Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.75.1

इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् ।
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥ ८.७५.१ ॥

于是,阿周那依克里希那之言向坚战重复了那番话后,心中烦乱,仿佛犯下了某种罪过。

8.75.2

ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् ।
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥ ८.७५.२ ॥

于是婆苏提婆(克里希那)仿佛微笑着对般度之子说道:“阿周那啊,若你是生于法的,这怎能发生呢?”

8.75.3

असिना तीक्ष्णधारणे हन्या धर्मे व्यस्थितम् ।
त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः ॥ ८.७५.३ ॥

“你应当以利剑击杀那位安立于法中的君王”——你说了这话之后,便这样陷入了对君王的迷惑。

8.75.4

हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम् ।
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥ ८.७५.४ ॥

杀了君王之后,阿周那啊,你将如何回答?法就是这样难以理解,尤其是对愚钝的人。

8.75.5

स भवान्धर्मभीरुत्वाद्धवं यायान्महत्तमः ।
नरकं घोररूपं च भ्रातुर्ज्येतुस्य वै वथात् ॥ ८.७५.५ ॥

你这最伟大的人,出于对法的畏惧,因杀害兄长而将堕入可怕的地狱。

8.75.6

स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् ।
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥ ८.७५.६ ॥

因此,你应当使那位君王喜悦——他是持法者中最杰出的,具足法,是俱卢族中的最上者。这就是我在此事上的意见。

8.75.7

प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे ।
प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति ॥ ८.७५.७ ॥

二人以虔敬安抚了国王,且坚战心悦,遂迅速前往与御者之子的战车交战。

8.75.8

हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः ।
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥ ८.७५.८ ॥

今日以利箭在战场杀死迦尔纳,为法子带来巨大的喜悦,哦,赐予尊荣者。

8.75.9

एतदत्र महाबाहो प्राप्तकालं मतं मम ।
एवं कृते कृतं चैव तव कार्यं भविष्यति ॥ ८.७५.९ ॥

大臂者啊,这是我的看法,正合时宜。如此行事,你的事业也将成就。

8.75.10

ततोऽर्जुनो महाराज लज्जपा वै समन्वितः ।
धर्तराजस्य चरणौ प्रपद्य शिरसा नतः ॥ ८.७५.१० ॥

大王啊,阿周那满怀羞愧,低首俯伏于法王的足下。

8.75.11

उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः ।
क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा ॥ ८.७५.११ ॥

他一再对婆罗多之最者说:“请息怒。大王啊,我敬畏法,请宽恕我对您所说的话。”

8.75.12

पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः ।
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभम् ॥ ८.७५.१२ ॥

法王坚战见到敌人的击杀者财富征服者伏于足下哭泣,遂望向婆罗多之牛。

8.75.13

उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् ।
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥ ८.७५.१३ ॥

法王(坚战)扶起兄弟财胜(阿周那),深情地拥抱他,放声痛哭。

8.75.14

रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती ।
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः ॥ ८.७५.१४ ॥

大王啊,这两位大光明的兄弟哭泣良久,净身之后,彼此生出了深厚的情谊。

8.75.15

तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः ।
प्रीत्या परमया युक्तो विस्मयंश्च पुनःपुनः।
अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम् ॥ ८.७५.१५ ॥

于是般度之子紧紧拥抱他,以深爱吻其头顶,满怀至上的情意,一次又一次地惊叹,对那位大弓箭手财胜说道,法王如是说。

8.75.16

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः ।
कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः।
शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥ ८.७५.१६ ॥

大臂者啊!在全军注视之下,迦尔纳在战斗中用箭斩断了我正在奋战时的铠甲、旗帜、弓、枪、马匹与箭矢。

8.75.17

सोऽहं दृष्ट्वा रणे तस्य कर्ण कर्णस्य फल्गुन ।
व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम् ॥ ८.७५.१७ ॥

财胜啊,我见迦尔纳在战场上那般神勇,心中痛苦得几乎垮下;然而我所珍爱的生命,在我看来也已不再珍贵。

8.75.18

न चेदद्य हि तं वीरं निहनिष्यसि संयुगे ।
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥ ८.७५.१८ ॥

今日你若不在战场上杀死那位英雄,我必将舍弃我的生命;我的活着还有什么意义呢?

8.75.19

एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ॥ ८.७५.१९ ॥

婆罗多之牛维阇耶如此被问后答道。

8.75.20

सत्येन ते शपे राजंस्त्वत्पादेन तथैव च ।
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥ ८.७५.२० ॥

国王啊,我以真理向你发誓,以你的双足发誓,以比玛发誓,人中最优秀者啊,也以双生子发誓,大地之主啊。

8.75.21

अहमेनं नरश्रेष्ठ सामात्यं च महीपते ।
यथाद्य समरे कर्णं हनिष्यामि हतोपि वा।
महीतले पतिष्यामि सत्येनायुधमालभे ॥ ८.७५.२१ ॥

人中最优秀者啊,大地之主啊,我今日必在战斗中连同他的大臣们杀死迦尔纳;无论我被杀或倒在地上;我以真理触摸我的武器。

8.75.22

एवमाभाष्य राजानमब्रवीन्माधवं वचः ।
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः।
त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥ ८.७५.२२ ॥

他如此对国王说后,又对摩陀婆(克里希那)说道:克里希那啊,今日在战斗中我必定杀死迦尔纳;请思量那恶意之人的被杀,愿你吉祥。

8.75.23

एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम ।
शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम् ॥ ८.७५.२३ ॥

如此被问后,凯沙婆对般度之子(阿周那)说:王中最优秀者,婆罗多中最优秀者啊,你有能力去努力做你对我所说的事。

8.75.24

एष चापि हि मे कामो नित्यमेव महारथ ।
कथं भवान्रणे कर्णं निहन्यादिति सत्तम ॥ ८.७५.२४ ॥

大车士啊,这也是我一直的愿望:你如何在战斗中杀死迦尔纳,人中最优秀者啊。

8.75.25

एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत् ।
हन्यते द्वैरथे भूयो युज्यन्तां वै रथोत्तमे ॥ ८.७५.२५ ॥

王啊,被如此说后,普利塔之子又说了这些话:“让他在单打中被杀;让最好的战车套上。”

8.75.26

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः ।
रथोपकरणैः सर्वैः सत्वरं यातु मे रथः ॥ ८.७५.२६ ॥

被召回并由骑兵训练的马匹,连同全部战车装备——愿我的战车迅速前行。

8.75.27

एवमुक्तो महाराज फल्गुनेन महात्मना ।
उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत्।
अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ८.७५.२७ ॥

大王啊,被伟大的法尔古那如此说后,黑天对达录迦说:“做阿周那所说的一切”——阿周那,婆罗多族中最优秀者,一切射手中的第一人。

8.75.28

आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम ।
योजयामास च रथं वैयाघ्नं शत्रुतापनम्।
सज्जं निवेदयामास पाण्डवस्य महात्मनः ॥ ८.७५.२८ ॥

奉黑天之命,王中最优秀者啊,达录迦套上了虎纹战车——那令敌人灼烧之车——并向伟大的般度之子报告已经准备就绪。

8.75.29

युक्तं तु रथमास्थाय दारुकेण महात्मना ।
उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत्।
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् ॥ ८.७५.२९ ॥

登上大勇者达录迦所驾之车,见车已到来,莲花脐的摩陀婆,战争的终结者,智慧的,又对法之子说道。

8.75.30

युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ।
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥ ८.७५.३० ॥

“尤迪施提拉啊,你应当安抚这位比跋苏,今日准许他诛杀恶心的迦尔纳。”

8.75.31

श्रुत्वा ह्यावां महासंख्ये त्वां कर्णशरपीडितम् ।
प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन ॥ ८.७५.३१ ॥

闻知你在大战中被迦尔纳的箭所伤,般度之子啊,我们二人特来探问你的情况。

8.75.32

दिष्ट्यासि राजन्विरुजो दिष्ट्या न ग्रहणं गतः ।
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥ ८.७५.३२ ॥

幸而,国王啊,你已免于痛苦;幸而你未被俘获。无瑕的人啊,去安慰比跋特苏(阿周那),并祈求胜利吧。

8.75.33

एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव ।
वक्तव्यमुक्तोस्म्यहितं त्वया क्षान्तं च तन्मया ॥ ८.७५.३३ ॥

来吧,来吧,普利塔之子,比跋特苏,般度之子,拥抱我吧。我说了不悦耳的话;你忍受了,我也原谅了。

8.75.34

अहं त्वामनुजानामि जहि कर्णं धनञ्जय ।
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणं ॥ ८.७५.३४ ॥

达那贾耶啊,我允许你;杀死迦尔纳吧。普利塔之子啊,不要因我对你所说的严厉之言而生气。

8.75.35

ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा ।
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥ ८.७५.३५ ॥

于是,国王啊,达那贾耶低首致礼,用双手握住了他长兄的双脚,尊贵的人啊。

8.75.36

तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम् ।
मूर्ध्नुपाघ्राय चैवैनमिदं पुनरुवाच ह ॥ ८.७५.३६ ॥

于是国王扶起他,虽然他饱受痛苦,仍拥抱他,又嗅他的头顶,然后再次说道。

8.75.37

धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया ।
माहात्म्यं विजयं चैवं भूयः प्राप्नुहि शाश्वतम् ॥ ८.७५.३७ ॥

德南遮耶啊,大臂者,你深深地尊敬了我。愿你再次获得荣耀与永恒的胜利。

8.75.38

अद्य तं पापकर्माणं सानुबन्धं रणे शरैः ।
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥ ८.७५.३८ ॥

今天在战场上,我将用箭接近那个作恶的、以力量自负的罗陀之子迦尔纳,连同他的部下,将他送入终结。

8.75.39

येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् ।
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम् ॥ ८.७५.३९ ॥

他拉紧弓箭、以箭射伤你,那行为的可怕果报,今日迦尔纳将要承受。

8.75.40

अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते ।
सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते ॥ ८.७५.४० ॥

大地之主啊,今日杀死迦尔纳后,我将来到你面前,使你脱离哀号而受我敬重。这是我对你的真实之言。

8.75.41

नाहत्वा विनिषर्तिष्ये कर्णमद्य रणाजिरात् ।
इति सत्येन ते पादौ स्पृशामि जगतीपते ॥ ८.७५.४१ ॥

今日若不杀死迦尔纳,我绝不会从战场返回。凭此真实,大地之主啊,我触碰你的双足。

8.75.42

इति ब्रुवाणं सुमनाः किरीटिनं ।
युधिष्ठिरः प्राह वचो बृहत्तरम्।
यशोऽक्षयं जीवितमीप्सितं ते ।
जयं सदा वीर्यमरिक्षयं तदा ॥ ८.७५.४२ ॥

对如此说话的冠者,欢喜的坚战说出了这番重要的话:愿你获得不朽的荣誉、所愿的生命、永远的胜利,以及歼灭敌人的勇力。

8.75.43

प्रयाहि वृद्धिं च दिशन्तु देवता ।
यथाहमिच्छामि तवास्तु तत्तथा।
प्रयाहि शीघ्रं जहि कर्णमाहवे ।
पुरन्दरो वृत्रमिवात्मवृद्वये ॥ ८.७५.४३ ॥

去吧,愿诸神赐你增长。愿我所愿之事于你成真。快去战场上杀死迦尔纳,正如补罗陀罗(因陀罗)为自身增长而杀死弗栗多。