Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.74.1

एतच्छ्रुत्वा पाण्डवो धर्मराजो ।
भ्रातुर्वाक्यं परुषं फल्गुनस्य।
उत्थाय तस्माच्छयनादुवाच ।
पार्थं ततो दुःखपरीतचेताः ॥ ८.७४.१ ॥

般度之子法王听闻其弟Phalguna的严厉之言,便从床上起身,心被忧愁所困,对Pārtha说道。

8.74.2

कृतं मया पार्थं न साधुकर्म ।
येन प्राप्तं व्यसनं वः सुघोरम्।
तस्माच्छिरश्छिन्धि ममैतदद्य ।
कुलान्तकस्याधमपूरुषस्य ॥ ८.७४.२ ॥

Pārtha啊,我没有做过任何善行,因此你们遭受了极其可怕的灾难。所以今天就斩下我的头吧,这个毁灭家族的卑劣之人的头。

8.74.3

पापस्य पाप्मोहतस्य वीर ।
विमूढबुद्धेरलसस्य भीरोः।
वृद्धावमन्सुः परुषत्य चैव ।
किं ते चिरं मामनुसृज्य रूक्षम् ॥ ८.७४.३ ॥

勇士啊,你如此长久地以严厉之言追逐我这有罪、被罪所困、心智迷乱、懒惰怯懦、轻慢长辈的人,你能得到什么呢?

8.74.4

गच्छाम्यहं वनमद्यैव पापः ।
सुखं भवान्वर्ततां मद्विहीनः।
योग्यो राजा भीमसेनो महात्मा ।
क्लीबस्य किं वा मम राज्यकृत्यम् ॥ ८.७४.४ ॥

我今日便要入林去,我这罪人。愿你没有我而安乐度日。配做国王的是大德的Bhīmasena。无能之人,治国之事与他何干?

8.74.5

न चापि शक्तः परुषाणि सोढुं ।
पुनस्तवेमानि रुषान्वितस्य।
भीमोऽस्तु राजा मम जीवितेन ।
न कार्यमद्यावमतस्य वीर ॥ ८.७४.५ ॥

你这些严厉之言,我已无力再忍受。只要我还活着,就让Bhīma做国王吧。勇士啊,我这受辱之人,今日已无事可做。

8.74.6

इत्येवमुक्त्वा सहसोत्पपात ।
रुषान्वितस्तच्छयनं विहाय।
इयेष निर्गन्तुमथो वनाय ।
तं वासुदेवः प्रणतोऽभ्युवाच ॥ ८.७४.६ ॥

说完这些,他突然跳起身来。满怀愤怒,他离开床榻,想要前往森林。此时,婆薮提婆低头致敬,对他说道。

8.74.7

न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः ।
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ॥ ८.७४.७ ॥

大王,您难道不知道执持甘狄拔弓、信守誓言者,关于甘狄拔弓所发的誓言已广为宣布吗?

8.74.8

ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत ।
वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम् ॥ ८.७४.८ ॥

若有人对他说:"把甘狄拔弓交给别人吧",此人在世间当处死;而这样的话,你自己已经说过了。

8.74.9

ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता ।
मच्छन्दादवमानोऽयं कृतस्तव महीपते ॥ ८.७४.९ ॥

于是普利塔之子为守护那真实的誓言,应我的要求,大地之主啊,对你做了此次侮辱。

8.74.10

गुरूणामवमानो हि वध इत्यभिधीयते ।
तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः ॥ ८.७४.१० ॥

因为对长辈的侮辱被称为杀戮;因此,大臂者啊,请宽恕我与普利塔之子二人吧。

8.74.11

व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति ।
शरणं त्वां महाराज प्रतिपन्नावुभावपि ॥ ८.७४.११ ॥

大王,为了守护真实而造成的这一违犯,大王啊,我们二人都已来投靠您。

8.74.12

क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ।
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ॥ ८.७४.१२ ॥

大王啊,你应当宽恕我这俯首恳求之人。今日大地将饮下这罪人罗陀之子的血。

8.74.13

सत्यं ते प्रतिजानामि हतं विद्व्यद्य सूतजम् ।
यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम् ॥ ८.७४.१३ ॥

我向你真诚承诺:今日你应知御者之子已被杀。你所希望杀死的那人,今日的生命已经终结。

8.74.14

इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा।
कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम् ॥ ८.७४.१४ ॥

法王坚战听闻黑天这番话,心中慌乱,扶起俯首的希利喀什,合掌随即说出了这些话。

8.74.15

एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम ।
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव ॥ ८.७४.१५ ॥

正如你所说,这过失是我的。哦,戈文达,我被你说服了;哦,摩陀婆,我被你救度了。

8.74.16

मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत ।
भवन्तं नावमासाद्य ह्यावां व्यसनसागरात्।
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥ ८.७४.१६ ॥

阿周那多啊,今日你使我们脱离了可怕的灾难。我们二人被无知所迷,因得你作为船只,已渡过这可怕的灾难之海。

8.74.17

त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ।
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ ८.७४.१७ ॥

阿周那多啊,我们得到你智慧的筏子,与大臣们一同渡过了悲伤与忧愁之海;因你,我们有了依怙。