摩诃婆罗多 · 章 8.84
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.84.1
…प्रबरैर्वलैर्भीममभिद्रुतम् ।
… कौन्तेयमुस्थिहीर्षुर्धनञ्जयः ॥ ८.८४.१ ॥
…精锐之军攻击了毗摩。……贡蒂之子(毗摩),欲救起他的达那陀耶(阿周那),
8.84.2
… सेनां मारत सायकैः ।
… परवीरान्धनञ्जयः ॥ ८.८४.२ ॥
……以箭击杀军队……敌方勇士,达那陀耶(阿周那)。
8.84.3
… शरजालानि भागशः ।
अदृश्यन्त तथान्ये च निजघ्नुस्तव वाहिनीम् ॥ ८.८४.३ ॥
……箭网分段可见;其他人也同样击打你的军队。
8.84.4
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः ।
धनञ्जयो महाबाहुः कुरूणामन्तकोऽमयत् ॥ ८.८४.४ ॥
以箭充满群鸟飞行的天空,大臂的达那陀耶(阿周那)如同死神降临于俱卢族之间。
8.84.5
ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि ।
गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह ॥ ८.८४.५ ॥
于是普利塔之子(阿周那)以阔头箭、刀刃箭和明亮的铁箭斩断躯体,也斩下头颅。
8.84.6
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः ।
पातितैश्च पतद्भिश्च योधैरासीत्समावृता ॥ ८.८४.६ ॥
四周布满了身体被斩断、没有甲胄、无头的战士,有的已倒下,有的正倒下。
8.84.7
धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः ।
सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता।
गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा ॥ ८.८४.७ ॥
大地被被阿周那(Dhanañjaya)的箭射中的战车、马匹、车手和象群所覆盖,其中有被砍断、撕裂、碾碎的躯体与肢体,死者与生者都有。
8.84.8
सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा ।
रणभूमिरभूद्राजन्महावैतरणी यथा ॥ ८.८४.८ ॥
大王啊,那战场变得极难通行、极其崎岖、可怕至极、令人不忍目睹,如同大维多兰尼河(地狱之河)。
8.84.9
ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम् ।
ससूतैर्हतसूतैश्च रथैः स्तीर्णाऽभवन्मही ॥ ८.८४.९ ॥
大地上散落着被战士们的车辕、车轮、车轴和投枪箭击碎的战车,有的没有马,有的有马,有的有车夫,有的车夫已被杀死。
8.84.10
सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः ।
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः ॥ ८.८४.१० ॥
高贵的象群,总是发情狂暴,披着整齐的甲胄,由身穿金甲、佩戴金鬘的战士骑乘。
8.84.11
क्रुद्धाः क्रुरैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ।
चतुः शता रथवरा हताः पेतुः किरीटिना ॥ ८.८४.११ ॥
被残酷的大将派来的他们愤怒地冲向阿周那;四百辆上等战车被戴冠者(阿周那)杀死,纷纷倒下。
8.84.12
पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः ।
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः ॥ ८.८४.१२ ॥
仿佛大山的山峰连同其中的生灵被推倒,大地上满布被阿周那的箭射中的上等象群。
8.84.13
समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः ।
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ॥ ८.८४.१३ ॥
四面八方,阿周那的战车向那些如云、洒下发情液的象群冲去,犹如太阳劈开乌云。
8.84.14
हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः ।
विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः।
उपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥ ८.८४.१४ ॥
被杀的象、人与马,多处破碎的战车,丢弃兵器与铠甲、失去生命、以善战自傲的战士,使阿周那的道路遍布尸骸。
8.84.15
विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम् ।
सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः ॥ ८.८४.१५ ॥
甘狄拔弓被拉满,发出可怕的声响,如霹雳交击,如雨云轰鸣。
8.84.16
ततः प्रादीर्यत चमूर्धनञ्जयशराहता ।
महावातसमाविद्धा महानौरिव सागरे ॥ ८.८४.१६ ॥
于是军队被阿周那的箭射中而溃裂,如同大船在大海中被狂风击打而破碎。
8.84.17
नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः ।
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥ ८.८४.१७ ॥
甘狄拔弓射出的各种形状、夺命的箭,如火把、流星与霹雳,焚烧着你的军队。
8.84.18
महागिरौ वेणुवनं निशि प्रज्वलितं यथा ।
तथा तव महासैन्यं प्रास्फुरच्छरपीडितम् ॥ ८.८४.१८ ॥
如同大山之上夜里燃烧的竹林,你那庞大的军队被箭矢折磨,翻腾挣扎。
8.84.19
तद्विनष्टं सुविध्वस्तं तव सैन्यं किरीटिना ।
हतप्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥ ८.८४.१९ ॥
你的军队被戴冠者彻底摧毁、击溃,被箭矢射倒、杀伤,向四面八方逃散。
8.84.20
सश्वापदा मृगगणा दावाग्नित्रासिता यथा ।
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ ८.८४.२० ॥
如同林火惊吓的鹿群与野兽,被左右开弓者焚烧的俱卢人转身奔逃。
8.84.21
उत्सृज्य च महाबाहुं भीमसेनं तथा रणे ।
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥ ८.८४.२१ ॥
在战场上抛下大臂的怖军,俱卢军全体惊慌,转身逃走。
8.84.22
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः ।
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ॥ ८.८४.२२ ॥
俱卢军溃败后,不败的毗跋蹉(阿周那)走近怖军,并在片刻间转向他。
8.84.23
समागम्य च भीमेन मन्त्रयित्वा च फल्गुनः ।
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥ ८.८४.२३ ॥
与怖军相会并商议后,法尔古那(阿周那)告诉他,坚战已无箭伤,也无痛苦。
8.84.24
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः ।
नादन्रथघोषेण पृथिवीं द्यां च भारत ॥ ८.८४.२४ ॥
得到怖军的许可后,财富征服者(阿周那)随即出发,婆罗多啊!他的战车轰鸣声震动了大地与天空。
8.84.25
ततः परिवृतो वीरैर्दशभिः शत्रुतापनः ।
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ॥ ८.८४.२५ ॥
于是,令敌人痛苦的Dhanañjaya被十位勇士包围,他们是你的儿子,即Duḥśāsana的幼弟们。
8.84.26
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् ।
आततेष्वसना वीरा नृत्यन्त इव भारत ॥ ८.८४.२६ ॥
他们用箭射向他,如同以火把攻击大象;婆罗多啊,那些拉满弓的勇士仿佛在跳舞。
8.84.27
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः ।
नियुक्तान्हि स तान्मेने यमायाशु किरीटिना ॥ ८.८४.२७ ॥
然而摩图之敌(克里希那)将战车向左转;戴冠者以为他已迅速将他们送往阎摩处。
8.84.28
तथान्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम् ॥ ८.८४.२८ ॥
其他人也同样愚痴地呼喊,仿佛阿周那已背过身去。
8.84.29
तेषां नानदतां केतूनश्वांश्चापानि सारथीन् ।
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत ॥ ८.८४.२९ ॥
Pārtha迅速以铁箭和半月箭斩断了他们呼啸的旗帜、马匹、弓和御者。
8.84.30
अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत् ।
रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले ॥ ८.८४.३० ॥
接着,他又以另外十支阔头箭斩下了他们的头颅;那些头颅双目因愤怒而赤红,嘴唇被咬住,落在了地上。
8.84.31
तेषां वक्राणि विबभुर्व्योम्नि तारागणा इव ॥ ८.८४.३१ ॥
他们的面孔在天空中闪耀,如同群星。
8.84.32
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् ।
रुक्माङ्गदाव्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा ॥ ८.८४.३२ ॥
他以迅疾的月牙箭每人射中十箭,射杀了那些俱卢人,敌人的克星便向前去了。