Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.88.1

स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत ।
इत्युच्चैर्वचनं प्राह प्रतिनृत्यन्वृकोदरः ॥ ८.८८.१ ॥

婆罗多啊,他饮了他的血,抓住他的双脚,狼腹(怖军)一边舞蹈回应,大声说出了这些话。

8.88.2

एष ते रुधिरं तीव्रं पिबामि पुरुषादवत् ।
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ ८.८८.२ ॥

看吧,我像食人罗刹一样饮你滚烫的血。现在,你大怒之下,再说一次:“牛啊,牛啊!”

8.88.3

ये चास्मान्प्रतिनृत्यन्ति तदा गौरिति गौरिति ।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ ८.८८.३ ॥

那些当时对我们跳舞并喊着“牛啊,牛啊”的人,我们如今也对他们跳舞——再次喊“牛啊,牛啊”。

8.88.4

प्रमाणकोट्यां शयने कालकूटकभोजनम् ।
दंशनं चाहिभिस्तीक्ष्णैर्दाहं जतुगृहे च यत् ॥ ८.८८.४ ॥

在普拉玛纳库提,床上吃下迦罗古陀毒物;被锋利的毒蛇所咬;以及在漆宫中被焚烧——

8.88.5

द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या ।
इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु ॥ ८.८८.५ ॥

赌博中的巨大过失,在林中的居住,战场上的箭矢与兵器,以及居于风神之宫的日子——

8.88.6

दुःखान्येवाभिजानीमो न सुखानि कदाचन ।
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य वयं सदा ॥ ८.८८.६ ॥

我们只知道痛苦,从未有过快乐,始终如此,都因为持国及其诸子的恶行。

8.88.7

इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः ।
पुनरेव महाराज तव सैन्यमभिद्रवत् ॥ ८.८८.७ ॥

大王啊,狼腹(阿毗摩)高声说完这些话、赢得胜利后,又再次冲向你的军队。

8.88.8

रक्तार्द्रपाणिस्तु ततो महात्मा ।
गदापाणिः काल इवान्तकाले।
विभीषयंस्तव पुत्रस्य सैन्य… ।
मितस्ततो धावति वाहिनीं ते ॥ ८.८८.८ ॥

那位大德者双手被血浸透,手持铁杵,如末日的死神,惊吓你儿子的军队,四处朝你的军队奔跑……

8.88.9

ततः क्षणाद्भारत शून्यमासी… ।
दायोधनं घोरतरं कुरूणाम्।
यत्राजिमध्ये प्रापिबद्भीमसेनो ।
दुःशासनस्य रुधिरं क्रोधदीप्तः ॥ ८.८८.९ ॥

于是霎时间,婆罗多啊,……库卢人最为可怖的战场变得空荡;在那里,怒火燃烧的毗摩森那在激战中间饮下了难降之子的血。

8.88.10

स हत्वा समरे राजन्राजपुत्रं महाबलम् ।
पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटः ॥ ८.८८.१० ॥

大王啊,他在战场上杀死了那位大力的王子,心愿已满,因骄傲而高昂,凶猛得如同扑向鹿群的狮子。

8.88.11

रुधिरार्द्रो महाराज व्यशोभत परन्तपः ।
सपुष्पः किंशुक इव रक्तरक्ततरो बभौ ॥ ८.८८.११ ॥

大王啊,被鲜血浸透的那位焚灭敌人者闪耀着;如开花的金松木,比红更红,他光彩夺目。

8.88.12

रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत् ।
ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि ॥ ८.८८.१२ ॥

大王啊,满身血污、形貌可怖、怒气冲冲的他说了这些话:「邪恶的残忍者啊,现在说吧;你确实已经倒下了。」

8.88.13

दुःशासने यादृशं संश्रुतं न… ।
स्तदवाप्तं पाण्डवैः सर्वमेव।
अत्रैवमाप्स्याम्यपरं द्वितीयं ।
दुर्योधनं यज्ञपशुं विशस्य ॥ ८.८८.१३ ॥

正如对难敌所立的誓言…(缺文)…般月族已经全部达成。在此我也将以同样方式达成另一个目标:屠宰祭祀的牺牲——难敌。

8.88.14

शिरो मृदित्वाऽस्य पुनश्च शान्तिं ।
यास्याम्यहं कौरवाणां समक्षम्।
या साऽपतिः सा सपतिर्हि जाता ।
यास्ताः सपत्योऽपतयस्तु जाताः ॥ ८.८८.१४ ॥

砸碎他的头颅,我将在俱卢族面前重获平静。原本无夫的女子如今有了丈夫;原本的妻妾们却成了无夫之人。

8.88.15

पश्यन्तु चित्रं विविधं हि लोके ।
ये वै तिलाः षण्डतिला बभूवुः।
ते चेत्संसिद्धा निधनं गताः परे ।
किं चित्ररूपं बत जीवलोके ॥ ८.८८.१५ ॥

让人们看看世间种种奇异之事:那些芝麻变成了不结实的芝麻。若它们已成就而走向死亡,那么在生者的世界里,还有什么比这更奇异的形态呢?

8.88.16

एतावदुक्त्वा वचनं प्रहृष्टः ।
प्राक्रोशदुच्चै रुधिरार्द्रवक्रः।
ननर्त चैवातिबलो महात्मा ।
वृत्रं निहत्येव सहस्रनेत्रः ॥ ८.८८.१६ ॥

如此说罢,他欢喜地高声呼喊,口被鲜血浸湿。那位极其强大的大德起舞,如同杀死弗栗多的千眼神(因陀罗)。

8.88.17

दृष्ट्वा तु नृत्यन्तमुदग्रवीर्यं ।
कालं यथा त्वन्तकाले प्रजानाम्।
महद्भयं चाधिरथिं विवेश ।
जये निराशाश्च सुतास्त्वदीयाः ॥ ८.८८.१७ ॥

见那勇猛无比者起舞,如同众生末日的死神,巨大的恐惧进入了御者之子(迦尔纳);而您的儿子们对胜利感到绝望。

8.88.18

दुःशासने तु निहते पुत्रास्तव महारथाः ।
महत्क्रोधविषं वीरा धारयन्तो महाबलाः।
ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः ॥ ८.८८.१८ ॥

杜奢纳被杀之后,你的大战车武士们怀着强烈愤怒之毒,英雄而力量强大,大王啊,那些大勇猛者用箭把怖军遮蔽了起来。

8.88.19

निषङ्गी कवची खङ्गी दण्डधारो धनुर्धरः ।
अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ ॥ ८.८८.१९ ॥

阿兰布沙与日拉散陀,背负箭袋,披甲,持剑、持杖、持弓,速如风,光辉耀眼。

8.88.20

एते समेत्य सहिता भ्रातृव्यसनकर्शिताः ।
भीमसेनं महाबाहुं पीडयामासुरञ्जसा ॥ ८.८८.२० ॥

他们聚集一处,因兄弟的灾祸而悲痛憔悴,迅速地逼迫大臂的婆罗森那(怖军)。

8.88.21

स वध्यमानो विशिखैः समन्तात्तैर्महारथैः ।
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥ ८.८८.२१ ॥

怖军被那些大战车武士从四面以箭射击,眼睛因愤怒而发红,震怒之下,如死神般光辉闪耀。

8.88.22

ततः परिवृतो राजन्नवभिः शत्रुतापनैः ।
दुःशासनादवरजैः पुत्रैस्तव वृकोदरः ॥ ८.८८.२२ ॥

大王啊,于是,杜奢纳的几位幼弟、你的九个儿子,这些使敌人痛苦的人,包围了狼腹(怖军)。

8.88.23

तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत ।
रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥ ८.८८.२३ ॥

婆罗多的后裔啊,阿周那(Pārtha)以每人九支、速度极快的宽头箭和金羽箭,把他们送往阎摩之处。

8.88.24

हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे ।
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥ ८.८८.२४ ॥

你的儿子们被杀之后,那支军队溃散逃跑,被般度之子带来的恐惧所折磨,而御者之子迦尔纳眼睁睁地看着。

8.88.25

ततः कर्णं महाराज प्रविवेश महद्भयम् ।
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥ ८.८८.२५ ॥

于是,大王啊,迦尔纳心中生起巨大的恐惧,他看见了毗摩的威猛,犹如众生中的死神。

8.88.26

तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः। ॥ ८.८८.२६ ॥

而沙利耶深知迦尔纳的外表与内心,在战阵中光彩照人。

8.88.27

उवाच वचनं कर्णं प्राप्तकालं हितं तदा ॥ ८.८८.२७ ॥

于是他对迦尔纳说了适时而有益的话。

8.88.28

एते द्रवन्ति राजानो भीमसेनभयार्दिताः ।
दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः ॥ ८.८८.२८ ॥

这些国王被毗摩森那的恐惧所折磨而逃跑;难敌也惶惑不安,因兄弟的灾祸而憔悴。

8.88.29

दुःशासनस्य रुधिरे पीयमाने महात्मना ।
व्यापन्नचेताः सहसा शोकोपहतचेतनः ॥ ८.८८.२९ ॥

当那位大度者饮着难降的血时,心神已乱,意识被悲痛猛然击中。

8.88.30

उपासते त्वामेते हि परिवार्य महारथाः ।
कृपप्रभृतयः कर्ण हतशेषाः सहोदराः ॥ ८.८८.३० ॥

迦尔纳啊,以克里帕为首的这些大车战士,以及在屠杀中幸存的兄弟们,正围绕着你侍立。

8.88.31

पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः ।
त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः ॥ ८.८८.३१ ॥

已达成目标的般度之子们,以财主为首的勇士们,正面对着你,为战斗而来到你的面前。

8.88.32

स त्वं पुरुषशार्दूल पौरुषे महति स्थितः ।
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ॥ ८.८८.३२ ॥

人中之虎啊,你立于伟大的男子气概之中,以刹帝利之法为先,前去迎战财主。

8.88.33

भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः ।
तमुद्वह महाबाहो यथाशक्ति यथाबलम् ॥ ८.८८.३३ ॥

的确,持国之子的全部重担都已压在你身上。大臂者啊,请按你的力量与能耐承担它吧。

8.88.34

जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ।
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव।
त्वयि मोहं समापन्ने पाण्डवानभिधावति ॥ ८.८८.३४ ॥

胜利则有大名,失败则必得天界。啊,拉达之子,你已陷入迷惑,而你的儿子跋利舍那却愤怒地冲向般度之子。

8.88.35

एतच्छ्रुत्वा तु वचनं शल्यस्यामिततोजसः ।
हृदि मानुष्यकं भावं कृत्वा युद्वाय सुस्थिरम् ॥ ८.८८.३५ ॥

闻听无量光辉的沙利耶此言,心中怀着人之常情,他为战斗而变得极其坚定。

8.88.36

ततः क्रुद्धो वृषसेनोऽभ्यधाव… ।
द्भीमं समायान्तममित्रसाहम्।
बाणैः किरन्तं प्रतियाति चोग्रं ।
व्यात्ताननं कालमिवापतन्तम् ॥ ८.८८.३६ ॥

于是愤怒的毗利舍娑那冲向(……)那前来的征服敌人的毗摩;他射出箭雨,迎向这位凶猛的、如张口扑来的死神一般的英雄。

8.88.37

तमभ्यधावन्नकुलः प्रवीर… ।
मारादमित्रं प्रतुदन्पृषत्कैः।
कर्णस्य पुत्रं समरे प्रहृष्टं ।
जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥ ८.८८.३७ ॥

于是英雄无种冲向他,想要杀死并刺穿敌人,用箭击打在战场上欢欣鼓舞的迦尔纳之子,犹如胜利者阿周那欲杀死恶魔妖摩,又如因陀罗扑向妖摩一般。

8.88.38

ततो ध्वजं स्फाटिकहेमचित्रं ।
चिच्छेद धैर्यान्नकुलः क्षुरेण।
कर्णात्मजस्येष्वसनं च चित्रं ।
भल्लेन जाम्बूनदचित्रनद्धम् ॥ ८.८८.३८ ॥

于是无种坚定地用一支剃刀头箭斩断了迦尔纳之子那镶嵌水晶与金饰的旗帜;又用一支宽头箭斩断了他那以间色阎浮檀金缠绕的奇妙弓。

8.88.39

अथान्यदादाय धनुः स शीघ्रं ।
कर्णात्मजः पाण्डवमभ्यविध्यत्।
दिव्यैरस्त्रैरभ्यवर्षत्तदैनं ।
कर्णस्य पुत्रो नकुलं कृतास्त्रम् ॥ ८.८८.३९ ॥

随即,他迅速拿起另一张弓射中了般度之子;迦尔纳之子以神兵箭雨覆盖了精通兵器的无种。

8.88.40

ततः क्रुद्धो नकुलः कर्णपुत्रं ।
शरैर्महोल्काभिरिवाभ्यपीडयत्।
स कर्णपुत्रो नकुलस्य राज… ।
न्सर्वानस्त्रान्वारयदुत्तमास्त्रैः ॥ ८.८८.४० ॥

于是愤怒的无种以箭矢如大流星般逼迫迦尔纳之子;而迦尔纳之子以至上神兵,抵挡无种(……)王的一切兵器。

8.88.41

आसीत्सुघोरं भरतप्रवीर ।
युद्धं तदा कर्णजपाण्डवाभ्याम् ॥ ८.८८.४१ ॥

婆罗多族的英雄啊,那时,迦尔纳之子与般度五子之间爆发了极其惨烈的大战。

8.88.42

वनायुजान्सुकुमारान्सुशुभ्रा… ।
नलङ्कृताञ्जातरूपेण चित्रान्।
जघान चाश्वान्नकुलस्य वीरो ।
रणाजिरे सूतपुत्रस्य पुत्रः ॥ ८.८८.४२ ॥

在战场上,那纳古拉的英雄击杀了御者之子之子那些生于森林、娇嫩洁白、以黄金装饰、色彩斑斓的骏马。

8.88.43

ततो हताश्वादवरुह्य याना… ।
च्चर्माऽऽददे रुचिरं बर्हिचित्रम्।
आकाशसङ्काशमसिं प्रगृह्य ।
प्रकाशमानः खगवच्चचार ॥ ८.८८.४३ ॥

随后,马匹被杀,他下了战车,取了一面如孔雀羽毛般斑斓华美的盾牌,手持如天空般的剑,像鸟一样闪耀地来回穿行。

8.88.44

ततोऽस्य पक्षाननयद्यमाय ।
द्विसाहस्रान्नकुलः क्षिप्रकारी।
ते प्रापतन्नसिना वै विशस्ता ।
यथाऽश्वमेधे पशवः शमित्रा ॥ ८.८८.४४ ॥

于是迅捷的那古拉将他的两千名战士送往阎摩处;他们被剑所伤,倒下如同马祠祭中被宰杀的牲畜。

8.88.45

ततस्ततो विजिता युद्धशौण्डा ।
नानादेश्याः सुहृदः सत्यसन्धाः।
एकेन शीघ्रं नकुलेन नुन्नाः ।
सारेप्सुनेवोत्तमचन्दनस्य ॥ ८.८८.४५ ॥

于是那些在战场上自傲、来自各地、信守誓言的友军被击败;唯有那古拉一人迅速将他们驱散,如同欲求上等檀香心材者驱赶树木。

8.88.46

भूमौ चरन्तं नकुलं रथौघाः ।
समन्ततः सायकैः प्रत्यगृह्णन्।
स तुद्यमानो नकुलो विहङ्गै… ।
श्चचार सङ्ख्ये द्विषतो विनिघ्नन् ॥ ८.८८.४६ ॥

步行于地上的那古罗被四面的战车群以箭迎击。被箭所伤的那古罗在战场上一边杀敌一边行进……

8.88.47

तं कर्णपुत्रोऽपि चरन्तमाजौ ।
नराश्वमातङ्गरथप्रवीरान्।
निघ्नन्तमष्टादशभिः पृषत्कै… ।
र्विव्याध वीरः स चुकोप विद्धः ॥ ८.८८.४७ ॥

在战场上行进并杀死人、马、象、车的勇士们的那古罗,也被迦尔纳之子这位英雄以十八支箭射中。被射中后,他愤怒了……

8.88.48

ततोऽभ्यधावत्समरे जिघांसुः ।
कर्णात्मजं पाण्डुसुतो नृवीरम्।
तस्येषुभिर्वधमत्सूतपुत्रो ।
महारणे वर्म सहस्रभारम् ॥ ८.८८.४८ ॥

于是,般度之子欲杀之,冲向迦尔纳之子那位人中英雄。在那场大战中,因御者之子的箭,重达千斤的铠甲被毁坏……

8.88.49

तस्याथ कांस्यं सुशितं सुपीत… ।
मसिप्रवीरं गुरुभारासाहम्।
द्विषच्छरीरापहरं सुघोर… ।
माधून्वतः सर्पमिवात्तकोशम् ॥ ८.८८.४९ ॥

那时,他那锋利、擦亮的青铜(盾)……持剑的勇士,能承重负,夺取敌人身体,极为可怖……挥舞之时,如从鞘中抽出的蛇……

8.88.50

क्षिप्रं शरैः षङ्भिरमित्रसाह… ।
श्चकर्त खङ्गं निशितैः सुधारैः।
पुनश्च पार्थं निशितैः पृषत्कैः ।
स्तनान्तरे क्षिप्रमिवात्यविध्यत् ॥ ८.८८.५० ॥

这位制服敌人者迅速以六支箭……以锋利、刃口良好的箭斩断了他的剑。接着又以锐箭迅速射穿了般度之子(帕尔沙)的胸膛正中……

8.88.51

स भीमसेनस्य रथं च गत्वा ।
ववर्ष वै शरवर्षं सुघोरम् ॥ ८.८८.५१ ॥

他来到怖军的战车前,真的降下了极其可怕的箭雨。

8.88.52

नकुलमथ विदित्वा छिन्नबाणासनासिं ।
विरथमरिभिरार्तं कर्णपुत्रास्त्रमग्नम्।
पवनचलपताका ह्लादिनो वल्गिताश्वाः ।
परपुरुषनियुक्ताः स्वै रथैः शीघ्रमीयुः ॥ ८.८८.५२ ॥

于是,他们看见无车的那拉古拉弓剑已断,被敌人所困,陷入迦尔纳之子的武器之中,便乘着各自的战车,旌旗随风飘扬、骏马跃动,迅速赶来。

8.88.53

द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा ।
द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः।
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान् ।
भगवत इव रुद्राः सङ्ख्यया हेतिमन्तः ॥ ८.८८.५३ ॥

德鲁波陀最优秀的五子,以舍尼耶(萨谛奇)为第六,以及德鲁波陀之女的五子,皆为征服敌人者,摧毁象、车、人与马,扑向你的部下,犹如世尊的楼陀罗们,持械成群而来。

8.88.54

अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः ।
कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च।
शकुनिशुकवृकाश्च क्राथदेवावृधौ च ।
द्विरदजलदघौषैः स्यन्दनैः कार्मुकैश्च ॥ ८.८८.५४ ॥

于是你的主要战车将领急速上前迎战:克里帕与赫里迪卡之子、德罗纳之子阿湿缚他摩与难敌、沙恭尼、舒迦与伏迦,以及克拉塔与提婆跋陀,乘着如象云般轰鸣的战车,手持弓箭。

8.88.55

अथ तव रथवर्यास्तान्दशैकप्रवीरा… ।
निषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन्।
नवजलदसवर्णैर्हस्तिभिस्तान्स्म वव्रु… ।
र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ॥ ८.८८.५५ ॥

于是你方的上等车将,十一位勇士,以如雷电般的箭射击他们并加以阻截;他们用如新雨云般黑的象群包围了他们……如山峰般、速度骇人的库尼达人。