Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 8.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

8.94.1

तद्देतनागासुरसिद्धयक्षै… ।
र्गन्धर्वरक्षोप्सरसां च सङ्घैः।
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं ।
बभौ वियद्विस्मयनीयरूपम् ॥ ८.९४.१ ॥

神々、ナーガ、アスラ、シッダ、ヤクシャ……ガンダルヴァ、ラークシャサ、アプサラスの群れ、そしてブラフマルシ、ラージャルシ、ガルダたちに仕えられ、その空は驚くべき姿に輝いた。

8.94.2

नानद्यमानं निनदैर्मनोज्ञै… ।
र्वादित्रगीतस्तुतिनृत्यहासैः।
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः ।
खस्थाश्च तद्विस्मयनीयरूपम् ॥ ८.९४.२ ॥

心地よい音に響き渡る……楽器、歌、讃歌、舞踊、笑いとともに、人々は皆その空を見た。空中に立つ者たちもその驚くべき姿を見た。

8.94.3

ततः प्रहृष्टाः कुरुपाण्डुयोधा ।
वादित्रशङ्खस्वनसिंहनादैः।
विनादयन्तो वसुधां दिशश्च ।
स्वनेन सर्वान्द्विषतो निजघ्नुः ॥ ८.९४.३ ॥

そこで喜んだクル族とパーンドゥ族の戦士たちは、楽器、法螺貝の音、獅子吼で大地と方角を響かせ、その轟音で敵をことごとく打ち倒した。

8.94.4

नराश्वमातङ्गरथैः समाकुलं ।
शरासिशक्त्यृष्टिनिपातदुःसहम्।
अभीरुजुष्टं हतदेहसङ्कुलं ।
रणाजिरं लोहितमाबभौ तदा ॥ ८.९४.४ ॥

人、馬、象、戦車にあふれ、矢や剣、槍、投槍の雨に耐えがたく、恐れを知らぬ勇士が集い、死体で埋め尽くされた戦場は、そのとき血に染まって赤く輝いた。

8.94.5

परस्परं प्रावृणुतां सुदंशितौ ॥ ८.९४.५ ॥

二人は堅固に武装し、互いを覆い隠した。

8.94.6

ततस्त्वदीयाश्च परे च सायकैः ।
कृतेऽन्धकारे ददृशुर्न किञ्चन।
भयातुरा एकरथौ समाश्रयं… ।
स्ततोऽभवत्त्वद्भुतमेव सर्वतः ॥ ८.९४.६ ॥

そのとき、あなたの兵も敵も、矢が作った闇の中で何も見えず、恐怖に駆られて一つの戦車に身を寄せた……そして四方で実に驚くべきことが起こった。

8.94.7

ततोऽस्त्रमस्त्रेण परस्परं तौ ।
विधूय वाताविव पूर्वपश्चिमौ।
घनान्धकारे वितते तमोनुदौ ।
यथोदितौ तद्वदतीव रेजतुः ॥ ८.९४.७ ॥

その時、二人は武器に武器をもって互いに戦い、濃い闇を払う東風と西風のように、昇った太陽のように、いっそう輝いた。

8.94.8

न चाभिसर्तव्यमिति प्रचोदिताः ।
परे त्वदीयाश्च तथाऽवतस्थिरे।
महारथौ तौ परिवार्य सर्वतः ।
सुरासुराः शम्बरवासवाविव ॥ ८.९४.८ ॥

「彼らに近づいてはならない」と命じられた他の者たちや貴方の兵は脇に立ち、その二人の大戦車兵を四方から取り囲んだ。神々と阿修羅がシャンバラとヴァーサヴァを囲むように。

8.94.9

मृदङ्गभेरीपणवानकस्वनै… ।
र्निनादिते वाहनशङ्खनिस्वनैः।
तौ सिंहनादैर्बभतुर्नरोत्तमौ ।
पतङ्गचन्द्राविव दुःसहावुभौ ॥ ८.९४.९ ॥

ムリダンガ、ベーリー、パナヴァ、アーナカの音と、馬や法螺貝の響きに満ちる中、その二人の人中最上は獅子吼をあげて輝いた。太陽と月のように、二人とも耐えがたかった。

8.94.10

महाधनुर्मण्डुलमध्यगावुभौ ।
सुवर्चसौ बाणसहस्रदीधिती।
दिधक्षमाणौ सचराचरं जग… ।
द्युगान्तसूर्याविव दुःसहौ रणे ॥ ८.९४.१० ॥

大弓の輪の中央に立つ二人は輝き、千の矢を光線としていた。動くものと動かぬものの世界を焼き尽くそうと望み、劫末の太陽のように、戦場で耐えがたかった。

8.94.11

उभावजेयावहितान्तकावुभा… ।
वुभौ जिघांसू कृतिनौ परस्परम्।
महाहवे वीतभयौ समीयतु… ।
र्महेन्द्रजम्भाविव कर्णपाण्डवौ ॥ ८.९४.११ ॥

二人とも征服しがたく、抑えられた死神のようであった。二人とも巧みで、互いに殺そうと望んだ。恐れなく、その大戦で二人は相まみえた。インドラの敵ジャンバを屠った二人のように、カルナとパーンダヴァの者として。

8.94.12

ततो महास्त्राणि महाधनुर्धरौ ।
विमुञ्चमानाविषुभिर्भयानकैः।
नराश्वनागानमितान्निजघ्नतुः ।
परस्परं चापि महारथौ नृप ॥ ८.९४.१२ ॥

そのとき、二人の大弓の使い手は恐ろしい矢を放ち、大いなる武器を投じ、無数の人と馬と象を打ち倒し、王よ、あの二人の大戦車兵は互いをさえ打ち倒した。

8.94.13

ततो विसस्रुः पुनरर्दिता नरा ।
नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः।
सनागपत्त्यश्वरथा दिशो द्रुता… ।
स्तथा यथा सिंहहता वनौकसः ॥ ८.९४.१३ ॥

そのとき、クル族とパーンドゥ族に従う人々は、またもあの二人の人中の最上者に苦しめられ、象、歩兵、馬、戦車とともに、獅子に打たれた森の獣のように四方へ逃げ散った。

8.94.14

ततस्तु दुर्योधनभोजसौबलाः ।
कृपो गुरोश्चापि सुतो महाहवे।
महारथाः पञ्च धनञ्जयाच्युतौ ।
शरैः शरीरार्तिकरैरताडयन् ॥ ८.९४.१४ ॥

そのとき、ドゥルヨーダナ、ボージャとサウバラ、クリパ、師の子、そして大戦における五人の大戦車兵は、身体に苦痛をもたらす矢でダナンジャヤとアチュタを打った。

8.94.15

धनूंषि तेषामिषुधीन्ध्वजान्हया… ।
न्रथांश्च सूतांश्च धनञ्जयः शरैः।
समं प्रमध्याशु परान्समन्ततः ।
शरोत्तमैर्द्वादशभिन्न सूतजम् ॥ ८.९४.१५ ॥

ダナンジャヤは、四方の敵の弓、矢筒、旗、馬、人、戦車、御者を矢で一度に素早く粉砕し、十二本の優れた矢で御者の子を打った。

8.94.16

अथाभ्यधावंस्त्वरिताः शतं रथाः ।
शतं गजाश्चार्जुनमाततायिनः।
शकास्तुषारा यवनाश्च सादिनः ।
सहैव काम्भोजवरैर्जिघांसवः ॥ ८.९४.१६ ॥

そのとき、シャカ族、トゥシャーラ族、ヤヴァナ族、騎兵たちは、優れたカンボージャ族とともに、アルジュナを殺そうとして、百の戦車と百の象を率いる侵略者として急いで彼に襲いかかった。

8.94.17

वरायुधान्पाणिगतैः शरैः सह ।
क्षुरैर्न्यकृन्तत्प्रपतञ्शिरांसि च।
हयांश्च नागांश्च रथांश्च युध्यतो ।
धनञ्जयऋ शत्रुगणान्क्षितौ क्षिणौत् ॥ ८.९४.१७ ॥

手の届く優れた武器と矢で、剃刀状の矢によって落ちてゆく頭を切り落とした。戦う馬、象、戦車もろとも、ダナンジャヤは敵の群れを大地へ打ち倒した。

8.94.18

ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ।
ससाधुवादा हृषितैः समीरिताः।
निपेतुरप्युत्तमपुष्पवृष्टयः ।
सुरूपगन्धाः पवनेरिताः शुभाः ॥ ८.९४.१८ ॥

すると空には神々の楽器の音が響き、喜んだ者たちは「善哉、善哉」と声を上げた。また、香り高く吉祥な最上の花の雨も降り、風に運ばれて落ちてきた。

8.94.19

तदद्भुतं देवमनुष्यसाक्षिकं ।
समीक्ष्य भूतानि विसिस्मियुस्तदा।
तवात्मजः सूतसुतश्च न व्यथां ।
न विस्मयं जग्मतुरेकनिश्चयौ ॥ ८.९४.१९ ॥

神々と人間が証人となったその不思議を見て、生き物たちは驚嘆した。しかしお前の息子と御者の子は、同じ決意を抱き、苦しみも驚きも覚えなかった。

8.94.20

अथाब्रवीद्द्रोणसुतस्तवात्मजं ।
करं करेण प्रतिपीड्य सान्त्वयन्।
प्रसीद दुर्योधन शाम्य पाण्डवै… ।
रलं विरोधेन धिगस्तु विग्रहम् ॥ ८.९४.२० ॥

するとドローナの息子は、お前の息子の手を自分の手で握りしめ、なだめて言った。「機嫌を直せ、ドゥルヨーダナ。パーンダヴァたちと和解せよ……敵意によって宝玉を損なうな。争いは恥ずべきだ。」

8.94.21

हतो गुरुर्ब्रह्मसमो महास्त्रवि… ।
त्तथैव भीष्मप्रमुखा महारथाः।
अहं त्ववध्यो मम चापि मातुलः ।
प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥ ८.९४.२१ ॥

梵天に等しく大いなる武器に通じた師は殺され、ビーシュマを筆頭とする大戦車兵たちもまた殺された。だが私は殺されえぬ者であり、母方の叔父もそうである。パーンダヴァたちとともに、長く王国を治めよ。

8.94.22

धनञ्जयः स्यास्यति वारितो मया ।
जनार्दनो नैव विरोधमिच्छति।
युधिष्ठिरो भूतहिते रतः सदा ।
वृकोदरस्तद्वशगस्तथा यमौ ॥ ८.९४.२२ ॥

私が止めれば、ダナンジャヤは控えるだろう。ジャナールダナは敵対を全く望まない。ユディシュティラは常に衆生の利益を喜ぶ。ヴリコーダラは彼に従い、双子も同様である。

8.94.23

ध्रुवं हि तप्तोऽसि हतोऽरिभिर्युधि ॥ ८.९४.२३ ॥

あなたは確かに苦しんでいる。戦いで敵に打ち倒されたのだ。

8.94.24

वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम् ।
कृपालुर्धर्मराजो हि याचितः शममेष्यति ॥ ८.९४.२४ ॥

老いた父と名高いガーンダーリーを思い、慈悲深き法王は懇願されれば必ずや和平に至るであろう。

8.94.25

यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः ।
विपश्चित्सुमतिर्वीरः सर्वशास्त्रार्थतत्त्ववित् ॥ ८.९४.२५ ॥

そして然るべく、その主君はあなたに王国を返すことを許すだろう。彼は賢く、良き判断を持ち、勇敢で、諸論書の真の意味を知る者である。

8.94.26

वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः ।
न विग्रहमतिः कृष्णा स्वजने प्रतिनन्दति ॥ ८.९४.२६ ॥

法を体現する者は敵意を抱かない。親族に対して逸脱はない。クリシュナー(ドラウパディー)の心は争いにはなく、彼女は親族を喜ばしく思う。

8.94.27

भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ।
वासुदेवमते चैव पाण्डवस्य च धीमतः।
स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात् ॥ ८.९४.२७ ॥

ビーマセーナとアルジュナの二人、そしてマードリーの二人の息子であるパーンダヴァたちは、ヴァースデーヴァと賢明なパーンダヴァの意見に従って立つであろう。あの人中の虎たちの言葉への敬意によって。

8.94.28

रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।
जीवने यत्नमातिष्ठ जीवन्भद्राणि पश्यति ॥ ८.९४.२८ ॥

ドゥルヨーダナよ、自らを守れ。自己はすべてのよりどころである。生きるために努力せよ。生きている者だけが善いものを見るのだ。

8.94.29

राज्यं श्रीश्चैव भद्रं ते जीवमाने च कल्पते ।
मृतस्य तु खलु कौरव्य नैव राज्यं कुतः सुखम् ॥ ८.९४.२९ ॥

王国も栄華も、あなたに幸いあれ。それらはあなたが生きている間にのみ可能なのだ。だがクルの子孫よ、死者には王国はなく、どこに幸福があろうか。

8.94.30

लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत ।
शाम्य त्वं पाण्डवैः सार्धं शेषं रक्ष कुलस्य च ॥ ८.९४.३० ॥

バーラタよ、起こってしまったこの世の成り行きを見よ。パーンダヴァたちと和平を結び、一族に残るものを守れ。

8.94.31

मा भूत्स कालः कौरव्य यदाऽहमहितं वचः ।
ब्रूयां कामं महाबाहो माऽवमंस्था वचो मम ॥ ८.९४.३१ ॥

クルの子孫よ、私が好まぬ言葉を語らねばならぬ時が来ないように。力強き腕の者よ、私の言葉を軽んじてはならぬ。

8.94.32

धर्मिष्ठमिदमत्यर्थं राज्ञश्चैव कुलस्य च ।
एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये।
प्रयाहि तं च गान्धारे कुलस्य च सुखावहम् ॥ ८.९४.३२ ॥

これは王にとっても一族にとっても、まことに正法に適っている。これこそクル族の繁栄のための最高の善である。ガーンダーリーの子よ、一族に幸福をもたらす彼のもとへ行け。

8.94.33

पथ्यमायतिसंयुक्तं कर्णोऽप्यर्जुनमाहवे ।
न जेष्यति नरव्याघ्र इति मे निश्चिता मतिः ॥ ८.९४.३३ ॥

戦いにおいてカルナもアルジュナに勝てないだろう、人中の虎よ。これが私の確固たる考えであり、有益で未来に吉である。

8.94.34

रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम् ।
अतोऽन्यथा हि राजेन्द्र विनाशः सुमहान्भवेत् ॥ ८.९४.३४ ॥

人中の最上者よ、私のこの吉祥の言葉をお気に召されますように。さもなくば、王の中の王よ、大いなる破滅が訪れるでしょう。

8.94.35

इदं च दृष्टं जगता सह त्वया ।
कृतं यदेकेन किरीटमालिना।
यथा न कुर्याद्बलभिन्न चान्तको ।
न च प्रचेता भगवान्न यक्षराट् ॥ ८.९४.३५ ॥

これはあなたと世界が見たことです。冠を戴く者ただ一人が成したことであり、バラを破る因陀羅も、死神も、ヴァルナも、夜叉の王もなし得なかったでしょう。

8.94.36

अतोऽपि भूयान्स्वगुणैर्धनञ्जयो ।
न चातिवर्तिष्यति मे वचोऽखिलम्।
तवानुयात्रां च सदा करिष्यति ।
प्रसीद राजेन्द्र शमं त्वमाप्नुहि ॥ ८.९४.३६ ॥

ゆえにダナンジャヤは、その徳によって一層すぐれており、私の言葉のいかなるものも踏み越えず、常にあなたに随従するでしょう。王の中の王よ、心安らかにし、平和を得てください。

8.94.37

ममाभिमानः परमः सदा त्वयि ।
ब्रवीम्यतस्त्वां परमाच्च सौहृदात्।
निवारयिष्यामि च कर्णमाहवे ।
महान्हि मेऽस्ति प्रणयोऽथ सूतजे ॥ ८.९४.३७ ॥

私のあなたへの最高の敬意は常にありました。ですから最上の善意からあなたに申し上げます。戦いにおいてカルナを私が止めましょう。御者の子よ、私のあなたへの愛情は大いなるものです。

8.94.38

वदन्ति मैत्रीं सहजां विचक्षणा… ।
स्तथैव साम्ना च धनेन चार्जिताम्।
प्रतापतश्चोपनतां चतुर्विधां ।
तदस्ति सर्वं तव पाण्डवेषु ॥ ८.९४.३८ ॥

賢者たちは生来の友情を語る……同様に、四種のものがある。融和によるもの、富によって得られたもの、武勇によって得られたもの。それらすべてがパーンダヴァの中にあなたのためにある。

8.94.39

निसर्गतस्ते तव वीर बान्धवाः ।
पुनश्च साम्ना हितमाप्नुयुः प्रभो।
त्वयि प्रसन्ने यदि मित्रतां गते ।
हितं कृतं स्याज्जगतस्त्वयाऽतुलम् ॥ ८.९४.३९ ॥

英雄よ、あなたの親族は生まれつきあなたのものである。主よ、和解によって彼らは再び幸福を得られよう。あなたが喜び友情を得るならば、あなたによって世界に比類ない善がなされるであろう。

8.94.40

इतीदमुक्तः सुहृदा वचो हितं ।
विचिन्त्य निःश्वस्य च दुर्मनाऽब्रवीत्।
यथा भवानाह सखे तथैव त… ।
न्ममापि विज्ञापयतो वचः शृणु ॥ ८.९४.४० ॥

友にこのように有益な言葉をかけられると、彼は思案し、深く息をついて、沈んだ心で言った。友よ、あなたの言う通りだ……私が申し上げる言葉も聞いてくれ。

8.94.41

निहत्य दुःशासनमुक्तवान्बहु ।
प्रहस्य शार्दूलवदेष दुर्मतिः।
वृकोदरस्तद्वृदये मम स्थितं ।
न तत्परोक्षं भवतः कुतः शमः ॥ ८.९४.४१ ॥

ドゥフシャーサナを殺した後、ヴリコーダラ(ビーマ)は多くを語り、その悪意ある者は虎のように笑った。私の心に留まっていることは、あなたに隠されてはいない。ならばどうして和平があり得ようか。

8.94.42

न चापि कर्णं प्रसहेद्रणेऽर्जुनो ।
महागिरिं मेरुमिवोग्रमारुतः।
न चाश्वसिष्यन्ति पृथात्मजा मयि ।
प्रसह्य वैरं बहुशो विचिन्त्य ॥ ८.९४.४२ ॥

戦場でアルジュナはカルナに耐えられないだろう、激しい風が大山メールに耐えられないように。プリター の息子たちは私によって安らぎを得ず、幾度もこの敵意を思い続けるだろう。

8.94.43

न चापि कर्णं गुरुपुत्र संयुगा… ।
दुपारमेत्यर्हसि वीर भाषितुम्।
श्रमेण युक्तो महताद्य फल्गुन… ।
स्तमेष कर्णः प्रसभं हनिष्यति ॥ ८.९४.४३ ॥

師の子との戦いで、カルナは……英雄よ、越えがたい言葉を口にすべきだ。今日、大いなる努力に疲れたパルグナは……このカルナが彼を力ずくで殺すだろう。

8.94.44

वसुन्धरायाः परिवर्तनं भवे… ।
द्व्रजेच्च शोषं मकरालयोऽर्णवः।
प्लवेयुरप्यद्रिवरा महाम्बुधौ ।
न चार्जुनो जेष्यति कर्णमाहवे ॥ ८.९४.४४ ॥

大地がひっくり返り……海獣の棲む海が干上がり、最上の山々が大海に浮かんだとしても、アルジュナは戦いでカルナに勝つことはないだろう。

8.94.45

अपां पृथिव्या नभसो नभस्वतः ।
सुतिग्मदीप्तेश्च हिरण्यरेतसः।
अभाव एषामपि सर्वतो भवे… ।
न्न चार्जुनो जेष्यति कर्णमाहवे ॥ ८.९४.४५ ॥

水、大地、虚空、風、極めて鋭く燃える火、そして金の種子のブラフマーがことごとく消え去ったとしても、アルジュナは戦いでカルナに勝つことはないだろう。

8.94.46

तमेवमुक्त्वाऽप्यनुनीय चासकृ… ।
त्तवात्मजः स्वाननुशास्ति सैनिकान्।
द्रुतं घ्नताभिद्रवताहितानिमा… ।
नहीनसत्वाः किमु जोषमासते ॥ ८.९४.४६ ॥

彼にこのように語り、幾度も慰めたのち、あなたの息子は兵士たちに命じた。「速やかにこの敵を打て、彼らに襲いかかれ。お前たちは力を失ったのか、なぜ黙って座っているのだ。」