Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 8.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

8.85.1

तमायान्तं महावेगैरश्वैः कपिवरध्वजम् ।
युद्धायाभ्यद्रवन्दीराः कुरूणां नवतीं रथाः ॥ ८.८५.१ ॥

迅速な馬に乗って進んでくる、猿の中の最上の旗を掲げたアルジュナに向かって、クル族の勇猛な九十人の戦車兵が戦いのために突進した。

8.85.2

कृत्वा संशप्तका घोरं शपथं पारलौकिकम् ।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥ ८.८५.२ ॥

来世にかかわる恐ろしい誓いを立てて、その人中の虎たちは戦場で人中の虎アルジュナを取り囲んだ。

8.85.3

कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान् ।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥ ८.८५.३ ॥

クリシュナは、白く、速く駆ける、金の飾りを施し真珠の網で覆われた馬を、カルナの戦車へと向けて走らせた。

8.85.4

प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम् ।
बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः ॥ ८.८५.४ ॥

カルナの戦車へ進むその敵を滅ぼす者ダナンジャヤを見て、サンシャプタカの部隊は矢の雨を浴びせながら突進した。

8.85.5

त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥ ८.८५.५ ॥

しかしアルジュナは、急いで向かってくる彼ら全員を、御者や弓、旗もろとも、鋭い矢で九十人の英雄を打ち倒した。

8.85.6

तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।
विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा ॥ ८.८५.६ ॥

冠を戴く者の様々な形の矢に射殺されて、彼らは倒れた。功徳が尽きたとき、善人が天の乗り物から天界より落ちるように。

8.85.7

ततः सरथनागाश्वाः कुरवः कुरुसत्तमम् ।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥ ८.८५.७ ॥

その時、戦車・象・馬を率いたクルの人々は恐れることなく、クルの最良者、バラタの第一人者ファルグナ(アルジュナ)へ進んだ。

8.85.8

तदायस्तमनुष्याश्वमुदीर्णवरवारणम् ।
पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम् ॥ ८.८५.८ ॥

その時、鎧をまとった兵と馬、整然と並んだ優れた象からなるあなたの息子たちの大軍は、戦いでダナンジャヤ(アルジュナ)を押し潰そうとした。

8.85.9

शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः ।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥ ८.८५.९ ॥

大弓の射手であるクルの人々は、槍・投槍・投げ槍・標槍・棍棒・剣・矢でクルの息子(アルジュナ)を覆った。

8.85.10

तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः ।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥ ८.८५.१० ॥

太陽が光線で闇を払うように、パーンドゥの子は空一面に広がったその武器の雨を矢で散らした。

8.85.11

ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः ।
पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात् ॥ ८.८५.११ ॥

その時、あなたの息子の命によって、千三百頭の狂象を従えて立っていたムレッチャたちが、側面からパールタ(アルジュナ)を打った。

8.85.12

कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः ।
कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥ ८.८५.१२ ॥

戦車に立つパールタ(アルジュナ)を、鉤のある矢・三日月形の矢・ナーラーチャ矢・投槍・槍・短槍・鋏形の矢・ビンディパーラで苦しめながら。

8.85.13

तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः ।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥ ८.८५.१३ ॥

力強いパールグナ(アルジュナ)は、象の上の者たちが放った比類なき武器の雨を、鋭いバッラ矢と半月矢で断ち切った。

8.85.14

अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः ।
सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत् ॥ ८.८५.१४ ॥

そして彼は、旗、幟、御者を備えたあの象たちすべてを、様々な印のついた優れた矢で貫いた。まるで金剛杵で山々を砕くように。

8.85.15

ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः ।
हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः ॥ ८.८५.१५ ॥

金の羽根の矢に射られ、金の花環をまとった大象たちは倒れ死んだ。炎をまとった山々のように。

8.85.16

ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते ।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥ ८.८५.१६ ॥

そして、人民の主よ、ガーンディーヴァの大いなる弦音が響き渡った。咆哮し叫ぶ人、象、馬の声とともに。

8.85.17

कुञ्चराश्च हता राजन्दद्रुवुस्ते समन्ततः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ ८.८५.१७ ॥

王よ、殺された象も残った象も四方へ逃げ散った。そして騎手を失った馬は十方へ駆け回った。

8.85.18

रथा हीना नहाराज रथिभिर्वाजिभिस्तथा ।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥ ८.८५.१८ ॥

人の王よ、御者と馬を失った戦車が幾千と見え、ガンダルヴァの都のようであった。

8.85.19

अश्वारोहा महाराज धावमाना इतस्ततः ।
तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः ॥ ८.८५.१९ ॥

大王よ、あちこちへ駆け回る騎兵たちが、パールタ(アルジュナ)の矢に射殺されてそこかしこに倒れているのが見える。

8.85.20

तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥ ८.८५.२० ॥

その瞬間、パーンドゥの子の腕の力が現れた。彼はただ一人で、戦において騎兵、象、戦車を打ち破ったのである。

8.85.21

असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति ।
नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः ॥ ८.८५.२१ ॥

大王よ、散り散りになった者たちは戦場へ引き返し、人も象も戦車も吼えながらアルジュナへ殺到した。

8.85.22

ततस्त्र्येङ्गेण महता बलेन भरतर्षभ ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥ ८.८५.२२ ॥

バラタ族の牡牛よ、大王よ、そのときビーマセーナは、大軍の三軍に囲まれた冠のアルジュナを見た。

8.85.23

हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।
जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति ॥ ८.८५.२३ ॥

あなた方の残った戦車の幾つかを残して、ビーマは素早くダナンジャヤの戦車へ突進した。

8.85.24

ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।
दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति ॥ ८.८५.२४ ॥

そのとき、大半が殺され動揺したその軍勢は、兄アルジュナのもとへ来るビーマを見て逃げ去った。

8.85.25

हतावशिष्टांस्तुरगानर्जुनेन महाबलः ।
भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे ॥ ८.८५.२५ ॥

大力のビーマは、棍棒を手に疲れを知らず、あの大戦でアルジュナが生かしておいた残りの馬を打ち砕いた。

8.85.26

गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः ।
मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम् ॥ ८.८५.२६ ॥

バーラタよ、棍棒を手にしたビーマを見て、バーラタの戦士たちは杖を手にして近づくアンタカ(ヤマ)そのものだと思った。

8.85.27

कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥ ८.८५.२७ ॥

あの棍棒は死の夜のように極めて凶暴で、人と象と馬を貪り、城壁・望楼・城門を砕く、極めて恐ろしいものだった。

8.85.28

गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत् ।
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥ ८.८५.२८ ॥

馬を滅ぼすために急いだビーマは棍棒を投げつけた。それは多くの馬と騎兵を打ち倒した、マーリシャよ。

8.85.29

कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः ।
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥ ८.८५.२९ ॥

パーンドゥの子は、青銅と鉄の鎧を着た人と馬を、棍棒で轟音とともに打ち砕いた。彼らは殺されて倒れた。

8.85.30

दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः ।
भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः ॥ ८.८५.३० ॥

歯で大地を噛み、血にまみれ、頭も骨も脚も砕けて、肉食の群れの餌となって横たわっている。

8.85.31

असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा ।
अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा ॥ ८.८५.३१ ॥

血と肉と骨髄に満ち足りた棍棒は、骨までもむさぼり食いながら立っていた。恐ろしい死の夜のように。

8.85.32

सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः ।
भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः ॥ ८.८५.३२ ॥

一万頭の馬と多くの歩兵を殺した後、怒れるビーマは棍棒を手に、あちこちへ突進した。

8.85.33

गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः ।
मेनिरे समनुप्राप्तं कालदण्डोद्यतं यमम् ॥ ८.८५.३३ ॥

バーラタよ、棍棒を手にしたビーマを見て、あなたの兵たちは、時の杖を振り上げたヤマ自身が来たと思った。

8.85.34

स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः ।
प्रविवेश गजानीकं मकरः सागरं यथा ॥ ८.८५.३४ ॥

パーンドゥの息子は怒れる象のように、マカラ(海獣)が海に入るように、象の軍勢へ突入した。

8.85.35

विगाह्य च गजानीकं प्रगृह्य महतीं गदाम् ।
क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम् ॥ ८.८५.३५ ॥

象の軍勢に突入し、大きな棍棒を握ったビーマは、怒りのうちに一瞬でそれをヤマの館へ送った。

8.85.36

गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः ।
पततः समपश्याम सपक्षान्पर्वतानिव ॥ ८.८५.३६ ॥

甲冑をまとい、乗り手と旗を備えた狂象たちが、翼ある山のように倒れるのを我々は見た。

8.85.37

हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात् ॥ ८.८५.३७ ॥

その象の軍勢を滅ぼした大力のビーマセーナは、再び自分の戦車に乗り、後方からアルジュナへ向かった。

8.85.38

ततः पराङ्मुखीभूतं निरुत्साहं बलं तव ।
तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम् ॥ ८.८५.३८ ॥

その時、大王よ、あなたの軍勢は背を向け、意気を失い、ほとんどが武器に取り囲まれていた。

8.85.39

विलम्बमानं तत्सैन्यभप्रगल्भमवस्थितम् ।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः ॥ ८.८५.३९ ॥

その軍勢がためらい、勇気なく立ちつくすのを見て、アルジュナは矢と武器の雨でそれを覆った。

8.85.40

नराश्वरथमातङ्गा युधि गाण्डीवधन्वना ।
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः ॥ ८.८५.४० ॥

戦場では、ガーンディーヴァの弓の使い手の矢の群れに覆われた人、馬、戦車、象が、雄蕊に満ちたカダンバの木のように輝いた。

8.85.41

ततः कुरुणामभवदार्तनादो महान्नृप ।
नराश्वनागासुहनान्दृष्ट्वा बाणान्किरीटिनः ॥ ८.८५.४१ ॥

その時、王よ、冠を戴く者の矢が人、馬、象の命を奪うのを見て、クル族の間に大きな悲鳴が上がった。

8.85.42

हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम् ।
अलातचक्रवत्सैन्यं तदा बभ्राम तावकम् ॥ ८.८५.४२ ॥

「ああ、ああ」と叫び、ひどく怯えて互いにすがりついたあなたの軍勢は、そのとき燃える松明の輪のように旋回した。

8.85.43

ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम् ।
न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः ॥ ८.८५.४३ ॥

アルジュナの矢に打ち砕かれたクル軍には、矢に貫かれていない戦車も御者も馬も象も残っていなかった。

8.85.44

आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।
आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते ॥ ८.८५.४४ ॥

矢に鎧も身体も裂かれたその軍は燃えているかのようであった。自らの血にまみれ、恐ろしく滅びた、人の主よ。

8.85.45

तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः ।
न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम् ॥ ८.८५.४५ ॥

大半が殺され、鋭い矢に傷ついたその軍は、敵を苦しめるパルグナ(アルジュナ)のもとに至っても戦いを捨てなかった。

8.85.46

तत्राद्भुतमपश्याम कौरवाणां पराक्रमम् ।
वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ ॥ ८.८५.४६ ॥

そこで我々はクル族の驚くべき勇武を見た、バラタの牡牛よ。殺されながらも彼らはプリター の子(アルジュナ)を見捨てなかった。

8.85.47

तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः ।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥ ८.८५.४७ ॥

サヴィヤサーチン(アルジュナ)のその勇武を見て、クル族は皆カルナの命について絶望した。

8.85.48

अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे ।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥ ८.८५.४८ ॥

戦いでパールタ(アルジュナ)の矢に触れられることは耐えがたいと考え、クル族は引き返した。彼らはガーンディーヴァの持ち主に打ち負かされていたのだ。

8.85.49

ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः ।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥ ८.८५.४९ ॥

戦場でパールタ(アルジュナ)を捨て、矢に打たれ、恐怖に駆られて四方へ逃げ去り、御者の子(カルナ)にまで叫び求めた。

8.85.50

तान्विद्रावयते पार्थः किरञ्शरशतान्बहून् ।
हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम् ॥ ८.८५.५० ॥

パールタは数百の矢を降らせて彼らを敗走させ、パーンダヴァ軍と王ユディシュティラを喜ばせた。

8.85.51

पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति ।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥ ८.८५.५१ ॥

偉大な王よ、あなたの息子たちはカルナの戦車へ向かった。底知れぬ水に沈みゆく彼らにとって、そのときカルナが島となったのだ。

8.85.52

कुरवो हि महाराज निर्विषाः पन्नगा इव ।
कर्णमेवोपलीयन्त भयाद्गाण्डीवघन्वनः ॥ ८.८५.५२ ॥

偉大な王よ、クル族は毒を失った蛇のように、ガーンディーヴァ弓の射手(アルジュナ)を恐れ、ただカルナのもとに身を寄せた。

8.85.53

यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष ।
उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम् ॥ ८.८५.५३ ॥

マーリシャよ、死を恐れるすべての生き物が恐怖から、世界の最高の帰依処であるダルマに身を寄せるように。

8.85.54

तथा कर्णं महेष्वासं पुत्रास्तव नराधिप ।
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ॥ ८.८५.५४ ॥

人の主よ、同様にあなたの息子たちは、大いなる魂のパーンダヴァ(アルジュナ)への恐怖から、大弓手カルナのもとに身を寄せた。

8.85.55

ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् ।
मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः ॥ ८.८५.५५ ॥

血にまみれ、凸凹の地に横たわり、矢に苦しめられ、恐怖に心を奪われた彼らに、カルナは「恐れるな」と言った。

8.85.56

सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ॥ ८.८५.५६ ॥

あなたの軍がパールタに力ずくで打ち砕かれたのを見て、カルナは弓を大きく引き絞り、敵を殺そうと立ち尽くした。

8.85.57

तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः ।
सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन् ॥ ८.८५.५७ ॥

逃げ去るクル族を見て、武器を持つ者の中で最も優れたカルナは思案し、パールタを殺すことに心を定め、荒い息をついた。

8.85.58

विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः ।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥ ८.८५.५८ ॥

非常に大きな弓を引き絞り、アディラタの子、牡牛のようなカルナは、サヴィヤサーチンが見ている前で、再びパーンチャーラ族へと突進した。

8.85.59

ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।
शरौघैश्छादयामासुर्महामेघा इवाचलम् ॥ ८.८५.५९ ॥

その時、瞬く間に、血のように赤い目をした王たちが矢の雨で彼を覆った。大きな雲が山を覆うように。

8.85.60

ततः शरसहस्राणि कर्णमुक्तानि मारिष ।
पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः ॥ ८.८५.६० ॥

そして、カルナが放った千の矢が、ああ尊者よ、パーンチャーラ族の命を奪った。闇を払う太陽が闇を払うように。

8.85.61

महदासीत्तदा युद्धं पाञ्चालानां महामते ।
वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना ॥ ८.८५.६१ ॥

聡明なる者よ、そのとき パーンチャーラ族に大きな戦いが起こった。御者の子は友の為に熱意を燃やし、友情に駆られて彼らを討ち倒していたのだ。