरम् ।
एवङ्गतेन यत्कार्यं भवेत्कार्यतरं नृपाः ॥ ८.७.११ ॥

诸位智者中的最优秀者、诸王,你们都请说出己见,不要久拖;在这种情形下,说出更为紧要应做之事。

8.7.12

एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः ।
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥ ८.७.१२ ॥

国王如此说罢,那些渴望作战的人中雄狮,坐在宝座上,做出了种种动作。

8.7.13

तेषां निशाम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् ।
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम्।
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥ ८.७.१३ ॥

他观察到那些愿在战斗中献出生命之人的神情,又望向国王的面庞,那面庞如初升之日般光辉。懂得言辞之义的师子智慧之子于是开口说道。

8.7.14

रागो योगस्तथा दाक्ष्यां नयश्चेत्यर्थसाधकाः ।
उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः ॥ ८.७.१४ ॥

热忱、努力、才巧与谋略,这些成就事功的手段是贤者所宣说的;然而它们也依赖于天命。

8.7.15

लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः ।
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥ ८.७.१५ ॥

我方那些举世英豪,如天神般的大车勇士,有智谋、有节制、精熟且忠诚者——他们都已被杀。

8.7.16

न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति ।
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥ ८.७.१६ ॥

然而我们不应对胜利感到绝望;在此,凭借良好的谋略与一切手段,连天命也可以使之顺利。

8.7.17

ते वयं प्रवरं नॄणां सर्वैर्योधगुणैर्युतम् ।
कर्णमेवाभिषेभ्यामः सैनापत्येन भारत ॥ ८.७.१७ ॥

婆罗多之子啊,我们要将那人中最杰出、具备一切武士品德的迦尔纳,任命为军队统帅。

8.7.18

कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥ ८.७.१८ ॥

任命迦尔纳为统帅之后,我们将击溃敌人。

8.7.19

एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः ।
वैवस्वत इवासह्यः शक्तो जेतुं रणे निपून् ॥ ८.७.१९ ॥

此人力量极大,是精通武器、沉醉于战斗狂热的英雄,如同毗婆娑多(阎摩)般令人难以抵挡,能够在战场上战胜敌人。

8.7.20

एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः ।
दुर्योधनो महाराज भृशं प्रीतमनास्तदा ॥ ८.७.२० ॥

大王!你的儿子难敌听到师子(阿输陀摩)所说的话后,心中十分欢喜。

8.7.21

आशां बहुमतीं चक्रे वर्णं प्रति स वै तदा ।
हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् ॥ ८.७.२१ ॥

当时他对迦尔纳寄予厚望:待毗湿摩与德罗纳被杀后,迦尔纳将战胜般度五子。

8.7.22

तामाशां हृदये कृत्वा समाश्वस्य च भारत ।
ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद्वचः।
प्रीतिसत्कारसंयुक्तं तथ्यमात्महितं शूभम् ॥ ८.७.२२ ॥

婆罗多之子啊!难敌心怀此望,得到安慰,心中欢喜;他听到那些悦耳而充满爱戴与敬意、真实、有利于自己而吉祥的话语。

8.7.23

स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः ॥ ८.७.२३ ॥

稳定自己的心,依靠自己手臂的勇力。

8.7.24

प्रियसत्कारसंयुक्तं तथ्यमात्महिते रतम् ।
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ ८.७.२४ ॥

大王!难敌对罗陀之子(迦尔纳)说了这些话,话语充满爱戴与敬意,真实,并以有利于自己为乐。

8.7.25

कर्ण जानामि ते वीर्यं सौहृदं परमं मयि ।
तथाऽपि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥ ८.७.२५ ॥

迦尔纳啊,我知道你的勇力和你对我的至诚友情。尽管如此,大臂者啊,我将对你说有益的话。

8.7.26

श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते ।
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥ ८.७.२६ ॥

勇士啊,听了之后,做你认为合意的事吧。你始终是最有智慧的人,对我而言你就是至高的依靠。

8.7.27

भीष्मद्रोणावतिरथौ हतौ सेनापती मम ।
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥ ८.७.२७ ॥

我的两位统帅,大车战士毗湿摩与德罗纳,已经被杀。现在让比他们二人更有能力的你来做军队的统帅吧。

8.7.28

वृद्धो च तौ महेष्वासौ सापेक्षो च धनञ्जये ।
मानितौ च मया वीरौ राधेय वचनात्तव ॥ ८.७.२८ ॥

那两位老者都是大弓箭手,偏向阿周那。拉达之子啊,依你之言,我尊重了那两位英雄。

8.7.29

पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे ।
रक्षितास्तात भीष्मेण दिवसानि दशैव तु ॥ ८.७.२९ ॥

亲爱的,毗湿摩顾念自己祖父的身份,在大战中只保护了般度之子十天。

8.7.30

न्यस्तशस्त्रे तु भवति हतो भीष्मः पितामहः ।
शिखण्डिनं पुरुस्कृत्य फल्गुनेन महाहवे ॥ ८.७.३० ॥

他放下武器之时,祖父毗湿摩被杀;在大战中,法尔古那把湿迦护在前面,将他击倒。

8.7.31

हते तस्मिन्महेष्वासे शरतल्पगते तथा ।
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥ ८.७.३१ ॥

那位大弓箭手被杀、躺在箭床上之后,正如你所说,人中之虎啊,德罗纳成为了前方的统帅。

8.7.32

तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः ।
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥ ८.७.३२ ॥

据我看来,他也保护了普利塔之子,因为他们是他的弟子。那位老人也很快被猛光杀死了。

8.7.33

निहताभ्यां प्रधानाभ्यां ताभ्यामतुलविक्रम ।
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥ ८.७.३३ ॥

啊,勇武无双者!那两位主将已经被杀,我思来想去,在战场上找不到另一位能与你相比的战士。

8.7.34

भवानेव तु नः शक्तो विजयाय न संशयः ।
पूर्वं मध्ये च पश्चाश्च तथैव विहितं हितम् ॥ ८.७.३४ ॥

唯有你能为我们赢得胜利,这毫无疑问。无论开始、中间还是最后,这都是被规定为有益的。

8.7.35

स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोऽढुमर्हति ।
अभिषेचय सैनान्ये स्वयमात्मानमात्मना ॥ ८.७.३५ ॥

你啊,尊贵者,应当像驾辕的牛那样在战场上承担重担。你自己为自己加冕为军队统帅吧。

8.7.36

देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः ।
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै ॥ ८.७.३६ ॥

正如不朽的主神斯犍陀是诸神中的统帅,愿你统领这支持国王之子的军队。

8.7.37

जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव ।
अवस्थितं रमे दृष्ट्वा पाण्डवास्त्वां महारथाः।
द्रविष्यन्ति च पाञ्चाला विष्णुं दृष्ट्वेव दानवाः ॥ ८.७.३७ ॥

如同大因陀罗诛杀檀那婆,你也应诛灭敌人的一切军队。见你屹立不动,大车战士般的般度子孙与般遮罗人将会逃散,如檀那婆见到毗湿奴而逃。

8.7.38

तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम् ॥ ८.७.३८ ॥

因此,人中虎啊,你当引导这支大军前进。

8.7.39

भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः ।
द्रविष्यन्ति सहामात्याः पाञ्चालाः सृञ्जयाश्च ह। ॥ ८.७.३९ ॥

你若屹立不动,愚钝的般度子孙将与其大臣一同逃散,般遮罗人与苏珊闍耶人亦然。

8.7.40

यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा ।
व्यपोहति तमस्तीव्रं तथा शत्रून्प्रतापय ॥ ८.७.४० ॥

如同升起的太阳以自身光辉灼热,驱散猛烈的黑暗,你也要灼烧你的敌人。

8.7.41

एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह ।
राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः।
हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः ॥ ८.७.४१ ॥

国王难敌如此说后,罗陀之子迦尔纳——大臂、大力者,心中欢喜,在众王之中使难敌欢悦,说出了这些话。

8.7.42

उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ ।
जेष्यामि पाण्डवान्सर्वान्सपुत्रान्सजनार्दनान् ॥ ८.७.४२ ॥

此话我先前已在你面前说过,甘陀利之子:我将征服所有般度子孙,连同他们的儿子和乔纳尔达那。

8.7.43

सेनापतिर्भविष्यामि तवाहं नात्र संशयः ।
स्थिरो भव महाराज जितान्विद्वि च पाण्डवान् ॥ ८.७.४३ ॥

我将成为你的统帅,此事毫无疑问。大王,请坚定,要知道般度之子已经被征服了。

8.7.44

एवमुक्तो महाराज ततो दुर्याधनो नृपः ।
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ॥ ८.७.४४ ॥

大王,听他这样说后,国王难敌与诸王一同起身,如同因陀罗与诸天一起。

8.7.45

सैनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ।
ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा ॥ ८.७.४५ ॥

为以统帅之职尊敬迦尔纳,如诸天神灌顶斯建陀一般,他们依照规定的仪轨为迦尔纳灌顶。

8.7.46

दुर्योधनमुक्ता राजन्राजानो विजयैषिणः ।
शातकुम्भमयैः कुम्भेर्माहेयैश्चाभिमन्त्रितैः ॥ ८.७.४६ ॥

在难敌的吩咐下,求胜的诸王,大王啊,用以神圣咒语加持的金瓶。

8.7.47

तोयपूर्णैर्विषाणैश्च द्विपखङ्गमहर्षभैः ।
मणिमुक्तायुतैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥ ८.७.४७ ॥

以盛满水的号角、象牙、宝剑和大公牛,以镶嵌珠宝的其他器物,以及吉祥芳香的草药。

8.7.48

औदुम्बरे सुखासीनमासने क्षौमसंवृते ।
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ॥ ८.७.४८ ॥

坐于以聚果木制成、覆以丝布的座位上,依照经典规定的仪轨,备齐了各样物品。

8.7.49

ब्राह्मणः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः ।
तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने ॥ ८.७.४९ ॥

婆罗门、刹帝利、吠舍与首陀罗皆表赞同,赞颂这位已在尊贵王座上受灌顶的大德之人。

8.7.50

ततोऽभिषिक्ते राजेन्द्र निष्कैर्गोभिर्धनेन च ।
वाचयामास विप्राग्र्यान्राधेयः परवीरहा ॥ ८.७.५० ॥

国王之主啊,灌顶之后,屠戮敌方英雄的迦尔纳以金币、牛群和财富,让最尊贵的婆罗门诵念祝福之辞。

8.7.51

स व्यरोचत राधेयः सूतमागधबन्दिभिः ।
स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः ॥ ८.७.५१ ॥

他被御者诗人、歌者与传令者赞颂,光辉灿烂,犹如日出之时被宣说吠陀之人所赞颂的太阳。

8.7.52

ततः पुण्याहघोषेण वादित्रनिनदेन च ।
जयशब्देन शूराणां तुमुलः सर्वतोऽभवत् ॥ ८.७.५२ ॥

随即,吉祥的宣告声、乐器的鸣响与众英雄的欢呼声,在四方掀起了一阵喧嚣。

8.7.53

जयेत्यूचुर्नृपाः सर्वे राधेयं तत्र सङ्गताः ॥ ८.७.५३ ॥

聚集在那里的诸王都对迦尔纳说:“胜利!”

8.7.54

जय पार्थान्सगोविन्दान्सानुगांस्तान्महामृधे ।
इति तं बन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम् ॥ ८.७.५४ ॥

“愿你在大战中战胜普利塔之子及其随从与戈温达。”吟唱者与再生者们如此对那位人中雄牛说道。

8.7.55

जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः ।
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥ ८.७.५५ ॥

啊,罗陀之子,为了我们的胜利,杀死普利塔之子与般遮罗人,正如初升的太阳总以炽烈的光芒驱散黑暗。

8.7.56

न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः ।
उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥ ८.७.५६ ॥

的确,即便有克舍婆在,他们也抵挡不住你射出的箭,正如猫头鹰无法直视灼热的阳光。

8.7.57

न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः ।
आत्तवज्रस्य समरे महेन्द्रस्येव दानवाः ॥ ८.७.५७ ॥

的确,普利塔之子与般遮罗人在战场上无法抵挡你,正如达那婆在手持金刚杵的因陀罗面前无法站立。

8.7.58

स सत्कृतः स्तूयमानः सुहृद्गणवृतो रुषा ।
कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम् ॥ ८.७.५८ ॥

迦尔纳受到礼遇与赞颂,被一群朋友环绕,怒意中带着笑,对难敌说出了悦耳的话。

8.7.59

दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह ।
फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम् ॥ ८.७.५९ ॥

难敌啊,今日为了你的欢心,我将与般度之子中的英杰一起,连同他的部众与亲族,杀死法尔古那。

8.7.60

सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम् ।
पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यमि ॥ ८.७.६० ॥

统治这片大地,连同山岳、海洋与岛屿,如今已无般度之子;我将使它在你的子孙、孙辈与曾孙中稳固地确立。

8.7.61

नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिन्दम ।
सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥ ८.७.६१ ॥

啊,降伏敌人者!为了您所爱之事,对我而言没有什么是不能忍受的。对真理与法忠诚、克己自持的人,便会得到成就。

8.7.62

अभिषिक्तस्तु राघेयः प्रभया सोऽमितप्रभः ।
अत्यरिच्यत रूपेण दिवाकर इवापरः ॥ ८.७.६२ ॥

受膏的罗陀之子迦尔纳,光辉无量,以光华与容貌超越众人,宛如另一个太阳。

8.7.63

सैनापत्ये तु राधेयमभिषिच्य सुतस्तव ।
अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥ ८.७.६३ ॥

您的儿子委任罗陀之子迦尔纳为统帅,被时间所驱使,便自认为功成圆满。

8.7.64

कर्णोऽपि राज्ञः संप्राप्य सैनापत्यमरिन्दमः ।
योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥ ८.७.६४ ॥

迦尔纳也从国王那里获得了统帅之职,这位降伏敌人者便下令,向着日出之方备战。

8.7.65

तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत ।
देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ॥ ८.७.६५ ॥

婆罗多之子啊,被您的儿子们簇拥的迦尔纳在那里闪耀,犹如在与达拉卡的战斗中被诸神环绕的斯坎达。