摩诃婆罗多 · 章 8.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.70.1
तद्धर्मशीलस्य वचो निशम्य ।
राज्ञः क्रुद्धस्यातिरथो महात्मा।
उवाच दुर्मर्षमदीनसत्वो ।
युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥ ८.७०.१ ॥
闻听这位持法之王的言语,愤怒的大车将、伟大的阿周那——心志不屈、威力无穷的胜利者——对坚战说出了难以忍受的话。
8.70.2
द्रोणं हतं पार्थ कर्णो विदित्वा ।
भिन्नां नावविमावत्यगाधे कुरूणाम्।
सम्मुह्यमानान्धार्तराष्ट्रान्विदित्वा ।
निरुत्साहांश्च विजये परेषाम् ॥ ८.७०.२ ॥
帕尔塔啊,迦尔纳得知德罗纳已被杀,又见俱卢军如深不可测之海中破碎的船只,持国之子们迷乱,对战胜敌人毫无斗志。
8.70.3
सोदर्यवत्त्वरितोऽमितौजा ।
उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान्।
रणे रथेनाधिरथिर्महात्मा ।
ततो हि मां त्वरितः सोऽभ्यधावत् ॥ ८.७०.३ ॥
他如兄弟般急切,力量无穷,想要拯救持国之子,在战场上驾着战车,那位伟大的阿提罗陀之子迦尔纳迅速向我冲来。
8.70.4
संशप्तकैर्युध्यमानस्य मेऽद्य ।
सेनाग्रयायी कुरुसैन्यस्य राजन्।
आशीविषाभान्विकिरञ्शरौघा… ।
न्द्रौणिः पुरस्तात्सहसाध्यतिष्ठत् ॥ ८.७०.४ ॥
大王啊,今日我正与三伏军作战,德罗纳之子走在俱卢军前列,如毒蛇般洒下箭雨,忽然出现在我面前……
8.70.5
स मे दृष्ट्वा शूरतमो ध्वजाग्रं ।
समादिशद्रथसङ्घाननेकान्।
तेषामहं पञ्चशतं निहत्य ।
आसादयं द्रोणपुत्रं नदन्तम् ॥ ८.७०.५ ॥
那位最勇猛的战士见到我的旗帜顶端,便命令许多车队前来。我杀死其中五百人后,来到了正在怒吼的德罗纳之子面前。
8.70.6
स द्रोणपुत्रः सदृशं महात्मा ।
मामप्यरौत्सीत्तदनीकमध्ये।
किरञ्शरौघान्बहुरूपान्विचित्रा… ।
न्स्वातीगतः शुक्र इवातिवर्षन् ॥ ८.७०.६ ॥
德罗纳之子那位大智慧者,与其父相似,也在那军阵之中攻击我。他洒下形态各异、奇妙的箭雨……如金星入于宿位般倾泻不止。
8.70.7
स मे रान्सर्वतः कङ्कपत्रा… ।
नवासृजद्वै पृथिवीप्रकाशान्।
निवार्य तूर्णं परमाजिमध्ये ।
ततोऽपि मां बाणगणैः समार्पयत् ॥ ८.७०.७ ॥
他从四面向我射出以鹭羽为翎的箭……确实是能照亮大地的箭。在那场大战之中迅速阻挡我之后,他又以箭群将我淹没。
8.70.8
आकर्षणं वापि विकृष्य मुक्तं ।
न दृश्यते तस्य महारथस्य।
न सन्दधानः कुत आददानो ।
न व्याक्षिपन्न विकर्षन्विमुञ्चन् ॥ ८.७०.८ ॥
既不见他拉弓,也不见他拉开后放箭。既不见他搭箭,也不见他从何处取箭,不见他挪动、拉扯或放射——那位大车战士身上什么也看不见。
8.70.9
सव्येन वा यदि वा दक्षिणेन ।
न ज्ञायते कतरेणास्यतीति।
आचार्यवत्समरे पर्यवर्त… ।
न्महच्चित्रं दर्शयन्सर्वतः स्म ॥ ८.७०.९ ॥
不知他是用左手还是右手射箭。他如同其师般在战场上回旋……四面展示出宏大奇妙的技艺。
8.70.10
दृष्ट्वीविषं चासुहरं परेषां ।
सर्वा दिशः पूरयानं शरौधैः।
अलातचक्रप्रतिमं महात्मनः ।
सदा नतं कार्मुकं ब्रह्मबन्धोः ॥ ८.७०.१० ॥
看到他那夺取敌人性命的箭,以及以箭流充满四方,那位大智慧的婆罗门同族者的弓,常常弯曲,看起来如同火把之轮。
8.70.11
ततोऽपरान्बाणगणाननेका… ।
नाकर्णपूर्णायतविप्रमुक्तान्।
ससर्ज शीघ्रास्त्रबलेन वीर… ।
स्तोयं यथा प्रावृषि कालमेघः ॥ ८.७०.११ ॥
随后他放出许多其他箭群,皆从拉至耳边的弓上射出;这位英雄凭借迅疾神兵之力将其倾泻,如同雨季的乌云降下甘霖。
8.70.12
आविध्यन्मां पञ्चभिद्रोणपुत्रः ।
शितैः शरैः पञ्चभिर्वासुदेवम्।
अभ्यघ्नं बाणैस्तमहं सुधारै… ।
र्निमेषमात्रेण सुवर्णपुङ्खैः ॥ ८.७०.१२ ॥
德罗纳之子以五支锐箭射中我,又以五支射中婆苏提婆。我在一瞬间,以锋利的金羽箭击中了他。
8.70.13
स निर्विद्धो विरथो द्रोणपुत्रो ।
रथानीकं चाधिरथेर्विवेश।
मयाभिभूतान्स्वरथप्रबर्हा… ।
नस्त्रं च पश्यन्रुधिरप्रदिग्धम् ॥ ८.७०.१३ ॥
德罗纳之子身中数箭,失去战车,进入了阿提罗陀之子(迦尔纳)的战车军中;他看到自己的战士被我击败,武器沾满鲜血。
8.70.14
ततोऽभिभूतं युधि वीक्ष्य सैन्यं ।
विध्वस्तयोधं द्रुतनागयूथम्।
पञ्चाशता रथमुख्यैः समेतः ।
कर्णस्त्वरन्नभ्यपतत्प्रमाथी ॥ ८.७०.१४ ॥
此时,迦尔纳——这位摧毁者——见军队在战斗中溃败,战士四散,象群奔逃,便与五十名主要战车武士会合,迅速冲杀上去。
8.70.15
तान्सूदयित्वाऽहमपास्य कर्णं ।
द्रष्टुं भवन्तं त्वरयोपयातः।
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णं ।
दृष्ट्वा गावः केसरिणं यथैव ॥ ८.७०.१५ ॥
我杀了他们,撇下迦尔纳,匆匆赶来见你。所有般遮罗人见到迦尔纳都惊恐不安,正如牛见到狮子一般。
8.70.16
मृत्योरास्यं व्यात्तमिवाभिपद्य ।
प्रभद्रकाः कर्णमासाद्य सर्वे।
यास्यामि तांस्तारयिष्यन्बलौघा… ।
द्दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः ॥ ८.७०.१६ ॥
如同进入死神张开的大口,抵达迦尔纳处的普罗跋陀罗人全都(身陷危境)。我想救他们,将前去……幸运的是,帕尔塔啊,你安然无恙地出现在眼前。
8.70.17
हनिष्येऽहं भारत सूतपुत्र… ।
मस्मिन्सङ्ग्रामे यदि दृश्यतेऽद्य।
आयाहि पश्याद्य युयुत्समानौ ।
मां सूतपुत्रं च धृतौ रणाय ॥ ८.७०.१७ ॥
啊,婆罗多,如果今天在这场战斗中看到御者之子……我将杀死他。来吧,今天看看那两个渴望战斗的人——我和御者之子——为战斗而坚定站立。
8.70.18
महाझषस्येव मुखं प्रपन्नाः ।
प्रभद्रकाः कर्णमुखं प्रपन्नाः।
षट्साहस्रा भारत राजपुत्राः ।
स्वर्गाय लोकाय रणे निमग्नाः ॥ ८.७०.१८ ॥
如同大鱼的口,普罗跋陀罗人进入了迦尔纳的面前。啊,婆罗多,六千王子为了天堂与世界,沉没于战斗之中。
8.70.19
तानद्य यास्यामि रणाद्विमोक्तुं ।
सर्वात्मना सूतपुत्रं च हन्तुम् ॥ ८.७०.१९ ॥
今日我将前去把他们从战斗中解救出来,并以全部身心去杀死御者之子。
8.70.20
अथ प्रवीरेण महानुभाव ।
द्विषत्सैन्यं निर्दहन्विस्तरेण।
समेत्याहं सूतपुत्रेण सङ्ख्ये ।
वज्रीव वृत्रेण नरेन्द्रमुख्य ॥ ८.७०.२० ॥
于是,与大英雄一道,啊,大威力者,广泛焚烧敌军,在战斗中遇见御者之子——如持金刚者与弗栗多相遇——啊,诸王之首。
8.70.21
एवं गते किञ्च मयाऽद्य शक्यं ।
कार्यं कर्तुं निग्रहे सूतजस्य।
तथैव राज्ञश्च सुयोधनस्य ।
ये चापि मां योद्धुकामाः समेताः ॥ ८.७०.२१ ॥
事已至此,今日我能做什么?当务之急是制止御者之子(迦尔纳),同样也要制止国王苏尤陀那,以及所有聚集起来想与我交战的人。
8.70.22
कर्णं न चेदद्य निहन्मि राज… ।
न्सबान्धवं युध्यमानं प्रसह्य।
प्रतिश्रुत्याऽकुर्वतां या गतिर्वै ।
कष्टां यायां तामहं राजसिंह ॥ ८.७०.२२ ॥
若我今日不能将迦尔纳连同他的亲族在奋力作战时杀死……我将走上那痛苦的归宿,即誓言者而不践行者所要走的道路,啊,王中之狮。
8.70.23
आमन्त्रये त्वां ब्रूहि रणे जयं मे ।
पुरा भीमं धार्तराष्ट्रा ग्रसन्ति।
सौतिं हनिष्यामि नरेन्द्रसिंह ।
सैन्यं तथा शत्रुगणांश्च सर्वान् ॥ ८.७०.२३ ॥
我向你呼唤:请说,愿我在战斗中获胜。在德哩多罗陀罗之子抓住毗摩之前,啊,人中与王中之狮,我将杀死御者之子、军队以及所有敌军。