Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.91

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.91.1

वृषसेनं हतं दृष्ट्वा क्रोधामर्षसमन्वितः ।
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत् ॥ ८.९१.१ ॥

见婆利舍犀那被杀,他充满愤怒与不忿,从眼中流下因丧子之痛而生的泪水。

8.91.2

रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम् ।
युद्धायामर्पताम्राक्षः समाहूय धनञ्जयम् ॥ ८.९१.२ ॥

光辉的迦尔纳乘车迎向敌人,因愤怒而双眼通红,向持财者(阿周那)发起挑战,求战。

8.91.3

तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ ।
समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ ॥ ८.९१.३ ॥

那两辆如太阳般的战车,被如虎的勇士环绕,在那里相遇,仿佛两个太阳同时升起。

8.91.4

श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ ।
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि।
रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे ॥ ८.९१.४ ॥

这两位大德,人中如日,摧敌者,乘白马,光辉如天上的月与日;两辆战车如天空中被四朵云环绕的薄伽与密特罗。

8.91.5

तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष ।
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥ ८.९१.५ ॥

啊,摩里沙!见到这两人,一切军队都惊叹不已,如同因人欲征服三界而竭力的因陀罗与毗卢遮那。

8.91.6

रथज्यातलनिर्हादैर्बाणशङ्खरवैस्तथा ।
तौ रथावभ्यधावन्त क्षत्रियाः सर्व एव हि ॥ ८.९१.६ ॥

伴随着弓弦的嗡鸣、战车的轰响以及箭与法螺的声音,所有刹帝利都向那两辆战车奔去。

8.91.7

ध्वजावालोक्य वीराणां विस्मयः समपद्यत ।
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥ ८.९१.७ ॥

看到旗帜,众英雄心生惊异:迦尔纳的象带徽记,以及戴冠者(阿周那)的猴子徽记。

8.91.8

तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः ।
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥ ८.९१.८ ॥

婆罗多啊,众王见两辆战车相互缠斗,便发出狮吼般的声音,并大声喝彩。

8.91.9

श्रुत्वा तयोर्द्वैरथं च तत्र योधाः सहस्रशः ।
चक्रुर्बाहुस्वनांश्चैव तथा बाणरवं महत् ॥ ८.९१.९ ॥

听到两人的单独决斗,那里的数千勇士拍打手臂,并发出箭矢的巨大声响。

8.91.10

आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः ।
राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः ॥ ८.९१.१० ॥

那里,俱卢族人从四面敲击乐器,并在罗陀之子(迦尔纳)周围吹响了数十万海螺。

8.91.11

तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् ।
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥ ८.९१.११ ॥

同样,所有般度之子为欢喜财富征服者(阿周那)而鼓舞,以号角与海螺之声震动四方。

8.91.12

क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ।
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे ॥ ८.९१.१२ ॥

迦尔纳与阿周那相遇之时,四面响起了呼啸、拍击与呼喊之声,以及勇士们手臂的声响,喧闹一片。

8.91.13

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ ।
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ ॥ ८.९१.१३ ॥

看到那两位人中之虎,站在战车上,是战车武士中的最优者,高举大弓,配备箭矢、长矛与旌旗。

8.91.14

वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ ।
तूणीरवसम्पन्नौ द्वावप्येतौ सुदर्शनौ ॥ ८.९१.१४ ॥

二人皆披铠甲,佩系利剑,驾白马,以海螺为饰,配备箭囊,二人都俊美非凡。

8.91.15

रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव ।
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ ॥ ८.९१.१५ ॥

身涂红檀,如牧群中意气昂扬的公牛,持如闪电般的弓,有旗帜相随,是武器充足的勇士。

8.91.16

चामरव्यजनोपैतौ श्वेतच्छत्रोपशोभितौ ।
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ ॥ ८.९१.१६ ॥

备有牦牛尾拂尘与扇子,以白伞装饰,乘坐驾黑马的战车,二人外貌相同,皆为大战车武士。

8.91.17

सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ ।
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ।
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ ॥ ८.९१.१७ ॥

肩如狮子,臂膀修长,眼睛通红,戴着金色花环,与狮肩之人相似,胸膛宽阔,大力无比,彼此都想置对方于死地,都渴望战胜对方。

8.91.18

अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव ।
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ ॥ ८.९१.१८ ॥

彼此猛冲而来,如栏中的公牛,如发情的大象,如愤怒至极的山峰。

8.91.19

आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ ।
इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ ॥ ८.९१.१९ ॥

二人如同毒蛇的幼崽,如同阎摩与时间的终结者,如同愤怒的因陀罗与弗栗多,光芒如日月相等。

8.91.20

महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ ।
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः ॥ ८.९१.२० ॥

二人如同为劫末而升起的愤怒大行星,生于诸神之胎,与诸神相等,形貌如同天神。

8.91.21

यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा ।
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि ॥ ८.९१.२१ ॥

如同日月偶然相遇,那两位强大而骄傲、手持各种兵器的人,在战场上相遇了。

8.91.22

तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ ।
बभूव परमो हर्षस्तावकानां विशाम्पते ॥ ८.९१.२२ ॥

看见那两位人中之虎如虎般挺立,人主啊,你的人众中生起了极大的欢喜。

8.91.23

संशयः सर्वभूतानां विजये समपद्यत ।
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ॥ ८.९१.२३ ॥

看见迦尔纳与阿周那这两位人中之虎相会,一切众生心中都生起了关于胜利的疑虑。

8.91.24

उभौ वरायुधधरावुभौ रणकृतश्रमौ ।
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥ ८.९१.२४ ॥

二人都持着上好的兵器,都因战斗而疲惫,并以臂膀的声响使天空回荡。

8.91.25

उभौ विश्रुतकर्माणौ पौरुषेण बलेन च ।
उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥ ८.९१.२५ ॥

二人都以勇力和力量闻名于其功业,在战斗中二人都与恒河之敌商婆罗王和天王相当。

8.91.26

कार्तवीर्यसमौ चोभावुभौ दाशरथेः समौ ।
विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि ॥ ८.९१.२६ ॥

二人皆与迦尔塔维尔亚相当,皆与十车王之子罗摩相当;二人皆与毗湿奴的威力相当,在战斗中二人皆与婆伐(湿婆)相当。

8.91.27

उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ ।
सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ ॥ ८.९१.२७ ॥

大王啊,二人皆有白马,驾驭最好的战车;二人也都是最优秀的御者——摩德罗王与遮那陀那(黑天)。

8.91.28

ततो दृष्ट्वा महाराज राजमानौ महारथौ ।
सिद्धचारणसङ्घानां विस्मयः समपद्यत ॥ ८.९१.२८ ॥

于是,大王啊,众悉陀与遮罗那们见到那两位光辉的大战车武士,无不惊叹。

8.91.29

धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ ।
परिवव्रुर्महात्मानं कर्णमाहवशोभिनम् ॥ ८.९१.२९ ॥

婆罗多族的雄牛啊,持国之子们即刻率军将英勇的迦尔纳团团围住,他是战场的光彩。

8.91.30

तथैव पाण्डवा दृष्ट्वा धृष्टद्युम्नपुरोगमाः ।
यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः ॥ ८.९१.३० ॥

同样,以持军为首的般度之子们、双子(无种与偕天)、遮吉怛那和普罗跋陀罗人也都欢喜起来。

8.91.31

नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः ।
ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम् ॥ ८.९१.३१ ॥

来自各国的勇士,那些贤良而喜好战斗的人,都欢欣地聚集起来,包围了持财(Dhanañjaya)。

8.91.32

रिरक्षिषन्तः शथ्रुघ्नाः पत्त्यश्वरथकुञ्जराः ।
धनञ्जयस्य विजये धृताः कर्णवधेऽपि च ॥ ८.९१.३२ ॥

为护卫阿周那的胜利,步兵、骑兵、车兵与象兵,这些敌人的杀戮者,也坚定地为杀死迦尔纳而站立。

8.91.33

तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः ।
दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे ॥ ८.९१.३३ ॥

同样,你的一切战士,准备就绪并攻击军队,以难敌为首,大王啊,在战斗中守护迦尔纳。

8.91.34

तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते ।
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा ॥ ८.९१.३४ ॥

人主啊,在你方,迦尔纳确是战斗中的赌注;同样,在般度之子一方,那时阿周那成为了赌注。

8.91.35

तयोस्तु सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्युधि ।
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥ ८.९१.३५ ॥

对于那两方,在战斗中也有了评判者与观看者;对于这些下注的人,胜利与失败已经注定。

8.91.36

ताभ्यां द्यतं समासक्तं विजयायेतराय वा ।
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि ॥ ८.९१.३६ ॥

二人之间展开了这场赌局,或为胜利,或为其反面,为我方,也为站立在阵前的般度诸子。

8.91.37

तौ तु स्थितौ महाराज समरे युद्धशालिनौ ।
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ ॥ ८.९१.३७ ॥

大王啊,那两人在战场上屹立,以善战自负,彼此极为愤怒,都渴望对方死亡。

8.91.38

तावुमौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो ।
भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥ ८.९१.३८ ॥

主啊,那两人想要杀死对方,如因陀罗与弗栗多一般,披上了可怖的形貌,如同两颗巨大的烟雾笼罩的星辰。

8.91.39

ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ ।
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ॥ ८.९१.३९ ॥

婆罗多族的雄牛啊,那时天空中产生了争论,众生之间也因卡尔纳与阿周那而生出分歧。

8.91.40

व्याश्रयन्त द्विधा भिन्नाः सर्वे लोकास्तु मारिष ।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥ ८.९१.४० ॥

尊者啊,所有世界一分为二,各自站队;诸天、檀那婆、乾闼婆、毕舍遮、蛇众与罗刹,在迦尔纳与阿周那相遇时,各自站在对立的一方。

8.91.41

द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते ।
भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी ॥ ८.९१.४१ ॥

人主啊,此时天空连同星辰站在迦尔纳一边;而阿周那之母广阔的大地,则渴望她儿子取胜。

8.91.42

सागराश्चैव गिरयः सरितश्च नरोत्तम ।
महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम् ॥ ८.९१.४२ ॥

人中之尊啊,大海、山岳与河流,以及地生与水生之物,都投靠了戴冠者阿周那。

8.91.43

असुरा यातुधानाश्च गुह्यकाश्च परन्तप ।
कर्णः समभवद्यत्र खेचराणि वयांसि च ॥ ८.९१.४३ ॥

阿修罗、食人罗刹与古耶迦也,啊,焚敌者,皆归于迦尔纳一方;还有翔行天空的飞禽。

8.91.44

रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः ।
सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम् ॥ ८.९१.४४ ॥

一切珍宝与宝藏,以叙事史诗为第五的吠陀,以及副吠陀与奥义书,皆归依了冠饰者阿周那。

8.91.45

वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः ।
महीवियज्जलचराः काद्रवेयाश्च सान्वयाः।
विषवन्तो महानागा वेगिनश्चार्जुनेऽभवन् ॥ ८.९१.४५ ॥

婆修吉、奇使那、德叉迦与优德叉迦,行于地、空、水中的迦都卢之子及其眷属,有毒的大蛇与迅捷之蛇,皆归于阿周那。

8.91.46

ऐरावताः सौरभेया वैशालेयाश्च भोगिनः ।
एतेऽभवन्नर्जुनस्य पापाः सर्पाश्च कर्णतः ॥ ८.९१.४६ ॥

爱罗婆多、娑罗毗耶、毗舍利耶及有冠之蛇——这些作恶的蛇,从迦尔纳一方归于阿周那。

8.91.47

ईहामृगा व्यालमृगा मङ्गला मृगपक्षिणः ।
मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च।
पार्थस्य विजये राजन्सर्व एव समाश्रिताः ॥ ८.९१.४७ ॥

伊诃兽、毒兽,吉祥的兽与鸟,吉祥的牲畜,狮子与老虎也是如此——啊,国王,一切都归依于般度之子的胜利。

8.91.48

वसवो मरुतः साध्या रुद्रा देवाश्विनावपि ।
अग्नी रुद्रश्च सोमश्च पन्नगाश्च दिशो दश।
कर्णतः समपद्यन्त श्वसृगालवयांसि च ॥ ८.९१.४८ ॥

婆苏、摩录多、萨提耶、楼陀罗诸神,双马童神,火神、楼陀罗与月神,诸蛇与十方,皆从迦尔纳一方转向;还有狗、豺狼与飞禽。

8.91.49

वसवश्च महेन्द्रेण मरुतश्च सहाग्निना ।
धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन् ॥ ८.९१.४९ ॥

婆苏与摩哂陀罗(因陀罗)、摩录多与火神同在,持财(阿周那)的那些部众和阿提耶们,都从迦尔纳而生。

8.91.50

देवताः पितृभिः सार्धमृषिभिश्च परन्तप ।
तुम्बुरुप्रमुखाः सर्वे गन्धर्वा भरतर्षभ।
यमौ वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥ ८.९१.५० ॥

摧敌者啊,诸天神与祖先及仙人,以噔布卢为首的一切乾达婆,婆罗多之牛啊,二夜摩、毗舍罗婆那与伐楼那——这些都出自阿周那。

8.91.51

देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये ।
प्रालेयाः सहमौनेयाः शुभाश्चाप्सरसां गणाः ॥ ८.९१.५१ ॥

天仙与梵仙的一切部众,行于空中者,普拉勒耶与毛涅耶们,以及吉祥的阿普萨拉斯诸群。

8.91.52

सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः ।
किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः ॥ ८.९१.५२ ॥

与光彩的阿普萨拉斯一同,天界使者与密藏者也归属于戴冠者(阿周那),散发着圣洁的芬芳,令人喜悦。

8.91.53

अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः ।
विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम् ॥ ८.९१.५३ ॥

一切令人不悦的气味都归于迦尔纳;对于将要毁灭的人,便会出现相反而不吉祥之事。

8.91.54

ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम् ।
प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते।
ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम् ॥ ८.९१.५४ ॥

那些在临终之时、死期将至时,迅速进入处于逆境之人的种种情状,正是这些情状,一同进入了御者之子迦尔纳。

8.91.55

ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ ।
मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम ॥ ८.९१.५५ ॥

活力、光辉、成功、喜悦、真正的勇武、心的满足、胜利,还有欢喜,啊,诸王中最优秀者。

8.91.56

ईदृशार्नि नरव्याघ् तस्मिन्सङ्ग्रामसागरे ।
निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे ॥ ८.९१.५६ ॥

啊,人中之虎!在那战斗之海中,如此吉祥的征兆进入了胜利者阿周那。

8.91.57

ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम् ॥ ८.९१.५७ ॥

诸仙人与婆罗门一同投奔了戴冠的阿周那。

8.91.58

ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः ।
द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ ॥ ८.९१.५८ ॥

于是,诸神、悉陀与乾闼婆分为两部,大王啊,投奔了那两位人中最优秀者。

8.91.59

विमानानि विचित्राणि गुणवन्ति च सर्वशः ।
समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः।
अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः ॥ ८.९१.५९ ॥

大王啊,诸天神、乾闼婆与罗刹乘上奇妙而各方面都殊胜的天车,聚集在空中,观看迦尔纳与普利塔之子的单独决斗。

8.91.60

एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत ।
आशंसमानेषु जयं राधेयस्यार्जुनस्य च।
विमानायुतसम्बाधमाकाशमभवत्तदा ॥ ८.९१.६० ॥

婆罗多的后裔啊,如此一切众生分为两派,期望御者之子迦尔纳与阿周那获胜;那时天空被一万辆天车挤满。

8.91.61

ईहामृगव्यालमृगैर्दिपाश्वरथपङ्क्तिभिः ।
ऊह्यमानाः परे मेघैर्वायुना च मनीषिणः।
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ॥ ८.९१.६१ ॥

狼、猛兽与鹿,象、马与战车的行列,被云与风载着,智者们前来,想要目睹迦尔纳与阿周那的相遇。

8.91.62

देवदानवगन्धर्वा नागयक्षपतत्रिणः ।
महर्षयो देवगणाः पितरश्च स्वधाभुजः ॥ ८.९१.६२ ॥

天神、檀那婆、乾闼婆,龙、夜叉与飞禽,大仙人,诸天众,以及享用斯瓦陀供养的祖灵。

8.91.63

तपोविद्यौषधीसिदधा नानारूपाम्बरत्विषः ।
अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे ॥ ८.९१.६३ ॥

以苦行、明智与草药成就的悉陀,形貌各异、衣光灿烂,大王啊,他们在空中争论着站立。

8.91.64

ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च ।
आस्थितो यानमाकाशे दिव्यं तेजः समागताः ॥ ८.९१.६४ ॥

梵天与梵仙、生主们一同,登上天空中的神圣乘具,带着神圣的光辉前来聚集。

8.91.65

ततः प्रजापतिस्तूर्णमाजगाम महामते ।
द्वैरथं युधि तं द्रुष्टं कर्णपाण्डवयोस्तदा ॥ ८.९१.६५ ॥

此时生主迅速前来,大智者啊,为了观看迦尔纳与般度之子在战中的那场单挑。

8.91.66

विजित्य कर्णः स्विदिमां वसुन्धरा… ।
मथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम्।
इतीश्वरस्यापि बभूव संशयः ।
प्रजापतेः प्रेक्ष्य तयोर्महद्बलम् ॥ ८.९१.६६ ॥

迦尔纳会征服这片大地吗……还是阿周那将得到全部?——见到二人的伟大力量,连主宰者也生出了疑惑。