マハーバーラタ · 章 8.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.8.1
सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा ।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥ ८.८.१ ॥
ヴィカルタナの子カルナは、そのとき総司令官の地位を得た。王自身が兄弟に対するような温かい言葉でそう告げたので……
8.8.2
हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः ।
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व स़ञ्जय ॥ ८.८.२ ॥
私の息子の利益と喜びを常に願ったあの大賢者は何をしたのか。サンジャヤよ、それを私に語れ。
8.8.3
कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ ।
योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम् ॥ ८.८.३ ॥
カルナの意見を知ると、バラタ族の牡牛よ、あなたの息子たちは太鼓の音を先立てて軍勢の集合を命じた。
8.8.4
महत्यपररात्रे च तव सैन्यस्य मारिष ।
योगो योग इति ह्याशु प्रादुरासीन्महास्वनः ॥ ८.८.४ ॥
マーリシャよ、夜明け前の大いなる時、あなたの大軍の中から「ヨーガ、ヨーガ」という大きな声が直ちに起こった。
8.8.5
कल्पतां नागमुख्यानां रथानां च वरुथिनाम् ।
सन्नह्यतां नराणां च वाजिनां च विशाम्पते ॥ ८.८.५ ॥
民の主よ、最上の象、鎧をまとった戦車、兵と馬を整えさせよ。
8.8.6
क्रोशतां चैव योधानां त्वरितानां परस्परम् ।
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्ततः ॥ ८.८.६ ॥
そのとき、戦士たちが互いに急かしながら叫ぶと、天に届くほどの大きな喧騒が起こった。
8.8.7
ततः श्वेतपताकेन बलाकावर्णवाजिना ।
हेमपृष्ठेन धनुषा नागकक्षेण केतुना ॥ ८.८.७ ॥
そこで白い旗、サギの色の馬、金の背の弓、象の帯の旗をもって。
8.8.8
तूणीरशतपूर्णेन सगदेन वरूथिना ।
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥ ८.८.८ ॥
矢筒百本に満ち、棍棒と鎧を備え、シャタグニー、鈴、槍、三叉戟、投槍を携えて。
8.8.9
कार्मुकैरुपपन्नेन विमलादित्यवर्चसा ।
रथेनाभिपताकेन सुतपुत्रो ह्यदृश्यत ॥ ८.८.९ ॥
弓を備え、清らかな太陽のように輝く御者の子が、旗を翻す戦車に現れた。
8.8.10
ध्मापयन्वारिजं राजन्हेमजालविभूषिन्तम् ।
विध्रुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥ ८.८.१० ॥
王よ、金網で飾られた法螺を吹き鳴らし、金で飾られた大弓を振り動かしながら。
8.8.11
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम् ॥ ८.८.११ ॥
大弓手カルナ、戦車兵の中の最上者が戦車に立つのを見た。昇る太陽のように闇を払い、近づき難き者を。
8.8.12
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥ ८.८.१२ ॥
師よ、そこでクル族は、ビーシュマの不幸もドローナの不幸も、他の誰の不幸も、気に留めなかった。人中の虎よ。
8.8.13
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष ।
कर्णो निष्कर्षयामास कौरवाणां महद्बलम् ॥ ८.८.१३ ॥
そのとき、法螺貝の音で戦士たちを急がせながら、おお主よ、カルナはカウラヴァの大軍を進出させた。
8.8.14
व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः ।
प्रत्युद्ययौ तथा कर्णः पाण्डवान्विजिगीषया ॥ ८.८.१४ ॥
マカラの陣形を整えた大弓手、敵を苦しめるカルナは、勝利を望み、パーンダヴァたちへと進み出た。
8.8.15
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥ ८.८.१५ ॥
王よ、マカラの吻にはカルナが立ち、両眼には勇将シャクニと大戦車兵ウルーカがいた。
8.8.16
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।
मध्येदुर्योधनो राजा बलेन महता वृतः ॥ ८.८.१६ ॥
ドローナの息子は頭部に、すべての兄弟は首に立ち、中央では王ドゥルヨーダナが大軍に囲まれていた。
8.8.17
वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः ॥ ८.८.१७ ॥
王の中の王よ、左足にはクリタヴァルマンが立ち、ナーラーヤナの軍勢と、戦いに驕る牧人たちを従えていた。
8.8.18
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः ।
त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥ ८.८.१८ ॥
王よ、右足には真の勇猛さを持つガウタマ(クリパ)が立ち、トリガルタと南方の大弓手に囲まれていた。
8.8.19
अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः ।
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥ ८.८.१९ ॥
後方の左足の位置には、マドラ国から集められた大軍を率いてシャリヤが配置されていた。
8.8.20
दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः ।
वृतो रथमहस्रेण दन्तिनां च त्रिभिः शतैः ॥ ८.८.२० ॥
大王よ、右側には誓いに忠実なスシェーナが、千台の戦車と三百頭の象に囲まれて立っていた。
8.8.21
पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा ।
चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ ॥ ८.८.२१ ॥
後方には当時、大いなる勇気を持つ二人の兄弟、王のチトラとチトラセーナが大軍に囲まれて立っていた。
8.8.22
तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।
धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम् ॥ ८.८.२२ ॥
王の中の王よ、カルナがこのように進み出たとき、法王はダナンジャヤを見てこう言った。
8.8.23
पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे ।
कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः ॥ ८.८.२३ ॥
プリターの子よ、見よ。ドリタラーシュトラの子らの軍勢が、ここで戦いのためにカルナによってどのように配置され、英雄たる大戦車兵たちに守られているかを。
8.8.24
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥ ८.८.२४ ॥
力強き御方よ、ドリタラーシュトラの子らのこの大軍は、最も勇敢な戦士たちが討たれ、残るのはわずかである。私の見立てでは、それは草にも等しい。
8.8.25
एको ह्यत्र महेष्वासः सूतपुत्रो विराजते ।
सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः।
चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः ॥ ८.८.२५ ॥
ここには、ただ一人、大弓手にして御者の子、神々・阿修羅・ガンダルヴァ・キンナラ・大蛇を含む動くものと動かないものの三界にとって征服しえぬ大戦車兵が輝いている。
8.8.26
तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन ।
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ॥ ८.८.२६ ॥
今日彼を殺せば、大腕のパールグナよ、お前に勝利がもたらされ、十二年間私を刺してきた棘も抜かれるであろう。
8.8.27
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥ ८.८.२७ ॥
これを知って、大腕の者よ、望むとおりに陣形を組め。
8.8.28
भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः ।
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥ ८.८.२८ ॥
兄のこの言葉を聞いて、白馬の パーンダヴァは、半月の陣形でその軍勢に対して自軍を配置した。
8.8.29
वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः ।
दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः ॥ ८.८.२९ ॥
その左翼にはビーマセーナが立ち、右翼には大弓手ドリシュタデュムナが立った。
8.8.30
मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः ।
नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः ॥ ८.८.३० ॥
陣の中央には王なるパーンダヴァとダナンジャヤがいた。ナクラとサハデーヴァは法王の背後にいた。
8.8.31
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
पार्थं न जहतुर्युद्वे पाल्यमानौ किरीटिना ॥ ८.८.३१ ॥
戦いにおいて、車輪の守護者である二人のパーンチャーラ、ユダーマニユとウッタマウジャスは、冠を戴くプリタの子を見捨てず、彼を守り続けた。
8.8.32
शेषां नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।
यथाभागं यथोत्साहं यथायत्नं च भारत ॥ ८.८.३२ ॥
バーラタよ、陣形の残りの部分では、鎧をまとった勇敢な王たちが、それぞれの持ち場、熱意、力量に応じて立っていた。
8.8.33
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥ ८.८.३३ ॥
バーラタよ、このように大軍陣を組んだ後、パーンダヴァたちとあなたの大弓兵たちは、ただ戦いへと心を定めた。
8.8.34
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।
निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः ॥ ८.८.३४ ॥
御者の子(カルナ)が戦いの中で組んだあなたの軍を見て、ドリタラーシュトラの息子は親族とともに、パーンダヴァたちは殺されたと思った。
8.8.35
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः ॥ ८.८.३५ ॥
同様に、パーンダヴァの軍が陣形を組んでいるのを見て、人の王ユディシュティラは、カルナとともにドリタラーシュトラの息子たちが殺されたと思った。
8.8.36
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः ॥ ८.८.३६ ॥
そのとき四方からほら貝、太鼓、パナヴァ鼓、アーナカ鼓、ゴームカ(牛口)の角笛、ディンディマ鼓、ジャルジャラが鳴り響いた。
8.8.37
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।
सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥ ८.८.३७ ॥
王よ、両軍で大きな音の楽器が鳴り響き、勝利を渇望する勇士たちの獅子吼が起こった。
8.8.38
हयहेषितशब्दाश्च वारणानां च बृंहिताः ।
रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ॥ ८.८.३८ ॥
人の王よ、馬のいななき、象の咆哮、そして戦車の車輪の恐ろしい轟音が起こった。
8.8.39
न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत ।
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥ ८.८.३९ ॥
バーラタよ、そこではドローナの苦難を誰も知らなかった。陣形の先頭に鎧をまとって立つ大弓手カルナを見て。
8.8.40
उभे सैन्ये महाराज प्रहृष्टनरसङ्कुले ।
योद्वुकामे स्थिते राजन्हन्तुमन्योन्यमोजसा ॥ ८.८.४० ॥
偉大な王よ、喜びに満ちた兵士で溢れた両軍は、戦を望んで立ち、互いに力をもって打とうと構えていた。
8.8.41
विजये जातसंरम्भे दृष्ट्वाऽन्योन्यं व्यवस्थिते ।
अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ ॥ ८.८.४१ ॥
王の中の王よ、勝利への意気に満ち、互いを見据えて立つカルナとパーンダヴァは、軍の真ん中を動き回った。
8.8.42
नृत्यन्त्याविव ते सेने समेयातां परस्परम् ।
तयोः पक्षप्रपक्षेभ्यो निर्ययुर्युद्वलिप्सवः ॥ ८.८.४२ ॥
まるで踊るかのように両軍は互いに向かい合い、その翼と副翼から戦いを望む者たちが進み出た。
8.8.43
ततः प्रववृते युद्धं नरवारणवाजिनाम् ।
रथानां च महाराज अन्योन्यमभिनिघ्नताम् ॥ ८.८.४३ ॥
その時、人間、象、馬、戦車の間で戦いが始まりました、偉大な王よ。彼らは互いに打ち合ったのです。