Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.77.1

ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।
कृतसङ्कल्पमायान्तं वधे कर्णस्य भारत ॥ ८.७७.१ ॥

于是无量自性的克舍婆对阿周那说——正怀着杀死迦尔纳的决心前进的他,婆罗多啊。

8.77.2

अद्य सप्तदशाहानि वर्तमानस्य नित्यशः ।
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥ ८.७७.२ ॥

今天已经过去十七天,人、象、马这极其可怖的毁灭不停地持续着。

8.77.3

भूत्वा हि विपुला सेना तावकानां परैः सह ।
अन्योन्यं समरं प्राप्य किञ्चिच्छेषा विशाम्पते ॥ ८.७७.३ ॥

你方庞大的军队与敌人在战场上彼此相遇,人主啊,如今只剩下少许。

8.77.4

भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः ।
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥ ८.७७.४ ॥

普利塔之子啊,象马众多的俱卢人,遇上像你这样的敌人,在战阵前沿被消灭了。

8.77.5

एते ते पृथिवीपालाः सृञ्जयाश्च समागताः ।
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥ ८.७७.५ ॥

你的这些国王和斯林加耶人都已聚集,般度之子们也已坚定地站在你这不可战胜者的面前。

8.77.6

पाञ्चालैः पाण्डवैर्मात्स्यैः कारूशैश्चेदिभिः सह ।
मगधैः पारिजातैश्च दाक्षिणात्यैः सकेरलैः।
त्वया गुप्तैरमित्रघ्नैः कृतः शत्रुगणक्षयः ॥ ८.७७.६ ॥

与般遮罗、般度、摩茨亚、迦如沙、制底、摩揭陀、波利耶陀、南方人与喀拉腊人一道——在你的庇护下,那些杀敌的勇士——完成了对敌军的歼灭。

8.77.7

को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे ।
अन्यत्र पाण्डवाद्युद्धे श्वेताश्वाद्वानरध्वजात् ॥ ८.७७.७ ॥

亲爱的,在战斗中谁能战胜俱卢族?除了那位白马、猴旗的般度之子。

8.77.8

शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान् ।
त्रींल्लोकान्समरे युक्तान्किं पुनः कौरवं बलम् ॥ ८.७७.८ ॥

你在战场上确能战胜列阵而战的三界,包括天神、阿修罗与人类,何况俱卢的军队?

8.77.9

भगदत्तं च राजानं कोऽन्यः शक्तस्त्वया विना ।
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥ ८.७७.९ ॥

人中之虎啊,除你之外,谁能战胜国王婆伽陀?即便他如因陀罗一般。

8.77.10

तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ ।
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम् ॥ ८.७७.१० ॥

无瑕的般度之子啊,这支由你守护的庞大军队,诸王连用眼睛看都做不到。

8.77.11

तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे ।
धृष्टद्युम्नशिखण्डिभ्यां द्रोणभीष्मौ निपातितौ ॥ ८.७७.११ ॥

同样,般度之子啊,蒙你持续守护的猛光与曲毛在战斗中击倒了德罗纳与毗湿摩。

8.77.12

को हि शक्तो रणे पार्थ भारतानां महारथौ ।
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥ ८.७७.१२ ॥

般度之子啊,谁能在战斗中战胜那两位婆罗多族大车勇士,武勇如因陀罗的毗湿摩与德罗纳?

8.77.13

को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम् ।
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ॥ ८.७७.१३ ॥

谁能在战场上战胜檀努之子毗湿摩、德罗纳、毗迦尔达那之子迦尔纳、克里帕、德罗纳之子马嘶、苏摩达塔之子和克里特婆摩?

8.77.14

सैन्धवं मद्रराजं च राजानं च सुयोधनम् ।
वीरान्कृतास्त्रान्समरे सर्वानेवानिवर्तिनः ॥ ८.७७.१४ ॥

谁能战胜信度王、摩德罗国王、国王难敌,以及在战场上精通兵器、从不退缩的所有英雄?

8.77.15

अक्षौहिणीपतीनुग्रान्संहतान्युद्धदुर्मदान् ।
त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह ॥ ८.७७.१५ ॥

人中之虎啊!在这世上,除了你,还有谁能战胜那些统领大军的将领——凶猛、团结、在战斗中骄傲的人?

8.77.16

श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः ।
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥ ८.७७.१६ ॥

许多部队被消灭,马匹、战车与象群四散;来自诸多国土、凶猛而不忍受侮辱的刹帝利也都已覆灭。

8.77.17

गणाश्च दासमीयानां वसातीनां च भारत ।
प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम्। ॥ ८.७७.१७ ॥

婆罗多啊,还有达萨美耶人、婆萨提人、东方诸族、瓦塔陀那人,以及高傲的跋贺人的部众,也都已覆灭。

8.77.18

उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत ।
त्वां समासाद्य निधनं गता भीमं च भारत ॥ ८.७७.१८ ॥

婆罗多啊,所有刹帝利的大军,战马与象群奋起,却在与你和毗摩相遇之后走向了毁灭,婆罗多啊。

8.77.19

उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः ।
दार्वाभिसारा दरदाः शका माठरतङ्कणाः ॥ ८.७७.१९ ॥

行事凶猛可怖的人:图沙罗人、耶婆那人、卡沙人、达尔瓦-阿比沙罗人、达罗陀人、塞人、摩他罗人与疃堪那人。

8.77.20

आन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः ।
म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः ॥ ८.७७.२० ॥

安陀罗人与普林达人,勇猛的吉拉塔人,蛮夷,山居之人,以及居住在海边与沼泽岸边的人。

8.77.21

संरम्भिणो युद्धशौण्डा बलिनो दण्डपाणयः ।
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह।
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ॥ ८.७७.२१ ॥

这些愤怒、善战、有力、手持棍棒的人,为了苏尤陀那而与俱卢人同怒,除你之外,无人能在战场上击败他们,敌人的焚烧者啊。

8.77.22

एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह ।
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ॥ ८.७७.२२ ॥

这些人为了苏尤陀那而与俱卢人同怒,除你之外,无人能在战场上击败他们,敌人的焚烧者啊。

8.77.23

धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद्बलम् ।
यदि त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥ ८.७७.२३ ॥

见到持国之子那强盛而布阵严整的大军,若你不是护卫者,世人谁还敢相信?

8.77.24

तत्सागरमिवोद्वूतं रजसा संवृतं बलम् ।
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥ ८.७७.२४ ॥

那支如大海般翻涌、被尘土笼罩的军队,被愤怒的般度之子撕裂并击溃,主啊,而他们是受你庇护的。

8.77.25

मागधानामधिपतिर्जयत्सेनो महाबलः ।
अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना ॥ ८.७७.२५ ॥

今日,摩揭陀之主、大力的耆耶森那在战斗中被阿毗曼尤所杀,仅仅七日之内。

8.77.26

ततो दशसहस्राणि गजानां भीमकर्मणाम् ।
जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ॥ ८.७७.२६ ॥

于是,毗摩用他的棒槌击杀了那位国王随从中、行为可怖的一万头大象。

8.77.27

तथान्येऽभिहता नागा रथाश्च शतशो बलात् ।
तदेवं समरे पार्थ वर्तमाने महाभये ॥ ८.७७.२७ ॥

同样,其他大象和数百辆战车也被强力击毁。如此,阿周那啊,战斗在巨大的恐怖中持续着。

8.77.28

भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ।
सवाजिरथमातङ्गा मृत्युलोकमितो गताः ॥ ८.७७.२८ ॥

俱卢族与毗摩森那及你,俱交战,连同马匹、战车与大象,已自此赴死亡之界。

8.77.29

तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः ।
भीष्मः प्रासृजदुग्राणि शरतालानि मारिष ॥ ८.७७.२९ ॥

彼时,军队前锋被般度子孙所杀,毗湿摩啊,阿周那,他射出了如棕榈树般巨大的凶猛箭矢,尊者啊。

8.77.30

सचेदिकाशिपाञ्चालान्करूशान्मात्स्यकेकयान् ।
शरैः प्रच्छाद्य निधनमनयत्परमास्त्रवित् ॥ ८.७७.३० ॥

以箭遮蔽车底、迦尸、般遮罗、迦卢沙、摩差和居迦耶人,精通至上神兵者使他们走向死亡。

8.77.31

तस्य चापच्युतैर्बाणैः परदेहविदारणैः ।
पूर्णमाकाशमभवद्रुक्मपुह्खैरजिह्मगैः ॥ ८.७७.३१ ॥

他从弓上射出的箭矢撕裂敌人的身体,金羽笔直飞行,天空被填满。

8.77.32

हन्याद्रथसहस्राणि एकैकेनैव मुष्टिना ।
लक्षं नरद्विपान्हत्वा समेतान्समहाबलान् ॥ ८.७७.३२ ॥

他只需一拳,便能击倒数千辆战车;他杀死了聚集的十万名勇猛的人和象。

8.77.33

गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् ।
हित्वा नवगतीर्दुष्टाः स बाणानाहवेऽत्यजत् ॥ ८.७७.३३ ॥

他们以第十种步伐前进,击杀了马、战车和象;那凶暴者舍弃九种步伐,在战中放箭。

8.77.34

दिनानि दश भीष्मेण निघ्नता तावकं बलम् ।
शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥ ८.७७.३४ ॥

十日间,毗湿摩击杀你的军队,使战车座位空空如也;象与马都被杀死。

8.77.35

दशमेऽहनि सम्प्राप्ते कृत्वा घोरं पराक्रमम् ।
दर्शयित्वाऽऽत्मनो रूपं रुद्रोपेन्द्रसमं युधि ॥ ८.७७.३५ ॥

到了第十日,他展现出可怕的勇力,在战中显现出与楼陀罗和优婆因陀罗相等的自身形象。

8.77.36

पाण्डवानामनीकानि प्रविगाह्य विशाम्पते ।
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् ॥ ८.७७.३६ ॥

冲入般度之子的军队,人主啊,击杀众王,即制底、般遮罗与甘迦耶诸王。

8.77.37

अहनत्पाण्डवीं सेनां रथाश्वगजसङ्कुलाम् ।
मज्जन्तमप्लुवे मन्दमुज्जिहीर्षुः सुयोधनम् ॥ ८.७७.३७ ॥

他攻击了充满战车、马匹与象群的般度军,仿佛想慢慢拉起没有木筏而沉没的苏耶没那。

8.77.38

तथा चरन्तं समरे तपन्तमिव भास्करम् ।
पदातिकोटिसाहस्राः प्रवरायुधपाणयः ॥ ८.७७.३८ ॥

他在战场上如烈日般燃烧,如此往来奔走之时,数以千万计的步兵手持精良兵器(将他包围)。

8.77.39

न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ।
विचरन्तं तथा तं तु सङ्ग्रमे जितकाशिनम् ॥ ८.७७.३९ ॥

srinjaya 族与其他国王无法直视他在战斗中如此驰骋的模样,那个自以为已经获胜的人。

8.77.40

सर्वोद्यमेन महता पाण्डवान्समभिद्रवत् ।
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि।
एक एव रणे भीष्म एकवीरत्वमागतः ॥ ८.७७.४० ॥

他竭尽全力猛烈冲向般度之子。在战斗中击溃般度之子与 srinjaya 族之后,毗湿摩独自达到了独一英雄的境地。

8.77.41

तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम् ।
जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः ॥ ८.७७.४१ ॥

sikhandin 接近了那位由你所护卫、持大誓的人中之虎,以关节弯曲的箭射中了他。

8.77.42

स एष पतितः शेते शरतल्पे पितामहः ।
त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वासवम् ॥ ८.७७.४२ ॥

那位祖父倒下,躺在箭床之上。人中之虎啊,遇到你之后,他如同弗栗多遇到婆薮(因陀罗)一般。

8.77.43

द्रोणः पञ्चदिनान्युग्रो विधम्य रिपुवाहिनीम् ।
कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान् ॥ ८.७७.४३ ॥

德罗纳勇猛地连续五日击溃敌军,布下坚不可摧的阵势,并击倒了大车战士。

8.77.44

जयद्रथस्य समरे कृत्वा रक्षां महारथः ।
अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः ॥ ८.७७.४४ ॥

大车战士德罗纳在战斗中护卫了胜敌,他如死神般凶猛,在夜战中焚烧了众生。

8.77.45

दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥ ८.७७.४५ ॥

勇猛的婆罗堕遮之子德罗纳以箭焚烧战士,与德里斯塔尤姆那相遇后,抵达了至高归宿。

8.77.46

यदि वाऽद्य भवान्युद्धे सूतपुत्रमुखान्रथान् ।
नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥ ८.७७.४६ ॥

今日若你在战场上阻挡了御者之子率领的战车,德罗纳本不会灭亡。

8.77.47

भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् ।
ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय ॥ ८.७७.४७ ॥

你曾阻挡了持国之子的全部军队;然后,哦,财富征服者,德罗纳在战斗中被普里沙塔之子杀死。

8.77.48

कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषब्रुवः ।
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥ ८.७७.४८ ॥

哦,人中之最,除你之外,谁能在战场上像你为诛杀胜敌所做的那样?哦,普利塔之子?

8.77.49

निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् ।
निहतः सैन्धवो राजा त्वयाऽस्त्रबलतेजसा ॥ ८.७७.४९ ॥

你阻挡了庞大的军队,杀死了英勇的诸王,以武器的力量与光辉杀死了信度王。

8.77.50

आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः ।
अनाश्चार्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥ ८.७७.५० ॥

诸王以杀死信度王为奇迹;但对你,帕尔塔,这并非奇迹,因为你是大车战士。

8.77.51

त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत ।
नश्यमानमहं युक्तं मन्येयमिति मे मतिः ॥ ८.७७.५१ ॥

婆罗多,遇到你于战场,我认为刎灭的刹帝利族在一天之内便是应当的;这是我的看法。

8.77.52

सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे ।
हतसर्वस्वभूयिष्ठा भीष्मद्रोणौ हतौ यथा ॥ ८.७७.५२ ॥

帕尔塔,持国之子这支可怕的军队,在战斗中大半失去了一切,如今的情形就像毗湿摩与德罗纳被杀时一样。

8.77.53

शीर्णप्रवरयोधाढ्या हतवाजिरथद्विपा ।
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥ ८.७७.५३ ॥

婆罗多之军,虽有众多优秀战士,却已残破,马、车、象皆被杀,犹如失去日月星辰的天空。

8.77.54

विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम ।
आसुरीव महासेना देवराजपराक्रमैः ॥ ८.७७.५४ ॥

可怖武勇的帕尔塔啊,此军在战斗中被摧毁,如同被天神之王的威力所毁灭的阿修罗大军。

8.77.55

तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः ।
द्रौणिश्च कृतवर्मा च कर्णो मद्राधिपः कृपः ॥ ८.७७.५५ ॥

其中未被杀死的,有五位大车战士:德罗纳之子、克里塔瓦尔曼、迦尔纳、摩德罗国王以及克利帕。

8.77.56

तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् ।
हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम् ॥ ८.७७.५६ ॥

人中之虎啊,今日你杀死那五位大车战士,灭尽敌人,将这片连同岛屿与城市的大地献给国王吧。

8.77.57

साकाशजलपातालां सपर्वतमहावनाम् ।
प्रयच्छामितवीर्याय पार्थायाद्य वसुन्धराम् ॥ ८.७७.५७ ॥

今日将这大地——连同天空、水域与地下世界,连同山岳与大森林——献给威力无边的般度之子。

8.77.58

एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् ।
प्रयच्छ मेदिनीं राज्ञे शक्रायैव हरिर्यथा ॥ ८.७७.५८ ॥

正如往昔毗湿奴杀死提陀与檀那婆之后,将此大地交给帝释天,你也应将此大地献给国王。

8.77.59

अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया ।
विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥ ८.७७.५९ ॥

今日敌人被你杀尽之时,愿般遮罗人欢喜,正如当毗湿奴杀尽檀那婆之子时诸神欢喜一样。

8.77.60

यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम् ।
अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात् ॥ ८.७७.६० ॥

若你因尊敬两足者中最优秀、值得敬重的老师德罗纳,而对阿湿婆塔马怀有怜悯,或者,克利帕啊,因敬重老师而怀有怜悯。

8.77.61

अत्यन्तापचितान्बन्धून्मानयन्मातृबान्धवान् ।
कृतवर्माणमासाद्य न नेष्यासि यमक्षयम् ॥ ८.७७.६१ ॥

你尊重备受敬重的亲族和母系亲属,难道不会走到革times瓦尔曼面前,将他送往阎摩之境吗?

8.77.62

भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् ।
यदि त्वमरविन्दाक्ष दयावान्न जिघाससि ॥ ८.७७.६२ ॥

莲花眼者啊,如果你有慈悲,走到母舅之兄、摩德罗国之主沙利耶面前,你难道不想杀他吗?

8.77.63

एतत्ते सुकृतं कर्म नात्र किञ्चन विद्यते ।
वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन ॥ ८.७७.६३ ॥

你这一行为是善行,其中毫无过失。我们也认可,其中并无过错。

8.77.64

इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति ।
कर्णमद्य नरश्रेष्ठ जहि पार्थ शितैः शरैः ॥ ८.७७.६४ ॥

人中之最啊,普利塔之子啊,今日以利箭杀了这个对般度之子怀有极其恶毒之心的卑劣的迦尔纳吧。

8.77.65

दहने यत्सपुत्राया निशि मातुस्तवानघ ।
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः।
तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत ॥ ८.७७.६५ ॥

无罪者啊,据说,你母亲与诸子夜间被投入火中的事件,以及苏约达那为了赌局而对你们挑起的一切,其根源都是恶心的迦尔纳。

8.77.66

प्रोत्साहयति दुष्टात्मा धार्तराष्ट्रं सुदुर्मतिम् ।
समितौ गदते कर्णस्तमद्य जहि भारत ॥ ८.७७.६६ ॥

恶心的迦尔纳在集会中鼓动那极其愚昧的持国之子,并且发言。婆罗多之后裔啊,今日杀了他吧。

8.77.67

यश्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् ।
तस्य सर्वस्य दुर्बुद्धिः कर्णो मूलमिहार्जुन ॥ ८.७७.६७ ॥

持国之子对你们所作的一切恶行,其根源在此,便是心术不正的迦尔纳,阿周那啊。

8.77.68

कर्णं हि मन्यते त्राणं नित्यमेव सुयोधनः ।
ततो मामपि संरब्धो निग्रहीतुं पराक्रमात् ॥ ८.७७.६८ ॥

苏尤陀那总以迦尔纳为自己的庇护者,因此愤怒之下,他也想以自己的勇力来阻挡我。

8.77.69

स्थिता बुद्धिर्नरेन्द्राणां धार्तराष्ट्रस्य चोभयोः ।
कर्णः पार्थान्रणे सर्वान्नाशयिष्यति सायकैः ॥ ८.७७.६९ ॥

诸王与持国之子两方的坚定决心是:迦尔纳将在战场上以箭矢消灭所有般度子。

8.77.70

कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रस्य विग्रहः ।
रुचितो भवता सार्धं जानतोऽपि बलं तव ॥ ८.७७.७० ॥

昆提之子啊,依靠迦尔纳,持国之子选择了与你争斗,尽管你知道自己的力量。

8.77.71

कर्णो जल्पति वै नित्यमहं पार्थान्समागतान् ।
वासुदेवं च दाशार्हं विजेष्यामि महारणे।
समितौ वल्गते कर्णस्तमद्य जहि फल्गुन ॥ ८.७७.७१ ॥

迦尔纳总是夸口说:“我将在大战中战胜聚集的般度子,以及婆苏提婆与达沙尔诃。”迦尔纳在集会上便如此夸耀;啊,法尔古那,今日就杀了他。

8.77.72

यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रतापवान् ।
सभायां कृतवान्नित्यं कर्णमाश्रित्य वै पुरा ॥ ८.७७.७२ ॥

还有那位威勇的持国之子往昔在大会上,常常依靠迦尔纳对你们所作的罪过。

8.77.73

यच्च तं धार्तराष्ट्राणां षड्भिः शूरैर्महारथैः ।
पश्यतां संवृतं शूरं सौभद्रमपराजितम् ॥ ८.७७.७३ ॥

当他们旁观之时,持raṣṭra之子的六位英勇大车战士包围了那位不败的英雄,苏跋陀罗之子。

8.77.74

द्रोणद्रौणिकृपान्वीरान्कम्पयानं महेषुभिः ।
विधमन्तमनीकानि प्रमथन्तं महारथान् ॥ ८.७७.७४ ॥

以大箭使德罗纳、德罗纳之子和克里帕等英雄颤抖,驱散军队,碾碎大车战士。

8.77.75

मनुष्यवाजिमातङ्गान्प्रेषयन्तं यमक्षयम् ।
शरैः सौभद्रमायान्तं दहन्तमरिवाहिनीम् ॥ ८.७७.७५ ॥

将人、马、象送往阎摩之处,以箭前进,焚烧敌军,苏跋陀罗之子。

8.77.76

निर्मनुष्याश्च मातङ्गा विरथाश्च महारथाः ।
प्रद्रवन्ति स्म समरे दिशो भीताऽभिमन्यवे ॥ ८.७७.७६ ॥

战场上,无象奴的象和无车的大车战士因惧怕阿毗曼尤而四散奔逃。

8.77.77

विगतासूंश्च तुरगान्पत्तीन्व्यायुधजीवितान् ।
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम्।
तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥ ८.७७.७७ ॥

使死去的马匹和失去武器的步兵如此,那位牛肩英雄,为俱卢与毗湿尼族增添光荣——对他的回忆灼烧我的肢体。朋友,我以真理起誓。

8.77.78

यत्तदासीत्सुदुष्टात्मा कर्णो विनिहतः प्रभुः ।
न शक्तो ह्यभिमन्योस्तु कर्णः स्थातुं रणाग्रतः ॥ ८.७७.७८ ॥

事情是这样的:那位心地极恶的主人迦尔纳被杀之后,迦尔纳已无力在阵前抵挡阿毗曼尤。

8.77.79

सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः ।
निश्वसन्क्रोधसन्दीप्तो विमुखः सायकार्दितः ॥ ८.७७.७९ ॥

被善贤之子的箭射穿,失去知觉,浑身沾满鲜血,长吁短叹,怒火燃烧,转身背离,被箭所折磨。

8.77.80

तस्थौ स विह्वलः सङ्ख्ये प्रहारजनितच्छविः ।
अपयानकृतोत्साहो निरुत्साहश्च भारत ॥ ८.७७.८० ॥

婆罗多之子啊,他在战场上惶惑不安地站着,因打击而面色改变;想要撤退,却毫无斗志。

8.77.81

दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः ।
नापयासीत्तततः पार्थ सोऽभिमन्योर्महारणे ॥ ८.७७.८१ ॥

普利塔之子啊,他在战场上看见难敌,屡屡感到羞愧,但在那场大战中,他仍未从阿毗曼尤面前撤退。

8.77.82

दृष्ट्वा द्रोणं वधोपायमभिमन्योश्च पृष्टवान् ।
श्रुत्वा द्रोणवचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥ ८.७७.८२ ॥

他看见德罗纳,问及杀死阿毗曼尤的方法,听了德罗纳残酷的话语之后,便砍断了弓。

8.77.83

ततश्छिन्नायुधं तेन दृष्ट्वा पञ्च महारथाः ।
स चैव निकृतिप्राज्ञः प्राहिणोच्छरवृष्टिभिः ॥ ८.७७.८३ ॥

此时,见他的兵器被斩断,五位大车战士,以及精于诡计的他自己,便以箭雨攻击。

8.77.84

प्रहसन्स तु दुष्टात्मा कर्णो राजा च कौरवः ।
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः।
प्रमुखे पाण्डवेयानां कुरूणां चैव पश्यताम् ॥ ८.७७.८४ ॥

那心怀恶念的迦尔纳和俱卢王大笑起来,回想起迦尔纳在议会中对黑公主所说的粗暴言语,而般度之子与俱卢人正在旁观。

8.77.85

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि ॥ ८.७७.८५ ॥

克里希那啊,般度五子已经毁灭,堕入永恒的地狱。宽臀柔语的女子啊,另选一位夫君吧。

8.77.86

एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम् ।
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥ ८.७७.८६ ॥

你,如今成为奴婢,进入持国王的宫殿吧。睫毛卷曲的女子啊,你已没有丈夫了。

8.77.87

न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन ।
दासभार्या च पाञ्चालि स्वयं दासी च शोभने ॥ ८.७७.८७ ॥

克里希那啊,般度五子绝无可能保护你。般遮罗女啊,美人啊,你是奴隶的妻子,你自己也是奴婢。

8.77.88

अद्य दुर्योधनो राजा पृथिव्यां नृपतिः स्मृतः ।
सर्वे चास्य महिपाला योगक्षेममुपासते ॥ ८.७७.८८ ॥

如今,国王难敌被视为大地之主,他所有的地上守护之王都侍奉他的安康与保障。

8.77.89

पश्येदानीं यदा भद्रे निविष्टाः पाण्डवाः समम् ।
अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा ॥ ८.७७.८९ ॥

善良的女子啊,现在看吧:般度五子并坐在一起时,因持国之子的光辉而彼此相望。

8.77.90

व्यक्तं षण्डतिला ह्येते नरके च निमज्जिताः ।
प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम् ॥ ८.७७.९० ॥

显然,这些如芝麻般的阉人已沉入地狱,他们将像仆役一样侍奉考拉瓦王。

8.77.91

उक्तवान्स च पातात्मा तथा परमदुर्मतिः ।
पापः पापवचः कर्णः पश्यतस्ते धनञ्जय ॥ ८.७७.९१ ॥

那罪人卡尔纳心性邪恶、极其愚昧,在你,财主(Dhanañjaya),亲眼注视之下说出了这样的恶言。

8.77.92

अस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः ।
शमयन्ति शिलाधौता नाशयन्तोऽस्य जीवितम् ॥ ८.७७.९२ ॥

为了压制这个罪人的言语,经石磨砺、饰以黄金的箭将毁灭他的性命。

8.77.93

अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया ।
स्वर्गावतरणे यत्नं स्वर्गद्वारगतं यथा ॥ ८.७७.९३ ॥

今日在战场上,愿俱卢人看到卡尔纳被你所擒,就如同那想从天上降下却抵达天门的人一样。

8.77.94

अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः ।
सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम् ॥ ८.७७.९४ ॥

今日战场上,愿俱卢的战士们看见你的威力;啊,普利塔之子,当御者之子被杀之时,愿他们认识你是大车士。

8.77.95

अद्य काकवला गृध्रा वायसा जम्बुकास्तथा ।
विप्रकर्षन्तु गात्राणि सूतपुत्रस्य मारिष ॥ ८.७७.९५ ॥

今日,愿像乌鸦一样有力的秃鹫、乌鸦、渡鸦与豺狼,拖走御者之子的尸体,啊,尊者。

8.77.96

अद्याधिरथिराक्षिप्तो निहतश्च त्वया रणे ।
कुरूणां शोकमाधत्तां पाण्वानां मुदं तदा ॥ ८.७७.९६ ॥

今日战场上,愿阿提拉陀之子被你羞辱并杀死;那时,愿俱卢人悲伤,般度人欢喜。

8.77.97

अद्य त्वां प्रतिमर्दन्तु पाञ्चालाः पाण्डवैः सह ।
यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम् ॥ ८.७७.९७ ॥

愿今日般遮罗人与般度之子们一同击碎你,正如当弗栗多被杀时,诸神都助力百祭(因陀罗)。

8.77.98

अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः ।
विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः ॥ ८.७७.९८ ॥

今日在战场上杀死迦尔纳,获得最高的名声,啊,普利塔之子,愿你无忧无虑,受亲族敬重。

8.77.99

नरसिंहवपुः कृत्वा यथा शस्तो महासुरः ।
हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना ॥ ८.७७.९९ ॥

正如大能的毗湿奴化身为人狮,杀死了大阿修罗、提泰耶·希兰耶迦希布。

8.77.101

तथा त्वमपि राधेयं घोरां कृत्वा महातनुम् ।
जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान् ॥ ८.७७.१०१ ॥

你也同样,化作可怖的庞大身形,啊,大臂者,在战斗中杀死罗陀之子迦尔纳,并使你的族人免于恐惧。

8.77.102

कर्णं हाहाकृतं दीनं विषण्णं त्वच्छरार्दितम् ।
प्रपतन्तं महीं कर्णं पश्यन्तु वसुधाधिपाः ॥ ८.७७.१०२ ॥

愿诸地上之王看见迦尔纳哀号“唉呀”,悲惨而沮丧,被你的箭所折磨,倒向大地。

8.77.103

तं च स्वशोणिते मग्नं शयानं पतितं भुवि ।
अपविद्धायुकधं कर्णमद्य पश्यन्तु बान्धवाः ॥ ८.७७.१०३ ॥

愿他的亲族今日看见迦尔纳,沉浸在自己的血泊中,倒卧在地,兵器已被抛弃。

8.77.104

तच्चैवाद्य महत्कर्म गाण्डीवप्रेषितैः शरैः ।
रथोपस्थे विशीर्येत ताराराज इवाम्बरात् ॥ ८.७७.१०४ ॥

今日,那伟大的功业将被从甘狄瓦弓射出的箭矢击碎于战车的底板之上,如同星辰之王从天空坠落。

8.77.105

आशु चाद्य शरास्तस्य सम्पतन्तो महाजवैः ।
त्वच्छरैः सन्निकृत्ताग्रा विशीर्यन्ते महीतले ॥ ८.७७.१०५ ॥

今日,他那以极快速度飞来的箭矢,被你的箭斩断了锋尖,将碎落在大地之上。

8.77.106

त्वया चाद्य हते तस्य विक्रमे भरतर्षभ ।
विमुखाः सर्वराजानो भवन्तु गतजीविताः ॥ ८.७७.१०६ ॥

啊,婆罗多族的雄牛,今日当他的勇武被你所杀,愿所有诸王都转身离去,失去生命。

8.77.107

तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः ।
मन्वानास्तं रथश्रेष्ठं सर्वलोकेषु धन्विनाम् ॥ ८.७७.१०७ ॥

同样,当阿迪腊陀之子(迦尔纳)倒下时,愿俱卢人向四方逃散,因为他们认为他是一切世界中弓手里最优秀的车战勇士。

8.77.108

स वै चाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम् ।
दुर्योधनो भयोद्विग्नो द्रवतु स्वं निवेशनम् ॥ ८.७७.१०८ ॥

今日,那持国之子难敌,因恐惧而舍弃大军,惊惧不安,愿他逃回自己的住所。

8.77.109

तथा चाद्य हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः ।
क्षणेन निपतेद्भूमौ विसंज्ञो वै महीपतिः ॥ ८.७७.१०९ ॥

同样,今日听闻他被杀,人主持国将在瞬间倒地,失去知觉,这位大地之主。

8.77.110

अद्य जानन्तु ते पार्थ विक्रमं सर्वयोधिनः ।
यदुवाच सभामध्ये परुषं भारत त्वयि ॥ ८.७७.११० ॥

愿今日诸勇士都知道你的威勇,波利陀之子啊,正是因为他在大会中对你说了粗暴的话,婆罗多的后裔啊。

8.77.111

यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि ।
तान्यद्य भरतश्रेष्ठ नाशयन्तु शरास्तव ॥ ८.७७.१११ ॥

愿你的箭今日也摧毁那恶心之人对你所犯的其他罪孽,婆罗多中最优秀者啊。

8.77.112

शान्तिं कुरु परिक्लेशा कृष्णायाः शत्रुपातन ।
हत्वा शत्रुं रणे श्लाघ्यं गर्जन्तमतिपौरुषम् ॥ ८.७७.११२ ॥

摧敌者啊,在战场上杀死那位可赞的、咆哮的、极为勇武的敌人,为黑公主的苦难带来平息吧。

8.77.113

अद्य चाधिरथिर्वेद्धस्तव बाणैः समन्ततः ।
मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम् ॥ ८.७७.११३ ॥

今日愿御者之子(迦尔纳)也被你的箭从四面射穿;人中之虎啊,愿他认你为一切弓手中最卓越的人。

8.77.114

गाण्डीवप्रसृतान्वाणानद्य गात्रस्पृशः शरान् ।
यातु कर्णो रणे पार्थ श्वाविच्छललतो यथा ॥ ८.७७.११४ ॥

波利陀之子啊,愿今日迦尔纳在战场上躲避从甘狄拔弓射出、触及身体的箭,如豪猪躲避自己的刺。

8.77.115

तं कथं कर्णमासाद्य विद्रवेयुर्महारथाः ।
यस्त्वेकः सर्वपाञ्चालानहन्यहनि नाशयन्।
कालवच्चरते वीर पाञ्चालानां रथव्रजे ॥ ८.७७.११५ ॥

大车战士们遇到迦尔纳,又怎能逃跑呢?他一人,日复一日地毁灭所有般遮罗人,如死神般,英雄啊,穿行于般遮罗人的战车军中。

8.77.116

तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल ।
तथा ज्वलन्तमस्त्रैश्च शूरं सर्वधनुष्मताम्।
निर्दहन्तं समारूढं दुर्धर्षं द्रोणमञ्जसा ॥ ८.७७.११६ ॥

爱友之人啊!为了朋友在战斗中接近他,他以武器燃烧,是所有弓手中的英雄,焚烧着,站在战车上,无敌的德罗纳也,他们轻易地(到达)。

8.77.117

ते नित्यमुदिता जेतुं युधि शत्रुमरिन्दमाः ।
न चेदाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥ ८.७७.११७ ॥

这些降伏敌人者总是渴望在战斗中战胜敌人,除非般遮罗人因惧怕御者之子而转身逃走。

8.77.118

तेषामापततां शूरः पाञ्चालानां तरस्विनाम् ।
आदत्तासूञ्शरैः कर्णः पतङ्गानामिवानलः ॥ ८.७७.११८ ॥

英雄迦尔纳以箭夺取了那些冲来的迅猛般遮罗人的性命,如同火焚烧飞蛾。

8.77.119

एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम् ।
कर्णेन भरतश्रेष्ठ पश्यपश्य तथाकृतान् ॥ ८.७७.११९ ॥

这些般遮罗人正在逃跑;他们确实正被战士们、被迦尔纳驱散。婆罗多中最优秀者啊,看啊,看他们如此溃败的模样。

8.77.120

तान्समारोहतः शूरान्मित्रार्थे त्यक्तजीवितान् ।
निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात् ॥ ८.७७.१२० ॥

那些为朋友舍弃生命而前进的英雄,啊,大臂者,请将他们从迦尔纳如火般的武器中救出。

8.77.121

अस्त्रं हिरामात्कर्णेन भार्गवादृषिसत्तमात् ।
यदवाप्तं तदा घोरं तस्य रूपमुदीर्यते ॥ ८.७७.१२१ ॥

迦尔纳因羞愧从婆利古后裔、圣仙中最优秀者那里获得的武器——那可怕武器的形态现在被述说。

8.77.122

तापनं सर्वसैन्यस्य घोररूपं भयानकम् ।
यमाश्रित्य महासेना ज्वलते स्वेन तेजसा ॥ ८.७७.१२२ ॥

它灼烧整支军队,形貌可怖、令人恐惧。大军依托它,以自身的光芒燃烧。

8.77.123

एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः ।
प्रभया इह शत्रूणां घातयन्तो जनान्प्रभो ॥ ८.७७.१२३ ॥

这些从迦尔纳弓上射出的箭在战场上穿梭;主啊,它们以光芒在此杀害敌人的士卒。

8.77.124

एते भ्रमन्ति पाञ्चाला उत्क्रयन्ति च मारिष ।
कर्णास्त्रं समरे प्राप्य दुर्निवार्यं महात्मभिः ॥ ८.७७.१२४ ॥

这些般遮罗人四处徘徊哭喊,先生;他们在战场上遭遇了迦尔纳的武器,连大智者也无法抵挡。

8.77.125

एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः ।
सृञ्जयैर्योऽजयत्कर्णं पीड्यते निशितैः शरैः ॥ ८.७७.१२५ ॥

这位威猛、怒火坚定的普利塔之子被斯罗阇耶人从四面包围——他曾战胜迦尔纳——正被利箭所困扰。

8.77.126

पाञ्चालान्सृञ्जयांश्चैव पाण्डवांश्चैव भारत ।
उपेक्षितो दहेत्कर्णो रोगो देहमिवान्तकः ॥ ८.७७.१२६ ॥

婆罗多啊,般遮罗人、斯罗阇耶人,乃至般度之子,若被忽视,迦尔纳便会焚烧他们,如同疾病焚烧身体,如同死神本身。

8.77.127

नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले ।
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहान् ॥ ८.७७.१२७ ॥

在坚战的军中,除了你,我看不到还有哪位战士能在面对罗陀之子(迦尔纳)后安然回家。

8.77.128

तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ ।
यथा प्रतिज्ञां त्व पार्थ तीर्त्वा कीर्तिमवाप्स्यसि ॥ ८.७७.१२८ ॥

婆罗多的雄牛啊,今日以利箭杀死他,贝尔塔啊,你将完成誓愿,获得荣耀。

8.77.129

त्वं हि शक्तो रणे कर्णं विजेतुं सह पार्थिवैः ।
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ ८.७७.१२९ ॥

唯有你能在战斗中与诸王一起战胜迦尔纳;战士中的最优秀者啊,这是真的,我告诉你:战场上没有别人能做到。

8.77.130

एतत्कृत्वा महत्कार्म हत्वा कर्णं महारथम् ।
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥ ८.७७.१३० ॥

完成这一伟大功业,杀死大车士迦尔纳之后,贝尔塔啊,你的目标达成、功业有成,愿你安乐,人中最优秀者啊。