摩诃婆罗多 · 章 8.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.89.1
सुकल्पिता हैमवता महोत्कटा ।
रणाभिकामैः कृतिभिः समास्थिताः।
सुवर्णजालैर्वितता बभुर्गजा… ।
स्तथा यथा खे जलदाः सविद्युतः ॥ ८.८९.१ ॥
装饰精良的喜马拉雅猛象,与渴望战斗的熟练骑手一同站立;覆盖着金网,它们闪耀着……如同天空中带闪电的云。
8.89.2
कुणिन्दपुत्रो दशभिर्महायसैः ।
कृपं ससूताश्वमपीडयद्भृशम्।
ततः शरद्वत्सुतसायकैर्हतः ।
सहैव नागेन पपात भूतले ॥ ८.८९.२ ॥
鸠宁陀王之子以十支巨大的铁箭重创了克里帕,连同他的御者和马匹。随后,他被沙罗堕陀之子的箭射倒,与他的象一同坠落在地。
8.89.3
कुणिन्दपुत्रावरजस्तु तोमरै… ।
र्दिवाकरांशुप्रतिमैरयस्मयैः।
जघान भोजस्य हयानथापतन् ।
क्षणाद्विशस्ताः कृतवर्मणे हयाः ॥ ८.८९.३ ॥
鸠宁陀王子的弟弟以如日光般耀眼的铁矛……击中了婆阇(克利塔瓦尔曼)的马;这些马顷刻间受伤倒下;克利塔瓦尔曼的马已被重创。
8.89.4
अथापरे द्रौणिहता महाद्विपा… ।
स्त्रयः ससर्वायुधयोधकेतनाः।
निपेतुरुर्व्यां व्यसवो विचेतना… ।
स्तथा यथा वज्रहता महाचलाः ॥ ८.८९.४ ॥
随后,被德罗纳之子击倒的其他大象——三头,连同所有武器、战士与旗帜……失去生命与知觉,倒在地上,如同被霹雳击中的大山倾倒。
8.89.5
कुणिन्दराजावरजादनन्तरः ।
स्तनान्तरे पत्रिवरैरताडयत्।
तवात्मजं तस्य तवात्मजः शरैः ।
शितैः शरीरं व्यहनद्द्विपं च तम् ॥ ८.८९.५ ॥
随后,鸠宁陀王的弟弟用最好的羽箭射中了你的儿子的胸膛。于是你的儿子以锐利的箭射穿了他的身体和那头象。
8.89.6
स नागराजः सह राजसूनुना ।
पपात रक्तं बहु सर्वतः क्षरन्।
महेन्द्रवज्रप्रहतोऽम्बुदागमे ।
यथा जलं गेरिकपर्वतस्तथा ॥ ८.८९.६ ॥
那象王与王子一同倒下,四面流出大量鲜血,正如赤土山被因陀罗的金刚杵击中、雨季到来时水从山中流下。
8.89.7
कुणिन्दपुत्रप्रहितोऽपरो द्विपः ।
क्राथं ससूताश्वरथं व्यपोथयत्।
ततोऽपतत्क्राथसराभिघातितः ।
सहेश्वरो वज्रहतो यथा गिरिः ॥ ८.८९.७ ॥
又一头由俱宁陀之子派来的象,将克罗陀连同他的御者、马和战车一起踩碎了。
8.89.8
रथी द्विपस्थेन हतोऽपतच्छरैः ।
क्राथाधिपः पर्वतजेन दुर्जयः।
सवाजिसूतेष्वसनध्वजस्तथा ।
यथा महावातहतो महाद्रुमः ॥ ८.८९.८ ॥
那乘车的战士被象上之人的箭射中倒下;克罗陀之主,那生于山中的不可战胜者,连同他的马、御者、弓和旗一起倒下,如同大树被狂风连根拔起。
8.89.9
वृको द्विपस्थं गिरिराजवासिनं ।
भृशं शरैर्द्वादशभिः पराभिनत्।
ततो वृकं साश्वरथं महाद्विपो ।
द्रुतं चतुर्भिरणैर्व्यपोथयत् ॥ ८.८९.९ ॥
狼(Vṛka)以十二支箭猛烈射穿了象上之人,那位山王之地的居民;随后大象用四足迅速将狼连同他的马和战车踩踏。
8.89.10
स पोथितो नागरवेण वीर्यवा… ।
न्पराभिनद्द्वादशभिः शिलीमुखैः।
वृकेण बाणाभिहतोऽपतत्क्षितौ ।
सवारणो बभ्रुसुतेन सार्धम् ॥ ८.८९.१० ॥
那位勇猛者被大象碾压……被十二支箭射中;被狼的箭所伤,他与大象一同倒在地上,与婆卢之子一起。
8.89.11
कुणिन्दराजस्य सुतोऽपरस्तदा ।
स चापि शूरः सहसा समर्पितः।
पपात बाणैः सुबलस्य सूनुना ।
विषाणपुच्छापरगात्रपातिना ॥ ८.८९.११ ॥
那时,昆陀王的另一个儿子也是英雄,他突然中箭倒下,被苏跋罗之子的箭射中,那些箭以角状箭头和羽尾穿透他人身体。
8.89.12
गजेन वाहाञ्शकुनेः कुणिन्दजो ।
निनाय वैवस्वतमन्दिरं रणे।
रथं च संक्षुभ्य ननाद नर्दत… ।
स्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ ८.८९.१२ ॥
昆陀之子与一头象一同,在战场上把沙恭尼的马送往毗婆娑多的居所;他震动战车,大声吼叫。……然后乾陀罗之主斩下了他的头。
8.89.13
ततः कुणिन्देषु गतेषु तेषु ।
प्रहृष्टरूपास्तव ते महारथाः।
भृशं प्रदरध्मुर्लवणाम्बुसम्भवा… ।
न्वरांश्च बाणासनपाणयोऽभ्ययुः ॥ ८.८९.१३ ॥
那时,昆陀诸人离去之后,你方那些面带喜色的大车战士,猛烈吹响了生于咸海的海螺……手执弓箭,向前进发。
8.89.14
तथाऽभवद्युद्धमतीव दारुणं ।
पुनः कुरूणां सह पाण्डुसृञ्जयैः।
शरासिशक्त्यृष्टिगदापरश्वथै… ।
र्नराश्वनागासुहरं भृशाकुलम् ॥ ८.८९.१४ ॥
于是,俱卢与般度及苏尼遮之间的战斗再次变得极其可怕,箭矢、刀剑、枪矛、长矛、铁锤和斧钺齐下……夺去人、马、象的性命,极度混乱。
8.89.15
रथाश्वमातङ्गपदातयस्ततः ।
परस्परं विप्रहताः क्षितौ पतन्।
यथा सविद्युत्तटितो जलप्रदाः ।
समुत्थितैर्दिग्भ्य इवोग्रमारुतेः ॥ ८.८९.१५ ॥
于是战车、马、象与步兵相互冲撞受击,倒在地上,如同带着闪电的降雨之云,被从四方升起的猛烈狂风撕裂而坠落。
8.89.16
ततः शतानीकहता महागजा ।
हया रथाः पत्तिगणाश्च तावकाः।
सुपर्णवातप्रहता यथोरगा… ।
स्तथा गता गां विवशा विचूर्णिताः ॥ ८.८९.१६ ॥
随后,被舍塔尼迦击杀的大象、马匹、战车和你的步兵,如同被金翅鸟的风所击的蛇一样,无力地倒在地上,被碾得粉碎。
8.89.17
ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः ।
स विन्दपुत्रो नकुलात्मजं स्मयन्।
ततोऽस्य कोपाद्विचकर्त नाकुलिः ।
शिरः क्षुरेणाम्बुजसन्निभाननम् ॥ ८.८९.१७ ॥
随后,频陀之子面带微笑,用许多锋利的箭射穿了那努罗之子。然后,那努罗之子因愤怒,用一支刀刃形的箭斩下了他那如莲花般面容的头颅。
8.89.18
ततः शतानीकमविध्यदायसै… ।
स्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः।
त्रिभिश्च भीमं नकुलं च सप्तभि… ।
र्जनार्दनं द्वादशभिश्च सायकैः ॥ ८.८९.१८ ॥
随后,迦尔纳之子以铁箭射穿了舍塔尼迦……;用三支箭射阿周那,用三支射怖军和无种,用七支……,用十二支箭射阿周那与黑天。
8.89.19
तदस्य कर्मातिमनुष्यकर्मणः ।
समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्।
पराक्रमज्ञास्तु धनञ्जयस्य ये ।
हुतोऽयमग्नाविति ते तु मेनिरे ॥ ८.८९.१९ ॥
众俱卢见他超凡的功绩,欢喜地向他致敬;但熟知财主(阿周那)勇力的人却认为:“他已被投入火中作了供品。”