Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.72.1

युधिष्ठिरेणै…क्तः कौन्तेयः श्वेतवाहनः ।
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ॥ ८.७२.१ ॥

当坚战说了……之后,白马的贡蒂之子(阿周那)极为愤怒,想要杀死婆罗多族的雄牛,便拿起了剑。

8.72.2

तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा ।
उवाच किमिदं खङ्गं गृह्णास्यर्जुन शंम मे ॥ ८.७२.२ ॥

知心者克舍婆(克里希那)完全察觉到他的愤怒,于是说道:“阿周那,你为何拿起这把剑?告诉我。”

8.72.3

नेह पश्यामि योद्धव्यं त्वया किञ्चिद्वनञ्जय ।
नेहागता धार्तराष्ट्राः सर्वे भीमेन वारिताः ॥ ८.७२.३ ॥

财富征服者啊,我在此看不到你应当与之作战的任何人;持国之子们都没有来到这里,全被怖军阻止了。

8.72.4

उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ ।
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥ ८.७२.४ ॥

贡蒂之子啊,你是来见国王的;那位国王坚战已经被你见到,他安好。

8.72.5

तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।
हर्षकाले च सम्प्राप्ते कस्मात्त्वां मन्युराविशत् ॥ ८.७२.५ ॥

看见那位王中之虎、勇武如虎的人,当欢乐的时刻到来时,为何愤怒侵入了你?

8.72.6

न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह ।
प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः ॥ ८.७२.६ ॥

贡蒂之子啊,我在此看不到应由你杀死的任何人;你为何想要攻击?还是你的心智已经混乱了?

8.72.7

कस्माद्भवान्महाखङ्गं परिगृह्णात्यकारणात्। ॥ ८.७२.७ ॥

你为何无故拿起这把大剑?

8.72.8

तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ।
परामृशसि यत्क्रुद्धः खङ्गमद्भुतविक्रम ॥ ८.७२.८ ॥

因此我问你,昆提之子:你有何打算,竟在愤怒中握起这把威力非凡的剑?

8.72.9

एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम् ।
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥ ८.७२.९ ॥

被如此责备后,他斜视着坚战,愤怒的阿周那像毒蛇一样喘息,对戈温达说道。

8.72.10

अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत् ।
भिन्द्यामहं तस्य शिर इत्युपांशु व्रतं मम।
युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन ॥ ८.७२.१० ॥

“把甘狄拔交给别人”——凡如此催促我的人,我必斩其头颅,这是我秘密的誓愿。哦,阇那尔达那,坚战正是这样对我说的。

8.72.11

यदुक्तोऽहमदीनार्थं राज्ञाऽनेन यशस्विना ।
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥ ८.७२.११ ॥

哦,戈温达,这位名王在你面前对我以坚定之意所说的话,我在此不能忍受。

8.72.12

तस्मादेनं विधिष्यामि राजानं धर्मचारिणाम् ।
प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम् ॥ ८.७२.१२ ॥

因此,我要惩罚这位行法者中最为杰出的国王;杀了这位人中之最,我便能履行我的誓言。

8.72.13

एतदर्थं मया खह्गो गृहीतो यदुनन्दन ।
सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः।
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥ ८.७२.१३ ॥

为此我已拿起剑,乃邦国之喜悦(克里希纳)。杀死坚战之后,我将摆脱对真理的债务,成为无忧无热之人,啊,遮那陀那。

8.72.14

किं वा त्वं मन्यसे प्राप्तमस्मिन्कार्य उपस्थिते ।
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ॥ ८.७२.१४ ॥

此事既已发生,你认为应当如何?亲爱的,此世界之来来去去,你全都知道。

8.72.15

जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः ।
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥ ८.७२.१५ ॥

法与非法皆由你而生,至高的天启如此宣说。因此,你怎样告诉我,我便怎样去做。

8.72.16

धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः ॥ ८.७२.१६ ॥

“可耻,可耻!”说完这话,戈温达又对贝塔(阿周那)说道。

8.72.17

इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।
अकाले पुरुषव्याघ्र संरम्भं यद्भवानगात् ॥ ८.७२.१७ ॥

如今我明白了,贝塔,你未曾侍奉长者。人中之虎啊,你在不合时宜之时,竟任由怒气发作。

8.72.18

न हि धर्मविगज्ञैरेवं कार्यं धनञ्जय ।
यथा त्वं पाण्डवाद्येह धर्मभीरुरण्डितः ॥ ८.७२.१८ ॥

通晓法的人不应当像你这样行事,啊,财富征服者。你虽为般度族之首,又敬畏法,此处却这样做了。

8.72.19

योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते ।
कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः ॥ ८.७२.१९ ॥

不能理解不应做之事的行为与应做之事的不行为之间联系的人,阿周那啊,他是人中最卑劣的。

8.72.20

अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥ ८.७२.२० ॥

然而那些遵循法而来的智者,通晓简略与详尽者的决断,你并不知道。

8.72.21

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।
एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि ॥ ८.७२.२१ ॥

不知决断之人,在判定应做与不应做时,如此无助地陷入迷惑,正如你,阿周那啊,正在迷惑。

8.72.22

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन ।
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावहुध्यसे ॥ ८.७२.२२ ॥

应做或不应做之事,无论如何都不易知晓;一切皆由圣典(śruti)而知,而你并未领会。

8.72.23

अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित् ।
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे ॥ ८.७२.२३ ॥

你因无知而在此守护真理,精通法者啊。然而阿周那啊,你虽然行法,却不了解杀害众生之事。

8.72.24

प्राणिनां हि वधात्तात वृथा धर्मो मतो मम ।
अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन ॥ ८.७२.२४ ॥

亲爱的,我认为杀害众生则法便落空。可以说谎,但决不可施加暴力。

8.72.25

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥ ८.७२.२५ ॥

人中最好者啊,你怎能杀害你的长兄、通晓法的国王,就像普通人杀害另一个人一样?

8.72.26

अयुध्यमानस्य गुरोस्तथाऽशत्रोश्च मानद ।
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः ॥ ८.७२.२६ ॥

给予尊敬者啊,不应杀害不作战之人、老师、非敌人、转身逃跑之人,或前来寻求庇护之人。

8.72.27

कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च ।
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव ॥ ८.७२.२७ ॥

杀害合掌者、归降者、疏忽者,不为善人所赞许。这一切都适用于你的老师。

8.72.28

त्वया चैतद्व्रतं पार्थ बालेनेव कृतं पुरा ।
तस्मादधर्मसंयुक्तं मौर्ख्यादेव व्यवस्यसि ॥ ८.७२.२८ ॥

帕尔塔啊,你从前像孩子一样发下了这个誓愿。因此你只因愚昧,才决意去做这与非法相连的事。

8.72.29

स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि ।
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम् ॥ ८.७२.२९ ॥

帕尔塔啊,你为何怀着杀意冲向自己的老师,而未曾思量诸法那微妙难越的道路?

8.72.30

इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव ।
यद्ब्रूयात्तव भीष्मो वा राजा वापि युधिष्ठिरः ॥ ८.७२.३० ॥

般度之子啊,我将把这法的秘密告诉你,那是毗湿摩或甚至国王坚战也会对你所说的。

8.72.31

विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी ।
कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी।
तत्ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय ॥ ८.७२.३१ ॥

无论是毗杜罗或管家,还是荣耀的甘陀利,或贡蒂,婆罗多族的最优者,或荣耀的德劳帕蒂——我将如实告诉你;请明白这一点,财富征服者。

8.72.32

सत्यस्यं वचनं साधु न सत्याद्विद्यते परम् ।
सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे सतिः ॥ ८.७२.३२ ॥

真实之言是善的;没有比真实更高的了。然而真正理解它极为困难——我的确信是,那便是真实。

8.72.33

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥ ८.७२.३३ ॥

有时真实可能是不该说出的,而谎言可能是应当说出的——在谎言成为真实、真实成为谎言之处。

8.72.34

विवाहकाले रतिसम्प्रयोगे ।
प्राणात्यये सर्वत्रनापहारे।
विप्रस्य चार्थे ह्यनृतं वदेत ।
पञ्चानृतान्याहुरपातकानि ॥ ८.७२.३४ ॥

在婚礼之时、欢爱之际、性命危急之时——但并非一切场合,也非盗窃之时——为婆罗门之利益可以说谎;这五种谎言被称为无罪。

8.72.35

सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ।
तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥ ८.७२.३५ ॥

然而,在夺去一切财产之时,谎言可能是应当说出的;在那里,谎言成为真实,真实成为谎言。

8.72.36

तादृशो हन्यते बालो यस्य सत्यमनिश्चितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ ८.७२.३६ ॥

真实不定的愚人便会毁灭;唯有辨明真与假之后,人才成为通晓法者。

8.72.37

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ ८.७२.३७ ॥

若有智慧成熟之人,虽极为残忍,却因杀盲人而得大福,如白鹤一般,又有何奇怪?

8.72.38

किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः ।
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः ॥ ८.७२.३८ ॥

若愚昧无学之人虽愿行法,却如河中的猫头鹰一般获得大罪,又有何奇怪?

8.72.39

आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा ।
वलाकस्यानुसम्बद्धं नदीनां कौशिकस्य च ॥ ८.७२.३९ ॥

尊者,请将此告诉我,使我得以明白:白鹤的故事,以及与河流和猫头鹰相关的事。

8.72.40

मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।
यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः ॥ ८.७२.४० ॥

婆罗多之子啊,有一名猎鹿人名叫白拉迦。为养活妻子儿女,他杀鹿,并非出于贪欲。

8.72.41

वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।
स्वधर्मनिरतो नित्यं संविभज्यानसूयकः ॥ ८.७२.४१ ॥

他奉养年老的父母,以及依靠他的其他人。他始终专注于自己的职责,乐于分享,不生嫉妒。

8.72.42

स कदाचिन्मृगप्रेप्सुर्नान्वविन्दन्मृगं क्वचित् ।
अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम् ॥ ८.७२.४२ ॥

有一次,他寻找鹿却到处都找不到。这时他看见一只肥壮的猛兽,它的眼睛长在鼻子上。

8.72.43

अदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा ।
अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च ॥ ८.७२.४३ ॥

那从未见过的生灵当时被他杀死。盲者被杀后,天空中降下花雨。

8.72.44

अप्सरोगीतवादित्रैर्नादितं च मनोरमम् ।
विमानमगमत्स्वर्गान्मृगव्याधनिनीषया ॥ ८.७२.४४ ॥

天宫车辇回荡着阿普萨拉斯的歌声与乐器之声,欲接引猎人,飞往天界。

8.72.45

तद्भूतं सर्वभूतानामभावाय किलार्जुन ।
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ॥ ८.७२.४५ ॥

阿周那啊,那生灵是为了毁灭一切众生而存在的。它修苦行并得到恩惠后,被自生者本人弄瞎了。

8.72.46

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।
बलाकोऽगात्स्वर्गलोकमेवं धर्मः सुदुर्विदः ॥ ८.७२.४६ ॥

他杀死了那决意毁灭一切众生的白鹤,便升往天界。法便是如此难以知晓。

8.72.47

कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः ।
नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ॥ ८.७२.४७ ॥

憍尸迦也成为一位苦行且博学的婆罗门。他住在河流汇合处,离村子不远。

8.72.48

सत्यं मया सदा वाच्यमिति तस्याभवद्द्वतम् ।
सत्यवादीति विख्यातः स तदासीद्धनञ्जय ॥ ८.७२.४८ ॥

他的决心是:“我必须永远说真话。”达那阇耶啊,那时他便以“说真话者”而闻名。

8.72.49

अथ दस्युभयात्केचित्तदा तद्वनमाविशन् ।
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः ॥ ८.७२.४९ ॥

当时,人们因畏惧盗贼,有些人进入了那片森林。盗贼们愤怒地在那里仔细搜寻他们。

8.72.50

अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम् ।
कतरेण पथा याता भगवन्निति वै जनाः।
सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्थ शंस नः ॥ ८.७२.५० ॥

于是他们走近说真话的憍尸迦,说道:“尊者,人们是走哪条路的?我们以真实的名义相问;如果你知道,就告诉我们。”

8.72.51

सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस ह ।
बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः।
इति तान्ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः ॥ ८.७२.५१ ॥

然而,不知真实之微妙区分的憍尸迦,便将真相告诉了他们:“他们已经躲进了这片茂密的森林,里面满是树木、藤蔓和灌丛。”他就这样把实情告诉了他们。

8.72.52

ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ।
ततोऽधर्मेण महता वाग्दुरुक्तेन कौशिकः ॥ ८.७२.५२ ॥

据传,残忍的盗贼赶上他们并杀害了他们。随后,憍尸迦因巨大的不义和粗恶的言语,

8.72.53

गतः सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित् ।
दृष्टपूर्वश्रुतो मूढो धर्माणामविशारदः ॥ ८.७२.५३ ॥

憍尸迦不懂法的微妙之处的真谛,迷惑而不精通法,虽曾见闻,却堕入了可怕的地狱。

8.72.54

वृद्धानपृच्छन्सन्देहानन्धः श्वभ्रमिवर्च्छति ॥ ८.७२.५४ ॥

不向长者询问疑惑的人,就像盲人落入深坑一样堕落。

8.72.55

तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ।
दुष्करं प्रतिसंख्यानं कार्त्स्न्येनात्र व्यवस्थितिः ॥ ८.७२.५५ ॥

在那里,你必定会得到一些关于法之标志的指示;要全面审察此事很难,此事也没有完全确定的定论。

8.72.56

सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः ।
न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते ॥ ८.७२.५६ ॥

有些人,还有许多人说,真实即是法。我并不责备阿周那,但这并非处处通行。

8.72.57

श्रुतिस्तु धार्या इत्येके वदन्ति बहवो जनाः ।
न त्वेतत्प्रत्यसूयामि तत्र सर्वं विधीयते ॥ ८.७२.५७ ॥

许多人说应当持守天启圣典(吠陀)。但我并不反对此说;那里一切都有所规定。

8.72.58

यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ।
अहिंसार्थाय हिंस्राणां धर्मप्रवचनं कृतम्।
धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः ॥ ८.७२.५८ ॥

与不害相应者即是法,这是确定的结论。关于法的教导是为了让暴戾者走向不害而宣说的。因其持守,所以称之为法;法持守众生。

8.72.59

प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यस्मात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥ ८.७२.५९ ॥

法的教导是为了众生的兴盛而宣说的;与兴盛相应者即是法,这是确定的结论。

8.72.60

येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः ।
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ॥ ८.७२.६० ॥

那些想以不义取胜而询问法的人。若因沉默而得解脱,那么在这里,无论如何都不应出声。

8.72.61

अवश्यं कूजितव्ये ह शङ्केरन्वाप्यकूजनात् ।
येऽन्यायेन जिहीर्षन्तो धर्मं पृच्छन्ति कस्यचित्।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चित्म् ॥ ८.७२.६१ ॥

若必须言语,沉默可能引起怀疑。当那些想以不义取胜的人向人询问法时,已确定在此处说谎胜于说真话。

8.72.62

प्राणात्यये विवाहे वा सर्वजात्या महाभये ।
सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत् ॥ ८.७२.६२ ॥

在危及生命、婚姻、任何大难之中,或在失去一切财产时,可能必须说谎。

8.72.63

अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः ।
सर्वथाऽभिवदेत्तत्तु नानृतं स्याद्विचक्षणः ॥ ८.७२.६३ ॥

在那里,智者不以说谎为不义。明智者应全部说出;那就不是谎言。

8.72.64

यः स्तेनैः सह सम्बन्धो मुच्यते शपथादपि ।
भवेत्तत्रानृतं श्रेयः सत्यादिति विचारितम् ॥ ८.७२.६४ ॥

与盗贼的关系,即使以誓言也可脱离,在那里经考虑,说谎胜于说真话。

8.72.65

न च तेभ्यो धनं देयं सत्यादिति कथञ्चन ।
पापेभ्योऽपि धनं दत्तं दातारमपि पीडयेत्।
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥ ८.७२.६५ ॥

即使以真理为名,也不应把财物给予他们。给予恶人的财物也会折磨施予者。因此,为了法而说谎的人不会成为说谎者。

8.72.66

एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि ।
एतज्ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥ ८.७२.६६ ॥

这些标志的指示,我已依规则向你宣说。知道这些后,说吧,般度之子,尤迪希提罗是否应当被杀。

8.72.67

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः ॥ ८.७२.६७ ॥

如大智者、大名声者所言。

8.72.68

सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया ।
भवान्मातृसमोऽस्माकं भवान्पितृसमोऽपि च।
गतिश्च परमा कृष्ण त्वमेव च परायणम् ॥ ८.७२.६८ ॥

如朋友对我们所言,你也如此说。你对我们如母亲,也如父亲。克里希那啊,你才是最高的归宿与依靠。

8.72.69

न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ।
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥ ८.७२.६९ ॥

三界之中,对你而言从无未知之事。因此你完全如实地知晓至上的法。

8.72.70

अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ।
अधर्मयुक्ते संयोगे ब्रूहि किञ्चिदनुग्रहम् ॥ ८.७२.७० ॥

我认为法王般度之子坚战不可被杀。在这场与非法相连的交战中,请说些恩惠之言。

8.72.71

इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम् ॥ ८.७२.७१ ॥

此处也请再说一件事:你想说的那个真理。

8.72.72

जानासि दाशार्ह मम व्रतं तु ।
यो मां ब्रूयात्कश्चन मानुषेषु।
अन्यस्मै त्वं गाण्डिवं देहि पार्थ ।
यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः ॥ ८.७२.७२ ॥

达沙尔哈啊,你知道我的誓言。人中若有人对我说:“帕尔塔,把甘狄拔弓交给别人吧”,而他在武器或勇力上胜过我者。

8.72.73

हन्यामहं केशव तं प्रसह्य ।
भीमो हन्यात्तूवरकेति चोक्तः।
वन्मां राजा ह्युक्तवांस्ते समक्षं ।
धनुर्देहीत्यसकृद्वृष्णिवीरे ॥ ८.७२.७३ ॥

克舍婆啊,我要以力量杀死他。怖军称他为“杜伐罗迦”。国王在你面前反复对我说:“把弓给他”,啊,檀尼之英雄。

8.72.74

तं हन्यां चेत्केशव जीवलोके ।
स्थाता नाहं कालमप्यल्पमात्रम्।
ध्यात्वा नूनं ह्येनसा चापि मुक्तो ।
वधं राज्ञो भ्रष्टवीर्यो विचेताः ॥ ८.७२.७४ ॥

克舍婆啊,若我在此世间杀了他,我连片刻也活不下去。想着杀了国王就必定能免除罪过,我失去了勇力,心神迷乱……

8.72.75

यथा प्रतिज्ञा मम लोकबुद्धौ ।
भवेत्सत्या धर्मभृतां वरिष्ठ।
यथा जीवत्पाण्डवोऽहं च कृष्ण ।
तथा बुद्धिं दातुमप्यर्हसि त्वम् ॥ ८.७२.७५ ॥

啊,持法者中最优秀的人啊,愿我的誓言在世人眼中成真;啊,克里希那,愿我作为般度之子而活,你也应当赐我这样的智慧。

8.72.76

राजा श्रान्तो विक्षतो दुःखितश्च ।
कर्णेन सह्ख्ये निशितैर्बाणसङ्घैः।
यश्चानिशं सूतपुत्रेण वीर ।
शरैर्भृशं ताडितो युध्यमानः ॥ ८.७२.७६ ॥

国王疲惫、受伤而悲痛,在与御者之子迦尔纳的战斗中,被成群锐利的箭矢不断而猛烈地击中,啊,英雄,他仍在奋战。

8.72.77

अतस्त्वमेतेन सरोषमुक्तो ।
दुःखान्वितेनेदमयुक्तरूपम्।
अकोपितो ह्येष यदि स्म सङ्ख्ये ।
कर्णं न हन्यादिति चाब्रवीत्सः ॥ ८.७२.७७ ॥

因此,请听这位充满悲痛的人在愤怒中说出的不当之言。他说,若他不愤怒,他就不会在战斗中杀死迦尔纳。

8.72.78

जानाति तं पाण्डव एष चापि ।
पापं लोके कर्णमसह्यमन्यैः।
ततस्त्वमुक्तो भृशरोषितेन ।
राज्ञा समक्षं परुषाणि पार्थ ॥ ८.७२.७८ ॥

般度之子也知道此事:世间认为迦尔纳是令他人无法容忍的罪人。于是那极度愤怒的国王当着众人的面对你说了严厉的话,普利塔之子啊。

8.72.79

नित्योद्युक्ते सततं चाप्रसह्ये ।
कर्णे द्यूतं ह्यद्य रणे निबद्धम्।
तस्मिन्हते कुरवो निर्जिताः स्यु… ।
रेवं बुद्धिः पार्थिवे धर्मपुत्रे ॥ ८.७२.७९ ॥

迦尔纳时刻准备,且始终不可战胜;今日在战场上,赌注已押在他身上。若他被杀,俱卢族将被击败。国王和法之子的想法正是如此。

8.72.80

ततो बधं नार्हति धर्मपुत्र… ।
स्त्वया प्रतिज्ञाऽर्जुन पालनीया।
जीवन्नयं येन मृतो भवेद्धि ।
तन्मे निबोधेह तवानुरूपम् ॥ ८.७२.८० ॥

因此,杀害法之子是不合适的;阿周那啊,你的誓言必须遵守。请在这里听我说那适合你的办法,使他虽活着却如同已死。

8.72.81

यदा मानं लभते माननार्ह… ।
स्तदा स वै जीवति जीवलोके।
यदाऽवमानं लभते महान्तं ।
तदा जीवन्मृत इत्युच्यते सः ॥ ८.७२.८१ ॥

值得尊敬的人获得尊敬时,他才真正活在生者的世界中;而他遭受极大的羞辱时,尽管活着,却被称为死人。

8.72.82

सम्मानितः पार्थिवोऽयं सदैव ।
त्वया च भीमेन तथा यमाभ्याम्।
वृद्धैश्च लोके पुरुषैश्च शूरै… ।
स्तस्यापमानं कलया प्रयुङ्क्ष्व ॥ ८.७२.८२ ॥

这位国王一向受到你、毗摩以及两位耶摩之子的尊敬;在世间,他也受到长者、男子和英雄们的尊崇。因此,请使他稍稍蒙受些羞辱吧。

8.72.83

त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम् ।
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥ ८.७२.८३ ॥

阿周那啊,请以“你”(tvam)称呼尊敬的坚战;因为婆罗多啊,被称作“你”的师长便等同于被杀。

8.72.84

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह ॥ ८.७२.८४ ॥

昆提之子啊,对法王坚战应当如此行事;库鲁之最啊,对他行不义之事吧。

8.72.85

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।
अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा ॥ ८.७२.८५ ॥

此阿闼婆-安吉罗娑之明是诸吠陀启示中最上者;求福之人应当始终不加思量地奉行。

8.72.86

अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः ।
तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित् ॥ ८.७२.८६ ॥

主啊,既然以“你”称呼师长被说成是以“不杀”之法而行杀害,那么智法者啊,请把我所说的告诉法王。

8.72.87

यदा ह्यं पाण्डव धर्मराज… ।
सत्वत्तोऽयुक्तं लप्स्यते चैव साधु।
ततोऽस्य पादावभिवाद्य पश्चा… ।
च्छ्रेयो ब्रूयात्सान्त्वयुक्तं हितं च ॥ ८.७२.८७ ॥

般度之子啊,当这位法王从你那里得到不当之事,也得到良善之事时;那就应当向他顶礼双足,然后……说出带来福祉、安抚且有益的言语。

8.72.88

भ्राता प्राज्ञस्तव कोपं न जातु ।
कुर्याद्राजा धर्ममार्गानुसारी।
मुक्तोऽनृताद्वातृवधाच्च पापा… ।
द्धृष्टः कर्णं त्वं जहि पार्थ पश्चात् ॥ ८.७२.८८ ॥

愿你那智慧的兄长永不动怒。愿遵循法道的国王远离虚妄、杀害兄弟之罪与罪孽。普利塔之子啊,无畏地杀死迦尔纳吧,之后……