摩诃婆罗多 · 章 8.83
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.83.1
हत्वा तु फल्गुनः सेनां कौरवाणां पृथक्पृथक् ।
सूतपुत्रस्य संरम्भं दृष्ट्वा चैव महारणे ॥ ८.८३.१ ॥
法尔固那(阿周那)逐一杀死考罗婆军队,并在大战中见到御者之子的愤怒——
8.83.2
शोणितोदां नदीं कृत्वा मांसमज्जास्थिपङ्किलाम् ।
मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् ॥ ८.८३.२ ॥
造成一条血水之河,充满肉、髓与骨的泥淖,以人头为石,以象马为堤岸——
8.83.3
शूरास्थित्तयसङ्कीर्णां काकगृध्रानुनादिताम् ।
छत्रहंसप्लुवोपेतां वीरवृक्षापहारिणीम् ॥ ८.८३.३ ॥
散布英雄的骸骨与杂草,回荡着乌鸦与秃鹫的叫声,伞盖如天鹅漂浮,冲走英雄般的树木——
8.83.4
हारपद्माकरवतीमुष्णीषवरफेनिलाम् ।
धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् ॥ ८.८३.४ ॥
充满项链与莲池,泛起上好头巾的浪花,装备着弓、箭与旗帜,被人的小头骨守护——
8.83.5
चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् ।
जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् ॥ ८.८३.५ ॥
盾甲旋涡翻滚,战车如舟满布——对求胜者极易渡过,对怯懦者极难渡过——
8.83.6
नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा ।
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः ॥ ८.८३.६ ॥
使河水流动之后,杀敌英雄的比波磋(阿周那),人中之雄,对婆薮提婆(黑天)说了这番话。
8.83.7
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।
भीमसेनादयश्चैते योधयन्ति महारथम् ॥ ८.८३.७ ॥
克里希纳啊,战场上可见御者之子的旗帜;毗摩舍那等人正与那位大战车武士交战。
8.83.8
एते द्रवन्ति पाञ्चालाः कर्मत्रस्ता जनार्दन ।
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते ॥ ८.८३.८ ॥
Janārdana啊,这些般遮罗人因业绩而惊恐奔逃;这位国王难敌正被撑在白伞之下。
8.83.9
कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ ८.८३.९ ॥
他驱赶被迦尔纳击溃的般遮罗人,光彩夺目;慈悲、顺势及大战车武士德罗纳之子亦然。
8.83.10
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।
अवध्यमानास्तेऽस्माभिर्योधयिष्यन्ति सोमकान् ॥ ८.८३.१० ॥
受御者之子庇护,他们守护着国王;若不被我们击杀,他们将与索摩迦人交战。
8.83.11
एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः ।
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥ ८.८३.११ ॥
克里希纳啊,这位精通执缰的沙利耶坐在战车上驾驭御者之子的战车,光彩夺目。
8.83.12
तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम ।
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥ ८.८३.१२ ॥
此时我心中生起这个决心:把我的战车驾到这里来。若不在战场上击杀迦尔纳,我绝不回头。
8.83.13
मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान् ।
निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन ॥ ८.८३.१३ ॥
賈納爾達那啊,願迦爾納不要在我們眼前於戰場上將般度之子和斯林遮耶的大車將們徹底消滅。
8.83.14
ततः प्रायाज्जवेनाशु केशवस्तव वाहिनीम् ।
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिनः ॥ ८.८३.१४ ॥
于是克舍婆迅速驶向你的军队,朝向大弓手迦尔纳而去,为了萨维亚萨钦(阿周那)的单独决斗。
8.83.15
स प्रयातो रथेनाशु कृष्णो राजन्महाहवे ।
आश्वासयन्रणे चाशु पाण्डुसैन्यानि सर्वशः ॥ ८.८३.१५ ॥
大王啊,克里希那乘车迅速前行,在大战中迅速地从各方安慰般度的军队。
8.83.16
रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह ।
वासवास्त्रनिपातेन पर्वतेष्विव मारिष ॥ ८.८३.१६ ॥
尊者啊,于是般度之子的战车轰鸣响起,犹如因陀罗之箭落在群山之上。
8.83.17
महता रथघोषेण पाण्डवः सत्यविक्रमः ।
अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम् ॥ ८.८३.१७ ॥
伴随着巨大的战车轰鸣,真正英勇、心智无量的般度之子向你的军队前进,要将它征服。
8.83.18
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥ ८.८३.१८ ॥
看见他迎面而来——白马、以克里希那为御者的人,又看见那高尚者的旗帜,摩德罗王便对迦尔纳说道。
8.83.19
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥ ८.८३.१९ ॥
那辆驾着白马、以黑天为御者的战车正在驶来。迦尔纳啊,你所询问的正是它,它在战场上击杀着敌人。
8.83.20
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥ ८.८३.२० ॥
那昆提之子站在那里,手触甘狄拔弓。若你今日杀死他,那对我们将是吉祥。
8.83.21
धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता ।
पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा ॥ ८.८३.२१ ॥
迦尔纳啊,看那阿周那弓上的弦,绘有月亮与星辰,饰有旗幡与铃铛,在天空中闪耀如闪电。
8.83.22
एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः ।
दृश्यते वानरो भीमो वीक्षतां भयवर्धनः ॥ ८.८३.२२ ॥
在贝阿的旗杆之顶,四处张望的,可见一只猴子,凶猛可怖,令看见它的人更加恐惧。
8.83.23
एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो ।
दृश्यते पाण्डवरथे वाहयानस्य वाजिनः ॥ ८.८३.२३ ॥
主啊,在般度之子的战车上,可见轮盘、火棒、法螺,以及黑天的沙尔伽弓——驾驭马匹者的。
8.83.24
एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना ।
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥ ८.८३.२४ ॥
甘狄拔弓被惯用左右手的阿周那射出,发出嗡鸣。这些利箭由熟练之手放出,正在击杀敌人。
8.83.25
विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः ।
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥ ८.८३.२५ ॥
那些不曾逃走的诸王,双目宽大修长而赤红,面如满月,他们的头颅正铺满这片大地。
8.83.26
एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः ।
उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः ॥ ८.८३.२६ ॥
这些如铁杵般的手臂,涂抹着圣洁的香膏,是战场勇士高举之臂,正连同兵器一起被斩断。
8.83.27
निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः ।
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते ॥ ८.८३.२७ ॥
口吐舌头、眼角撕裂的战马与骑手一同倒地;被击倒而力竭的它们,横卧于地上。
8.83.28
एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः ।
सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा ॥ ८.८३.२८ ॥
这些来自喜马拉雅的大象,如同山峰,被阿周那劈裂了额头,像山岳一般倒塌。
8.83.29
गन्धर्वनगराकारा रथा हतनरेश्वराः ।
विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी ॥ ८.८३.२९ ॥
这些如乾达婆城般的战车,其主帅已被杀死,正如功德耗尽时天人从天车坠落一般纷纷倒下。
8.83.30
व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना ।
नानामृगसहस्राणां यूथं केसरिणा यथा ॥ ८.८३.३० ॥
看那大军被戴冠者(阿周那)搅得极为慌乱,正如狮子冲散了千万种鹿群。
8.83.31
त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् ।
असज्जमानो राधेय तं याहि प्रति भारत ॥ ८.८३.३१ ॥
他正寻你而来,迦尔纳,击杀着优秀的车战士。罗陀之子啊,毫不迟疑地向他前进吧,婆罗多的后裔。
8.83.32
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥ ८.८३.३२ ॥
德罗多罗陀之子的这支军队,因惧怕阿周那——他正迅速击杀众多敌人——而从四面八方溃散。
8.83.33
वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः ।
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥ ८.८३.३३ ॥
避开所有军队,财富征服者正疾速前来。他的身躯仿佛被推向前去;我想这是为了你。
8.83.34
न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह ।
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥ ८.८३.३४ ॥
渴望战斗的般度之子,除你之外不会与任何人对峙;他怒火燃烧,尤其当狼腹(怖军)受到逼迫时,他会站在你的面前。
8.83.35
विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम् ।
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥ ८.८३.३५ ॥
见法王(坚战)失去战车、伤势沉重,又见湿舍陀之子戴粉饰的希坎丁、萨提奇与丹妮那之子德里斯塔德瞿默那。
8.83.36
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च ।
नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु ॥ ८.८३.३६ ॥
见德罗波蒂的诸子、优陀摩王与乌塔摩贾斯,以及无种与偕天,皆处于你的控制之下。
8.83.37
सहसैकरथः पार्थस्त्वामभ्येति परन्तपः ।
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान् ॥ ८.८३.३७ ॥
普利陀之子、焚敌者独自一车向你驶来,怒目赤红,愤怒而欲杀尽诸王。
8.83.38
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥ ८.८३.३८ ॥
他迅速抛下诸军,无疑正向我们扑来。迦尔纳,你去迎战他吧,因为再没有像他那样的弓手。
8.83.39
न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम् ।
अर्जुनं समरे क्रुद्धं यो वेलामिव वारयेत् ॥ ८.८३.३९ ॥
在这世上,除你之外,我看不到另一位弓手能在战场上阻挡愤怒的阿周那,犹如海岸阻挡大海。
8.83.40
न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः ।
एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥ ८.८३.४० ॥
我看不到他两侧或身后有任何护卫。他独自朝你而来;看吧,这便是你自身成功的果实。
8.83.41
त्वं हि कृष्णौ रणे शक्तो योद्धुमेतौ परन्तपौ ।
तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥ ८.८३.४१ ॥
在战场上,只有你能与这两位焚敌者——黑天与阿周那——交战。罗陀之子啊,这重任正属于你;去迎战持财者(阿周那)吧。
8.83.42
समानो ह्यसि भीष्मेण द्रोमद्रौणिकृपेण च ।
सव्यसाचिनमायान्तं निवारय महारणे ॥ ८.८३.४२ ॥
你的确与毗湿摩、德罗纳、德罗尼和克里帕相当。请在大战中阻挡迫近的萨维亚萨钦(阿周那)。
8.83.43
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा ।
वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥ ८.८३.४३ ॥
如吐信之蛇,如吼叫之牛,如林中之虎,啊迦尔纳,请击杀达那耶。
8.83.44
एते द्रवन्ति समरान्निरपेक्षा नराधिपाः ।
अर्जुनस्य भयत्रस्ता धार्तराष्ट्रा महाबलाः ॥ ८.८३.४४ ॥
这些被阿周那吓得魂飞魄散的大力持国子与诸王,不顾一切地逃离了战场。
8.83.45
द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः ।
भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन ॥ ८.८३.४५ ॥
在战斗中,对于这些逃亡者而言,除了你,没有别的英雄能驱散他们的恐惧,御者之子啊。
8.83.46
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ।
धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥ ८.८३.४६ ॥
人中之虎啊,所有这些俱卢人在战斗中将你视为岛屿,站在你的面前,寻求你的庇护。
8.83.47
वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया ।
गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः।
तां धृतिं कुरुराधेय ततः प्रत्येहि पाण्डवम् ॥ ८.८३.४७ ॥
你以那使你在战斗中战胜了极难战胜的毗提诃人、安巴什塔人、剑浮人、那伽吉特诸王与犍陀罗人的坚毅,啊御者之子,现在就以那同样的坚毅去迎战般度之子吧。
8.83.48
वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ।
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः ॥ ८.८३.४८ ॥
啊大臂者,请迎战与戴冠者同乐的毗利什尼后裔婆苏提婆,以伟大的男子气概屹立不动吧。
8.83.49
प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा ।
प्रतिभासि महाबाहो अभीतश्च धनञ्जयात् ॥ ८.८३.४९ ॥
沙利耶啊,你如今处于你本来的状态,我同样敬重你。大臂者啊,在持财者(阿周那)面前,你显得无所畏惧。
8.83.50
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे ।
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥ ८.८३.५० ॥
今日看我双臂之力,也看我所习得的技艺。今日我独自一人将歼灭般度诸子的大军。
8.83.51
कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते ।
नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन ॥ ८.८३.५१ ॥
人中之虎啊,因此我对你说实话:在战斗中不杀死那两位英雄克里希那,我决不会以任何方式退却。
8.83.52
शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः ।
कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथ वा हतः ॥ ८.८३.५२ ॥
或者我被他们杀死而倒下,因为战斗中的胜利是无常的;或者今日我杀死他们而心愿得成,或者即使被杀也是如此。
8.83.53
अजय्यमेनं प्रवदन्ति युद्धे ।
महारथाः कर्ण रथप्रवीरम्।
एकाकिन किमु कृष्णाभिगुप्तं ।
विजेतुमेनं क इहोत्सहेत ॥ ८.८३.५३ ॥
大战车武士们称他在战斗中不可战胜,卡尔纳啊,他是战车勇士中的翘楚。谁敢在此独自战胜这位受克里希那护佑的人呢?
8.83.54
नैतादृशो जातु बभूव लोके ।
रथोत्तमो यावदुपश्रुतं नः।
तमीदृशं प्रतियोत्स्यामि पार्थं ।
महाहवे पश्य च पौरुषं मे ॥ ८.८३.५४ ॥
据我们所闻,世上从未有过如此杰出的战车手。我将在大战中与这样的般度之子作战;看我的勇气。
8.83.55
रणे चरत्येष रथप्रवीरः ।
सितैर्हयैः कौरवराजपुत्रः।
स वाऽद्य मां नेष्यति कृच्छ्रमेत… ।
त्कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः ॥ ८.८३.५५ ॥
在战场上,这位车战英雄驰骋而行,乃是身驾白马的俱卢王之子。今日他将把我引入困境;待到其末,迦尔纳或许也能在此胜任。
8.83.56
अस्वेदिनौ राजपुत्रस्य हस्ता… ।
ववेपमानौ जातकिणौ बृहन्तौ।
दृढायुधः कृतिमान्क्षिप्रहस्तो ।
न पाण्डवेयेन समोऽस्ति योधः ॥ ८.८३.५६ ॥
王子的双手不出汗,却在颤抖,布满老茧而巨大。手持坚定兵器、技艺高超、手法敏捷的勇士,无人能与般度之子相比。
8.83.57
गृह्णात्यनेकानपि कङ्कपत्रा… ।
नेकं यथा तान्प्रतियोज्य चाशु।
ते क्रोशमात्रे निपतन्त्यमोधाः ।
कस्तेन योधोऽस्ति समः पृथिव्याम् ॥ ८.८३.५७ ॥
他也抓起许多鹤羽箭,迅速搭上弓弦射出;这些不虚发的箭落在一俱卢舍之外。大地上有谁能与他相等?
8.83.58
अतोषयत्स्वाण्डवे यो हुताशं ।
कृष्णद्वितीयोऽतिरथस्तरस्वी।
लेभे चक्रं यत्र कृष्णो महात्मा ।
धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥ ८.८३.५८ ॥
在坎达婆林中令火神欢喜者,以黑天为第二、乃大车战士而迅捷者;大士黑天在那里获得了圆盘,般度之子、两手善射的萨维亚萨钦获得了甘狄拔弓。
8.83.59
श्वेताश्वयुक्तं च सुघोषमुग्रं ।
रथं महाबाहुरदीनसत्वः।
महेषुधी चाक्षये दिव्यरूपे ।
शस्त्राणि दिव्यानि च हव्यवाहात् ॥ ८.८३.५९ ॥
那辆驾着白马、声响洪亮而凶猛的战车;大臂、志不可夺者从火神处获得了两只大箭囊——不竭而具神圣形状——以及神兵。
8.83.60
यस्त्विन्द्रलोके निजघान दैत्या… ।
नसङ्ख्येयान्कालकेयांश्च सर्वान्।
लेभे शङ्खं देवदत्तं स्म तत्र ।
को नाम तेनाभ्यधिकः पृथिव्याम् ॥ ८.८३.६० ॥
在因陀罗天界杀死达提耶……、杀死无数迦罗刻耶及一切众生、并在那里获得提婆达多法螺的那位英雄,大地之上还有谁能胜过他?
8.83.61
महादेवं तोषयामास योऽस्त्रैः ।
साक्षात्सुयुद्धेन महानुभावः।
लेभे ततः पाशुपतं सुघोरं ।
त्रैलोक्यसंहारकरं महास्त्रम् ॥ ८.८३.६१ ॥
那位大有神威的英雄,在激烈的战斗中以武器亲自取悦了大天(湿婆),随后获得了极其可怕的帕舒帕塔,即毁灭三界的大神兵。
8.83.62
पृथक्पृथग्लोकपालाः समेता ।
ददुर्महास्त्राण्यप्रमेयाणि सङ्ख्ये।
यैस्ताञ्जघानाशु रणे नृसिंहः ।
सकालकेयानसुरान्समेतान् ॥ ८.८३.६२ ॥
各路世界守护者分别聚集,在战斗中赐予不可衡量的大神兵,那位人中狮子便以此迅速在战场上杀死了聚集的阿修罗和迦罗刻耶。
8.83.63
तथा विराटस्य पुरे समेता… ।
न्सर्वानस्मानेकरथेन जित्वा।
जहार तद्रोधनमाजिमध्ये ।
वस्त्राणि चादत्त महारथेभ्यः ॥ ८.८३.६३ ॥
同样,在毗罗吒的城中我们聚集之时……,他以一辆战车战胜了我们所有人,在战阵之中夺走了那群牛,还从大车战士们身上夺走了衣物。
8.83.64
तमीदृशं वीर्यगुणोपपन्नं ।
कृष्णद्वितीयं परमं नृपाणाम्।
तमाह्वयन्साहसमुत्तमं वै ।
जाने स्वयं सर्वलोकस्य शल्य ॥ ८.८३.६४ ॥
如此具备勇力与德行、以克里希那为第二、在诸王中最为殊胜的人——我向那位最大胆者发出挑战,哦沙利耶,我自己认识整个世界。
8.83.65
अनन्तवीर्येण च केशवेन ।
नारायणेनाप्रतिमेन गुप्तः।
वर्षायुतैर्यस्य गुणा न शक्या ।
वक्तुं समेतैरपि सर्वलोकैः ॥ ८.८३.६५ ॥
他受无限威力的克沙послед и无与伦比的那罗延所守护;即使所有世界聚集,历经万年,也无法说尽他的功德。
8.83.66
महात्मनः शङ्खचक्रासिपाणे… ।
र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य।
भयं न मे जायते साध्वसं च ।
दृष्ट्वा कृष्णावेकरथे समेतौ ॥ ८.८३.६६ ॥
见到手持法螺、法轮和利剑的大我毗湿奴,见到胜利者阿周那和婆苏提婆之子,即使看见这两位黑天同乘一车,我也不感到恐惧或慌乱。
8.83.67
अतीवायं धनुषि राजपुत्रे… ।
ष्वतीवान्यान्केशवश्चक्रयुद्धे।
एवंविधौ पाण्डववासुदेवौ ।
चलेत्स्वदेशाद्विमवान्न कृष्णौ ॥ ८.८३.६७ ॥
这位王子阿周那在射术上至为卓越,而羯沙婆在掷轮战中超越他人。这样的两位黑天,一位是般度之子,一位是婆苏提婆,即使是喜马拉雅山也无法使其移动。
8.83.68
उभौ हि शूरौ बलिनौ दृढायुधौ ।
महारथौ संहननोपपन्नौ।
एतौ वीरौ नरवीरौ समेतौ ।
स्थानाच्च्युतौ देवकुमाररूपौ ॥ ८.८३.६८ ॥
二人都是勇士,强大有力,武器坚固,是大战车武士,身体强健。这两位人中之雄聚在一起,具有天神王子的形貌,不会从原地被移开。
8.83.69
जेतुं प्रसह्यार्जुनं चाच्युतं च ॥ ८.८३.६९ ॥
用武力征服阿周那与不朽者(黑天)。
8.83.70
एतौ हि तावर्जुनवासुदेवौ ।
कोऽन्यः प्रतीयान्मदृते तु शल्य ॥ ८.८३.७० ॥
这二人——阿周那与婆苏提婆——哦,沙利耶,除我之外,还有谁能抵挡他们?
8.83.71
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥ ८.८३.७१ ॥
所有韦私尼英雄的福运都系于克里希那,所有般度之子的胜利都系于普利塔之子。
8.83.72
तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ ।
मामेकमभियोद्धारौ सुजातं बत शल्य मे ॥ ८.८३.७२ ॥
这两位人中虎同立于一车,只为与我一人交战。啊,沙利耶,我的命运是多么好!
8.83.73
नैतच्चिरं क्षिप्रमिमं रथं मे ।
प्रवर्तयैतावभियामि चैवम्।
अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ ।
ताभ्यां हतं वा युधि मां रिपुभ्याम् ॥ ८.८३.७३ ॥
这不会持续太久;快驱动我的战车。我这样向他们冲去。此刻就看那两位克里希那倒下,或者看我在战斗中被这两个敌人杀死。
8.83.74
एवं ब्रुवाणः सहसा महारथ… ।
स्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः ॥ ८.८३.७४ ॥
如此说完,这位大战车武士……御者之子(迦尔纳)猛然向般度之子冲去。
8.83.75
पदातिसङ्घा द्विरदास्तथा तदा ॥ ८.८३.७५ ॥
那时,步兵的队伍与大象也同样(冲了上去)。
8.83.76
निरुध्यताभिद्रवताच्युतार्जुनौ ।
श्रमेण संयोजयताशु सर्वशः।
यथा भवद्भिर्भृशविक्षतावुभौ ।
सुखेन हन्यान्मम वाहिनीपतिः ॥ ८.८३.७६ ॥
包围并攻击阿丘塔与阿周那。迅速全力将他们会合,使你们让二人重伤,使这统帅可以轻易地被我所杀。
8.83.77
यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥ ८.८३.७७ ॥
阿周那在战场上将他们吞噬。
8.83.78
न सन्दधानो न तथा शरोत्तमान् ।
प्रमुञ्चमानो रिपुभिः प्रदृश्यते।
धनञ्जयास्तैः स्म शरैर्विदारिता ।
हता निपेतुर्नरवाजिकुञ्जराः ॥ ८.८३.७८ ॥
人们看不见他搭箭或射出上好的箭;被财富征服者的箭射穿,人、马、象纷纷倒地而死。
8.83.79
शरार्चिषं गाण्डिवचारुमण्डलं ।
युगान्तसूर्यप्रतिमानतेजसम्।
न कौरवाः शेकुरुदीक्षितुं जयं ।
यथा रविं व्याधितचक्षुषो जनाः ॥ ८.८३.७९ ॥
他箭光闪耀,甘狄拉弓如美丽圆环,光辉如劫末之日;俱卢族人连望见胜利都做不到,正如眼睛有病的人不能直视太阳。
8.83.80
शरोत्तमान्सम्प्रहितान्महारथै ।
श्चिच्छेद पार्थः प्रहसञ्छरौधैः।
भूयश्च तानहनद्बाणसङ्घान् ।
गाण्डीवधन्वायतपूर्णमण्डलम् ॥ ८.८३.८० ॥
般度子(阿周那)笑着以箭雨截断大车武士射来的上等箭矢;又击打那些箭群,将甘狄拉弓拉成满月般的圆。
8.83.81
यथोग्ररश्मिः शुचिशुक्रमध्यगः ।
सुखं विवस्वान्हरते जलौघान्।
तथार्जुनो बाणगणान्निरस्य ।
ददाह सेनां तव पार्थिवेन्द्र ॥ ८.८३.८१ ॥
如同光线猛烈的太阳穿行于明亮清澈的天空中央,轻易地吸干水流;阿周那也是如此,射出无数箭矢,焚毁了你的军队,王中之王啊。
8.83.82
तमभ्यधावद्विसृजन्कृपः शरां… ।
स्तथैव भोजस्तव चात्मजः स्वयम्।
महारथो द्रोणसुतश्च सायकै… ।
रवाकिरंस्तोयधरा यथाऽचलम् ॥ ८.८३.८२ ॥
克里帕射出箭矢冲向他;你的儿子跋阇(克里达瓦尔曼)亦然;大车士德罗纳之子也以箭雨覆盖他,犹如云朵倾注于山上。
8.83.83
जिघांसुभिस्तान्कुशलैः शरोत्तमान् ।
महात्मभिः सम्प्रहितान्प्रयत्नतः।
शरैः प्रतिच्छेद स पाण्डवस्त्वरन् ।
परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः ॥ ८.८३.८३ ॥
那些由熟练的大士们竭力射出、欲置其于死地的上等箭矢,般度之子迅速以自己的箭将其斩断;他穿透敌人,每人以三支箭射中。
8.83.84
स गाण्डिवव्यायतपूर्णमण्डल… ।
स्तपन्रिपूनर्जुनभास्करो वभौ।
शरोग्रश्मिः शुचिशुक्रमध्यगो ।
यथैव सूर्यः परिवेयवांस्तथा ॥ ८.८३.८४ ॥
他将甘狄拔弓拉成满圆……如阿周那太阳般照耀,炙烤着敌人;箭锋便是他的光芒,他仿佛行于澄净天空中央的太阳,又如被光环环绕的太阳。
8.83.85
अथाग्र्यबाणैर्दशभिर्धनञ्जयं ।
पराभिनद्दोणसुतोऽच्युतं त्रिभिः।
चतुर्भिरश्वांश्चतुरः कपिं ततः ।
शरैश्च नाराचवरैरवाकिरत् ॥ ८.८३.८५ ॥
随后德罗纳之子以十支上等箭射中财富征服者(阿周那),以三支射中不坏者(克里希那),再以四支射中其四匹马,并向持猴旗者倾泻上等铁杆箭雨。
8.83.86
तथा ततः प्रस्फुरदस्य कार्मुकं ।
त्रिभिः शरैर्यन्तृशिरश्चकर्त ह।
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं ।
धनञ्जयो द्रौणिरथादपातयत् ॥ ८.८३.८६ ॥
于是达难阇耶从德罗尼之子的车上,以三箭斩断其颤动的弓,并斩下御者的头;以四箭射倒马匹,以三箭射落旗帜。
8.83.87
स रोषपूर्णो ह्मतिवज्रहाटकै… ।
रलङ्कृतं तक्षकभोगवर्चसम्।
स तद्वधे कार्मुकमन्यदाददे ।
यथा महाहिप्रवरं तथैव च ॥ ८.८३.८७ ॥
他怒火充盈,为毁灭那张弓而另取一张弓,以极坚硬的金饰……装饰,光辉如蛇王德叉迦的盘绕,犹如大蛇。
8.83.88
स्वमायुधं चापि विकीर्य भूतले ।
धनुश्च कृत्वा सगुणं गुणाधिकः।
समानयंसल्तावजितौ नरोत्तमौ ।
शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥ ८.८३.८८ ॥
他将自己的兵器抛于地上,取来已上弦的弓,技艺超群的德罗尼之子从近处以上好的箭射穿了那两位不可战胜的人中俊杰。
8.83.89
कृपश्च भोजश्च तवात्मजश्च ते ।
शरैरनेकैर्युधि पाण्डवर्षभम्।
महारथाः संयुगमूर्धनि स्थिता… ।
स्तमोनुदं वारिधरा इवापतन् ॥ ८.८३.८९ ॥
克里帕、婆闍以及你的儿子,立于阵前的大车将,在战斗中以许多箭射向般度族的雄牛……箭如乌云般落在驱散黑暗的太阳上。
8.83.90
कृपस्य पार्थः शरं शरासनं ।
हयान्ध्वजान्सारधिमेव पत्रिभिः।
समार्पयद्वाहुसहस्रविक्रम… ।
स्तथा यथा वज्रधरः पुरा बलेः ॥ ८.८३.९० ॥
普利塔之子阿周那以有羽的箭完全覆盖了克里帕的箭、弓、马、旗帜和御者,正如往昔持金刚者对婆利所做的那样……[千臂之威]。
8.83.91
स पार्थबाणैर्विनिपातितायुधो ।
ध्वजावमर्दे च कृते महाहवे।
कृतः कृपो बाणसहस्रयनितो ।
यथापगेयः प्रथमं किरीटिना ॥ ८.८३.९१ ॥
在那场大战中,他的武器被般度之子的箭射落,旗帜被摧毁,克利巴被千箭围困,首先被戴冠者(阿周那)迫使撤退。
8.83.92
शरैः प्रचिच्छेद तवात्मजस्य ।
ध्वजं धनुश्च प्रचकर्त नर्दतः।
जघान चाश्वान्कृतवर्मणः शुभान् ।
ध्वजं च चिच्छेद तवात्मजस्य ह ॥ ८.८३.९२ ॥
他用箭射断了你儿子的旗帜和弓;他怒吼着杀死了谴鞞的骏马;他还斩断了你儿子的旗帜。
8.83.93
सवाजिसूतेष्वसनान्सकेतना… ।
ञ्जयान नागाश्वरथांश्च स त्वरन्।
ततः प्रकीर्णं सुमहद्वलं तव ।
प्रपीडितं सवितुरिवौजसा भृशम् ॥ ८.८३.९३ ॥
他急速地打击萨尼雅人及其马匹、御者、弓和旗帜,以及他们的象、马和战车;于是你庞大的军队四散,仿佛被太阳的光芒猛烈逼迫。
8.83.94
रथैः सुयुक्तैरपरे युयुत्सवः ॥ ८.८३.९४ ॥
其他渴望作战的人乘着装备精良的战车。
8.83.95
अथाभिसृत्य प्रतिवार्य चाहितान् ।
धनञ्जयस्यानुचरान्महारथाः।
शिखण्डिशैनेययमाः शितैः शरै… ।
र्विदारयन्तो व्यनदन्सुभैरवम् ॥ ८.८३.९५ ॥
于是,大战车武士奚康迪、失乃耶与双子前进并击退敌人,以利箭撕裂丹阇耶的随从,发出极其可怕的吼声。
8.83.96
ततोऽभिजघ्नुः कुपिताः परस्परं ।
शरैस्तदाञ्चोगतिभिः सुतेजनैः।
कुरुप्रवीराः सह पृञ्जयैर्यथा ।
सुरारयो देवपतिं यथा तथा ॥ ८.८३.९६ ॥
于是愤怒的俱卢英雄与般遮罗人一起,以疾飞、锋利的箭相互射击,如同阿修罗攻击诸神之主。
8.83.97
जयेप्सवः स्वर्गमनाय चोत्सुकाः ।
पतन्ति नागाश्वरथाः परन्तप।
तथैव सर्वे बहवश्च विव्यधुः ।
शरैः सुमुक्तैरितरेतरं पृथक् ॥ ८.८३.९७ ॥
渴望胜利、急于升天的人啊,征服敌人者,象、马与车辆纷纷倒下。同样,众人与许多人以善射的箭,各自互相射伤。
8.83.98
शरान्धकारे तु महात्मभिः कृते ।
महामृधे योधवरैः परस्परम्।
चतुर्दिशो वै विदिशश्च पार्थिव ।
प्रभा च सूर्यस्य तमोवृताऽभवत् ॥ ८.८३.९८ ॥
国王啊,在那场大战中,诸位心胸宏大的勇士彼此制造了箭的黑暗时,四方与四隅,连太阳的光明也被黑暗遮蔽了。