摩诃婆罗多 · 章 8.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.9.1
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे ।
बृहत्यौ सम्प्रजहाते देवासुरचमूसमे ॥ ८.९.१ ॥
两军相遇,战马、士卒与象群皆欢欣鼓舞,如同诸神与阿修罗之军,猛烈地相互冲撞。
8.9.2
ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः ।
सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान् ॥ ८.९.२ ॥
于是各式战车、战马与象群,以及勇猛的步兵,纷纷猛烈交击,那击打可消灭身体的罪孽。
8.9.3
पूर्णचन्द्रार्कपद्मानां कान्तित्विङ्गन्धतः समैः ।
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥ ८.९.३ ॥
那些头颅的光辉、色泽与芬芳如同满月、太阳和莲花,狮子般的勇士们用狮子般勇士的头颅铺满了大地。
8.9.4
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः ।
परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम् ॥ ८.९.४ ॥
战斗者的头颅被弯月箭、钩箭、剃刀箭、刀剑、宽剑与战斧所射断。
8.9.5
व्यायतायतबाहूनां व्यायतायतबाहुभिः ।
वाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः ॥ ८.९.५ ॥
那些长而宽的臂膀,被同样长而宽的臂膀所砍断,连同兵器与臂钏落在地上,闪闪发光。
8.9.6
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा ।
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव ॥ ८.९.६ ॥
那些颤动的手,指尖与掌心染满鲜血,大地闪耀,仿佛布满了迦楼罗所遣的凶猛五头蛇。
8.9.7
द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः ।
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गदस्तथा ॥ ८.९.७ ॥
被敌人击倒的勇士从象、车、马上坠落,如同功德耗尽时从天车上坠落者。
8.9.8
गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि ।
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥ ८.९.८ ॥
其他勇士被沉重的铁棍、大棒和木杵砸碎,成百上千地倒在战场上,被更勇猛的战士击杀。
8.9.9
रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः ।
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ॥ ८.९.९ ॥
战车被战车冲撞,狂象被狂象撞击,骑士被骑士击杀,在那极其混乱的战场上。
8.9.10
रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः ।
अश्वारोहैः पदाताश्च निहता युधि शेरते ॥ ८.९.१० ॥
被战车杀死的车士、被象杀死的骑兵、被步兵和骑兵杀死的骑兵与步兵,都倒在战场上。
8.9.11
रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः ।
रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः ॥ ८.९.११ ॥
车、马与步兵被象所杀;车、马与象被步兵所杀;车士、步兵与象被马所杀;人与象也被战车所杀。
8.9.12
रथाश्वेभनराणां तु नराश्वेभरथैः कृतम् ।
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥ ८.९.१२ ॥
车、马、象与人遭受大屠杀,由人、马、象与战车所造成;以手足、兵器与战车,造成了巨大的杀戮。
8.9.13
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च ।
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः ॥ ८.९.१३ ॥
那支军队的英雄虽被杀戮、倒下,普利塔之子们在狼腹(怖军)引领下向我们逼来。
8.9.14
वृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ।
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह ॥ ८.९.१४ ॥
持国之子啊,猛光、尸珂坦丁、德罗波蒂之子、普罗跋陀罗人、萨谛奇与伊吉坦那,与达罗毗荼士兵一同而来。
8.9.15
वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः ।
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः ॥ ८.९.१५ ॥
被大阵所环绕而来的,有般迪亚人、朱罗人与喀拉拉人,他们胸膛宽阔,手臂修长,身材高大,双眼明亮。
8.9.16
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः ।
नानाविरागवसाना गन्धचूर्णावचूर्णिताः ॥ ८.९.१६ ॥
佩戴花环,獠牙殷红,勇猛如发情的大象;身着五彩衣裳,洒满香粉。
8.9.17
बद्धासयः पाशहस्ता वारणप्रतिवारणाः ।
समानमृत्यवो राजन्नात्यजन्त परस्परम् ॥ ८.९.१७ ॥
象奴系紧了象钩,手持绳索,象与象相对抗;大王啊,他们如同死神一般,彼此不肯放过。
8.9.18
कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः ।
पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः ॥ ८.९.१८ ॥
头戴羽饰,手持弓箭,长发而言辞柔美的步兵,被箭射穿;他们形貌与勇力皆令人畏惧。
8.9.19
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः ।
कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः ॥ ८.९.१९ ॥
接着,其他英雄——钦地人、般遮罗人、迦叶人、迦卢沙人、憍萨罗人、建祗人和摩揭陀人——也冲了上去。
8.9.20
तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः ।
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥ ८.९.२० ॥
他们优良的战车、战马、战象和凶猛的步兵,因各种箭矢的声响而欢喜,又跳又笑。
8.9.21
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः ।
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः ॥ ८.९.२१ ॥
在那支庞大的军队中央,被最优秀的大将环绕,狼腹(毗摩)骑在象头上,向你的士兵迎面而来。
8.9.22
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ ।
उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम् ॥ ८.९.२२ ॥
那头优良而极其凶猛的象,按规制装饰好,光彩如同升起在东山之上的太阳。
8.9.23
तस्यायसं वर्मवरं वररत्नविभूषितम् ।
ताराव्याप्तस्य नभसः शारदस्य समं त्विषा ॥ ८.९.२३ ॥
他那件优良的铁甲,饰以上等宝石,光辉可与群星满布的秋日天空相媲美。
8.9.24
स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः ।
शरन्मध्यन्दिनार्काभस्तेजया प्रदाहद्रिपून् ॥ ८.९.२४ ॥
双手握着投枪,头戴美丽的王冠,装饰精美,光辉如秋日正午的太阳,他以威光焚烧着敌人。
8.9.25
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थित ।
आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे ॥ ८.९.२५ ॥
远远望见他,站在象背上的克谢玛дхурти一边呼喊挑战,一边大笑着冲向军阵前列,朝他扑去。
8.9.26
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः ।
यदृच्छया द्रुतवतोर्महापर्वतयोरिव ॥ ८.९.२६ ॥
二人之间发生了两头形貌狰狞的大象之战,宛如两座大山偶然奔跑相撞。
8.9.27
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् ।
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः ॥ ८.९.२७ ॥
那两位英雄坐在纠缠的象背上,以如太阳光芒般耀眼的长矛彼此猛刺,并且怒吼。
8.9.28
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः ।
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम् ॥ ८.९.२८ ॥
二人离开象背,绕圈游走,各自举起弓,彼此射击。
8.9.29
क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः ।
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः ॥ ८.९.२९ ॥
四方弓弦的鸣响、拍击之声与箭矢的呼啸交织,二人使众人欢欣,并发出狮吼般的呼喊。
8.9.30
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ ।
वातोद्वूतपताकाभ्यां युयुधाते महाबलौ ॥ ८.९.३० ॥
两位技艺娴熟、力大无穷的勇士高举双手,坐在象背上,旗帜随风飘扬,继续搏斗。
8.9.31
तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः ।
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥ ८.९.३१ ॥
二人互斩对方的弓,相互咆哮,如雨季的云降下雨水般投掷矛与投枪。
8.9.32
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे ।
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन् ॥ ८.९.३२ ॥
于是刻希玛德缇怒吼着,以极快的速度用投枪刺穿了怖军的胸膛中央,又以另外六支箭射中了他。
8.9.33
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः ।
क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशमान् ॥ ८.९.३३ ॥
那位怖军身上插着投枪,闪耀如七马之日,光芒四射,身躯因愤怒而燃烧。
8.9.34
ततो भास्करवर्णाभमञ्चोगतिमयस्मायम् ।
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥ ८.९.३४ ॥
于是怖军竭力向敌人掷出一支如太阳般光辉、走曲线的投枪。
8.9.35
ततः करूशाधिपतिश्चापमानम्य सायकैः ।
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम् ॥ ८.९.३५ ॥
于是卡鲁沙之主拉满弓,以十支箭斩断投枪,又以六十支箭射中了般度之子。
8.9.36
अथ कार्मुकमादाय भीमो जलदनिः स्वनम् ।
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः ॥ ८.९.३६ ॥
于是怖军拿起如雨云般轰鸣的弓,怒吼着用箭逼迫敌人的象。
8.9.37
स शरौघार्दितो नागो भीमसेनेन संयुगे ।
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः ॥ ८.९.३७ ॥
那头大象被箭雨所困,即使在战场上被毗摩那所擒,也无法站稳,犹如被风吹起的云。
8.9.38
तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट् ।
महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥ ८.९.३८ ॥
毗摩的那头象王冲向毗摩的大象,犹如被大风驱动的云,又如被风吹起的云。
8.9.39
सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान् ।
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम् ॥ ८.९.३९ ॥
克舍摩陀尔提勒住自己的象,威猛地用箭射穿了冲来的毗摩森纳之象。
8.9.40
ततः साधुविसृष्टेन क्षुरेणानतपर्वणा ।
छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत् ॥ ८.९.४० ॥
随后,他用一支射得很准、带弯节的刀头箭斩断敌人的弓,又将他的象碾碎。
8.9.41
ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत् ।
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥ ८.९.४१ ॥
随后,克舍摩陀尔提在战斗中愤怒,反击毗摩,并用铁箭射中其象的所有要害之处。
8.9.42
स पपात महानागो भीमसेनस्य भारत ।
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् ॥ ८.९.४२ ॥
婆罗多啊,毗摩森纳的那头大象倒下了;在大象倒下之前,毗摩森纳已跃下,站立于大地之上。
8.9.43
भीमसेनोऽपि तन्नागं गदया समपोथयत् ।
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः ॥ ८.९.४३ ॥
毗摩先那也用铁杵把那头象彻底击倒。从被砸碎的象身上,刻摩德丽蒂跳了下来。
8.9.44
उद्धृत्य स्वङ्गं निशितमभ्यधावत्स पाण्डवम् ।
उद्यतायुधमायान्तं सदयाऽहन्वृकोदरः ॥ ८.९.४४ ॥
他高举锋利的剑,冲向那位般度子。当他举着武器逼近时,狼腹以怜悯之心将他击杀。
8.9.45
स पपात हतः सासिर्व्यसुस्तमभितो द्विपम् ।
वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा ॥ ८.९.४५ ॥
他被击杀,失去生命,手持剑倒在那头象旁边,如同被雷电劈碎的山峰,又如被雷霆击中的狮子。
8.9.46
तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम् ।
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ ॥ ८.९.४६ ॥
看到那位为库鲁人带来荣耀的国王被杀,你那惊恐的军队逃散了,婆罗多的雄牛啊。