摩诃婆罗多 · 章 8.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.98.1
अथाब्रवीद्वासुदेवो महात्मा ।
राधेय दिष्ट्या स्मरसीह धर्मम्।
धर्मे हि बद्धा सततं हि पार्था… ।
स्तेभ्यस्ततो वृद्धिसौ ददाति ॥ ८.९८.१ ॥
那时伟大的瓦苏提婆说道:羯罗之子啊,幸运的是你在此想起了法。普利塔之子们始终受法约束……于是他赐予他们增长。
8.98.2
धर्मादपेताः परिपन्थिनस्ते ।
तस्माद्गता वै कुरवो विनाशम्।
प्रायेण नीचा व्यसनेषु मग्ना ।
निन्दन्ति दैवं न तु दुष्कृतं स्वम् ॥ ८.९८.२ ॥
那些背离法的人便是敌人;因此俱卢族走向了毁灭。通常卑劣之人陷入灾难之中,便怪罪命运,而不怪自己的恶行。
8.98.3
कृष्णां सभां कर्ण यदेकवस्त्रा… ।
मानीतवांस्त्वं च सुयोधनश्च।
दुःशासनः शकुनिः सौबलश्च ।
धर्मस्तदा ते रुचितो न कस्मात् ॥ ८.९८.३ ॥
啊,迦尔纳!当你、苏约达那、难降、沙恭尼和苏跋拉之子把只穿一件衣服的黑公主带进议会时……那时法为何不合你的意?
8.98.4
यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम् ।
आनीय जितवन्तो वै क्व ते धर्मस्तदा गतः ॥ ८.९८.४ ॥
当他们把不擅长掷骰的国王坚战带入议会并战胜他时,你的法那时去了哪里?
8.98.5
वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे ।
न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः ॥ ८.९८.५ ॥
啊,迦尔纳!林中流放的第十三年已经过去,你却不归还王国,那时你的法去了哪里?
8.98.6
यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः ।
आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः ॥ ८.९८.६ ॥
当国王听从你的计谋,用毒蛇和掺毒的食物对待怖军时,你的法那时去了哪里?
8.98.7
यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा ।
हन्तुकामास्तदा यूयं क्व ते धर्मस्तदा गतः ॥ ८.९८.७ ॥
当你们想在婆罗纳瓦塔的漆宫中杀害熟睡的普利塔之子时,你们的法在哪里?
8.98.8
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् ।
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥ ८.९८.८ ॥
当经期中的黑公主在大会上被难降洒那所控制时,你笑了,迦尔纳;那时你的法在哪里?
8.98.9
यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम् ।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥ ८.९८.९ ॥
当从前那些卑劣之人折磨无辜的黑公主时,你却在旁观看,罗陀之子,那时你的法在哪里?
8.98.10
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम्।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥ ८.९८.१० ॥
“般度之子已经毁灭,堕入永恒地狱;象步的女子,另选一位丈夫吧。”你这样说着旁观,罗陀之子;那时你的法在哪里?
8.98.11
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान् ।
यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः ॥ ८.९८.११ ॥
贪图王国的迦尔纳啊,你又来挑战般度之子;依靠沙恭尼向他们挑战时,你的法在哪里?
8.98.12
यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः ।
परिवार्य रणे बालं क्व ते धर्मस्तदा गतः ॥ ८.९८.१२ ॥
当众多大车战士在战斗中包围并杀害少年阿毗曼尤时,你的法在哪里?
8.98.13
यद्येष धर्मस्तत्र न विद्यते हि ।
किं सर्वथा तालुविशोषणेन।
अद्येह धर्म्याणि विधत्स्व सूत ।
तथापि जीवन्न विमोक्ष्यसे हि ॥ ८.९८.१३ ॥
若那里没有法,徒然干涸口舌又有何益?御者啊,现在此处应行合法之事;即便如此,你也不能活着脱身。
8.98.14
नलो ह्यक्षैर्निर्जितः पुष्करेण ।
पुनर्यशो राज्यमवाप वीर्यात्।
प्राप्तास्तथा पाण्डवा बाहुवीर्या… ।
त्सर्वैः समेताः परिवृत्तलोभाः ॥ ८.९८.१४ ॥
那罗也曾在骰子上被补什迦罗击败;后来他凭借勇力重新获得了名誉与王国。同样,臂力强大的般度五子……与你们所有人会合,舍弃贪欲,将获得(王国)。
8.98.15
निहत्य शत्रून्समरे प्रवृद्धा… ।
न्ससोमका राज्यमवाप्नुयुस्ते।
तथा गता धार्तराष्ट्रा विनाशं ।
धर्माभिगुप्तैः सततं नृसिंहैः ॥ ८.९८.१५ ॥
在战场上杀死敌人而兴盛的……他们将与索摩迦人一同获得王国;德王之子同样走向毁灭,(被)常受法护佑的人中雄狮所败。
8.98.16
एवमुक्तस्तदा कर्णो वासुदेवेन भारत ।
लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान् ॥ ८.९८.१६ ॥
婆罗多啊,当婆苏提婆如此对他说时,迦尔纳因羞愧而低下头,没有作任何回答。
8.98.17
क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत ।
योधयामास वै पार्थं महावेगपराक्रमः ॥ ८.९८.१७ ॥
婆罗多啊,他怒得嘴唇颤抖,举起弓,以极大的速度与勇力,与帕尔塔(阿周那)交战。
8.98.18
ततोऽब्रवीद्वासुदेवः फल्गुनं पुरुषर्षभम् ।
दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल ॥ ८.९८.१८ ॥
于是婆苏提婆对作为人中雄牛的帕尔贡说:啊,大力者,用神圣的武器刺穿他,将他击倒。
8.98.19
एवमुक्तस्तु देवेन क्रोधमागात्तदाऽर्जुनः ।
मन्युमभ्याविशद्धोरं स्मृत्वा तत्तु धनञ्जयः ॥ ८.९८.१९ ॥
神如此说后,阿周那随即怒火中烧;想起那番话,持财者被可怕的愤怒所笼罩。
8.98.20
तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः ।
प्रादुरासंस्तदा राजंस्तदद्भुतमिवाभवत् ॥ ८.९८.२० ॥
大王啊,那愤怒者的所有孔窍之中,当时迸发出光焰,那景象变得奇异非凡。
8.98.21
तत्समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् ।
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ॥ ८.९८.२१ ॥
看到这一切,迦尔纳便再次以梵天武器向持财者倾下箭雨,并在战车的驱驰中再度奋力施为。
8.98.22
ब्रह्मास्त्रेणव तं पार्थो कवर्ष शरवृष्टिभिः ।
तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः ॥ ८.९८.२२ ॥
阿周那也以梵天武器向他倾下箭雨;般杜之子以武器阻挡那武器,并将其摧毁。
8.98.23
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः ।
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा ॥ ८.९८.२३ ॥
于是昆提之子向迦尔纳瞄准放出另一件为耶陀伐沙(火神阿耆尼)所爱的武器;它以自身光辉熊熊燃烧。
8.98.24
वारुणेन ततः कर्णः शमयामास पावक्रम् ।
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ॥ ८.९८.२४ ॥
于是迦尔纳以伐楼那武器熄灭了火焰,并以云雾使四方都变成昏暗的风雨之日。
8.98.25
पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् ।
अपोवाह तदाऽभ्राणि राधेयस्य प्रपश्यतः ॥ ८.९८.२५ ॥
然而无所畏惧的般度之子阿周那以风神之箭,在罗陀之子迦尔纳注视下吹散了那些乌云。
8.98.26
ततः शरं महाघोरं ज्वलन्तिमिव पावकम् ।
आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया ॥ ८.९८.२६ ॥
于是御者之子迦尔纳欲杀般度之子,拿起一支如燃烧之火般极其可怖的箭。
8.98.27
योज्यमाने ततस्तस्मिन्बाणे धनुषि पूजिते ।
चचाल पृथिवी राजन्सशैलवनकानना ॥ ८.९८.२७ ॥
大王,当那支箭搭在受过供奉的弓上时,大地连同山岳、森林和园林都颤抖起来。
8.98.28
ववौ सशर्करो वायुर्दिशश्च रजसा वृताः ।
हाहाकारश्च संवज्ञे सुराणां दिवि भारत ॥ ८.९८.२८ ॥
带沙的风吹起,四方被尘土笼罩;婆罗多啊,天上诸神中发出了一片“哎呀”的哀叹。
8.98.29
तमिगुं सन्धितं दृष्ट्वा सूतपुत्रेण मारिष ।
विषादं परमं जग्मुः पाण्डवा दीनचेतसः ॥ ८.९८.२९ ॥
尊者啊,般度五子见御者之子搭上那支箭,陷入极大的悲伤,心情沮丧。
8.98.30
स सायकः कर्णभुजप्रमुक्तः ।
शक्राशनिग्रख्यरुचिः शिताग्रः।
मुलान्तरं प्राप्य धनञ्जयस्य ।
विवेश वल्मीकमिवोरमोत्तमः ॥ ८.९८.३० ॥
那支从迦尔纳臂中射出的箭,光彩如因陀罗的雷杵,箭头锋利,抵达了达南遮耶(阿周那)铠甲接缝之间,钻了进去,犹如一条上好的蛇钻进蚁穴。
8.98.31
स राढविद्धः समरे महात्मा ।
विधूर्णमानः श्लथहस्तगाण्डिवः।
चचाल वीभत्सुरमित्रमर्दनः ।
क्षितेः प्रकम्पे च यथाऽचलोत्तमः ॥ ८.९८.३१ ॥
这位大德在战中受重创而摇晃;手臂松软,甘提拔弓滑落,灭敌者毗跋苏(阿周那)颤动,如同大地震动时最高的山岳。
8.98.32
तदन्तरं प्राप्य वृषो महारथो ।
रथाङ्गसुर्वीगतमुज्जिहीर्षुः।
रथादवप्लुत्य निगृह्य दोर्भ्यां ।
शशाक दैवान्न महाबलोऽपि ॥ ८.९८.३२ ॥
这位大战车手毗利沙(迦尔纳)趁此机会跳下战车,想要抬起陷入土中的车轮;他以双臂抓住,但因天命,即使这位大力者也未能将它抬起。
8.98.33
ततः किरीटि प्रतिलभ्य संज्ञां ।
जग्राह बाणं यमदण्डकल्पम्।
ततोऽर्जुनः प्राञ्जलिकं महात्मा ।
ततोऽब्रवीद्वासुदेवोऽपि पार्थम् ॥ ८.९८.३३ ॥
随后毗黎底(阿周那)恢复知觉,取起一支如阎摩之杖的箭。随后大德阿周那合掌;随后婆苏提婆也对贡蒂之子说话。
8.98.34
महारथे रथचक्रे विमग्ने ॥ ८.९८.३४ ॥
大战车手(迦尔纳)的车轮陷入了土中。
8.98.35
तं हस्तिकक्षाप्रवरं सुकेतुं ।
सुवर्णमुक्तामणिवज्रजुष्टम्।
कलाप्रकृष्टोत्तमशिल्पियत्नैः ।
कृतं सुरूपं तपनीयचित्रम् ॥ ८.९८.३५ ॥
那面象舆上最上等的旗帜,美丽,以金、珍珠、宝石和金刚石装饰,由技艺精湛的上等工匠费尽心力制成,形态优美,以金色图案绘饰。
8.98.36
जयास्पदं तव सैन्यस्य नित्य… ।
ममित्रवित्रासनमीड्यरूपम्।
विख्यातमादित्यसुतस्य लोके ।
त्विषा समं पावकभानुचन्द्रैः ॥ ८.९८.३६ ॥
那面旗帜,永远是你军队的胜利之所,令敌人恐惧,形态令人赞叹,在世上以太阳之子的旗帜闻名,光辉与火、日、月相等。
8.98.37
ततः क्षुरप्रेण सुसंशितेन ।
सुवर्णपुङ्खेन हुताग्निवर्चसा।
श्रिया ज्वलन्तं ध्वजमुन्ममाथ ।
महारथस्याधिरथेः किरीटी ॥ ८.९८.३७ ॥
于是冠者(阿周那)以一支磨得锋利、金羽的新月箭,射断了那面如祭火般辉煌、闪耀光芒的大车将、阿提罗陀之子(迦尔纳)的旗帜。
8.98.38
यशश्च दर्पश्च तथा प्रियाणि ।
सर्वाणि कार्याणि च तेन केतुना।
साकं कुरूणां हृदयानि चापतन् ।
बभूव हाहेति च निःस्वनो महान् ॥ ८.९८.३८ ॥
随着那面旗帜一同倒下的,有名望、骄傲、一切所爱之物与一切事业;库鲁族人的心也随之坠落,于是响起一片巨大的“哎呀!哎呀!”之声。
8.98.39
द्वष्ट्वा ध्वजं पातितमाशुकारिणा ।
कुरुप्रवीरेण निकृत्तमाहवे।
नाशंसिरे सूतपुत्रस्य सर्वे ।
जयं तदा भारत ये त्वदीयाः ॥ ८.९८.३९ ॥
婆罗多啊,你的人众见到那面旗帜在战场上被库鲁英雄迅速砍断、射倒,便都放弃了对御者之子(迦尔纳)获胜的希望。
8.98.40
अथ त्वरन्कर्णवधाय पार्थो ।
महेद्रवज्रानलदण्डसन्निभम्।
आदत्त चाथाञ्जलिकं निषङ्गा… ।
त्सहस्ररश्मेरिव रश्मिमुत्तमम् ॥ ८.९८.४० ॥
此时,为了杀死迦尔纳而急切的般度之子(阿周那)从箭袋中取出一支带钩的箭,它如同因陀罗的金刚杵与火棒,又如千光太阳的至上光线。
8.98.41
मर्मच्छिदं शोणितमांसदिग्धं ।
वैश्वानरार्कप्रतिमं महार्हम्।
नराश्वनागासुहरं त्र्यरत्निं ।
षड्वाजमञ्जोगतिमुग्रवेगम् ॥ ८.९८.४१ ॥
那支箭能穿刺要害,沾满血肉,如火如日,极为珍贵;能夺取人、马、象的性命,长三肘,有六羽,直飞迅疾,速度猛烈。
8.98.42
सहस्रनेत्राशनितुल्यवीर्यं ।
कालानलं व्यात्तमिवातिघोरम्।
पिनाकनारायणचक्रसन्निभं ।
भयङ्करं प्राणभृतां विनाशनम् ॥ ८.९८.४२ ॥
其威力如千眼者的雷霆,状如张口的时间之火,极为可怖,堪比毗那迦与那罗延之轮,令众生恐惧,能毁灭众生。
8.98.43
जग्राह पार्थः स शरं प्रहृष्टो ।
यो देवसङ्घैरपि दुर्निवार्यः।
सम्पूजितो यः सततं महात्मा ।
देवासुरान्यो विजयेन्महेषुः ॥ ८.९८.४३ ॥
般度之子欢喜地拿起了那支箭,连诸神之众也难以抵挡,那支常受尊崇的伟大之箭,能战胜神与阿修罗中的任何人。
8.98.44
तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे ।
चचाल सर्वं सचराचरं जगत्।
कृत्स्नं जगत्स्वस्त्यृषयोऽभिचक्रु… ।
स्तमुद्यतं प्रेक्ष्य महाहवेषुम् ॥ ८.९८.४४ ॥
见其在战场上擦拭得光亮,一切动与不动之物所组成的整个世界都为之震颤;仙人们为整个世界祈求吉祥……见那高举的大战之箭。
8.98.45
ततस्तु तं वै शरमप्रमेयं ।
गाण्डीवधन्वा धनुषि व्ययोजयत्।
युक्त्वा महास्त्रेण परेण चापं ।
विकृष्य गाण्डीवमुवाच सत्वरम् ॥ ८.९८.४५ ॥
于是持甘狄拔弓者将那不可限量的箭搭在弓上;以至上的大神兵与弓相合,拉开甘狄拔弓,急速说道。
8.98.46
अयं हास्त्रप्रहितो महाशरः ।
शरीरहृच्चासुहरश्च दुर्हृदः।
तपोऽस्ति तप्तं गुरवश्च तोषिता ।
मया यदीष्टं सुहुतं यदि श्रुतम् ॥ ८.९८.४६ ॥
此大箭由神兵所发,能穿透身躯,夺取恶意者的性命。若我修过苦行,取悦了师长,善行祭祀,好好献供,并听闻过经典,愿此箭成功。
8.98.47
अनेन सत्येन निहन्त्वयं शरः ।
सुसंहितः कर्णमरिं ममोर्जितम्।
इत्यूचिवांस्तं प्रमुमोच बाणं ।
धनञ्जयः कर्णवधाय घोरम् ॥ ८.९८.४७ ॥
以此真实之力,愿此箭精准地射杀我的强敌迦尔纳。说罢,财主(阿周那)为杀死迦尔纳而射出了那支可怖的箭。
8.98.48
कृत्या ह्यथर्वाङ्गिरसी प्रचोदिता ।
यथा तथा त्वं जहि शात्रवं मम।
ब्रुवन्किरीटी तमतिप्रहृष्टो… ।
ऽसृजद्देवानां जयहेतुं महेषुम् ॥ ८.९८.४८ ॥
如同被阿闼婆-安吉罗娑咒语所驱动的咒术,你便这样击杀我的敌人。财主说罢,极为欢喜,……射出了那支作为诸天胜利之因的大箭。
8.98.49
जिघांसुरर्केन्दुसमप्रभावः ।
कर्णं वशी पाण्डवः क्षिप्रकारी।
ततो विमुक्तो बलिना महेषुः ।
प्रज्वालयामास नभो दिशश्च ॥ ८.९८.४९ ॥
这位与日月同等威力的般度之子,欲杀迦尔纳,克制自持,行动迅捷。于是,那支由勇士射出的大箭,将天空与四方点燃。
8.98.50
सैन्यान्यनेकानि च विप्रमोह्य ।
गाण्डीवमुक्तेन ततो महात्मा।
तेनार्जुनस्तन्महनीयमस्य ।
शिरोऽहरत्सूतपुत्रस्य राजन् ॥ ८.९८.५० ॥
大王啊,那位大心的阿周那使众多军队彻底迷惑,以从甘狄拔弓射出的那支箭,斩下了御者之子迦尔纳那颗令人尊敬的头颅。
8.98.51
कायश्च पश्चाद्धरणीं जगाम ॥ ८.९८.५१ ॥
身躯随后倒在了大地上。
8.98.52
तदुद्यतादित्यसमानतेजसं ।
शरन्नभोमध्यगभास्करोपमम्।
वराङ्गमुर्व्यामपतच्चमुमूखे ।
दिवाकरोऽस्तादिव रक्तमण्डलः ॥ ८.९८.५२ ॥
那躯体光辉如初升之日,如秋日天空中央之太阳,在军阵前倒卧于大地,恰如夕阳红色的圆盘坠落。
8.98.53
ततोऽस्य देहं सततं सुखैधितं ।
सुरूपमत्यर्थसुखं सुगन्धि च।
परेण कृच्छ्रेण शिरः समत्यज… ।
द्गृहं महर्धीन्निवसन्निवेश्वरः ॥ ८.९८.५३ ॥
于是他的身体,常在安乐中养育,形貌俊美,极其愉悦芬芳,历经极大困难才舍弃了头颅,犹如居于大富之中的城邑之主。
8.98.54
शरैर्विभिन्नं व्यसु तत्सुवर्चसः ।
पपात कर्णस्य शरीमुच्छ्रितम्।
स्रवद्व्रणं गैरिकतोयविस्रवं ।
गिरेर्यथा वज्रहतं महाशिरः ॥ ८.९८.५४ ॥
那被箭矢刺穿、失去生命的光辉身躯倒下了——迦尔纳高大的身体,伤口流淌着赭红色的水,如同被霹雳击中的大山之巅。
8.98.55
देहाच्च कर्णस्य निपातितस्य ।
तेजः सूर्यं खं वितत्याविवेश।
तदद्भुतं सर्वमनुष्ययोधाः ।
संदृष्टवन्तो निहते स्म कर्णे ॥ ८.९८.५५ ॥
从倒下的迦尔纳身上,光辉散布天空并进入太阳。迦尔纳被杀时,所有人类战士都目睹了这奇异景象。
8.98.56
ततः शङ्खान्पाण्डवा दध्मुरुच्चै… ।
र्दृष्ट्वा कर्णं पातितं फल्गुनेन।
तथैव कृष्णश्च धनञ्जयश्च ।
हष्टौ यमौ दध्मतुर्वारिजातौ ॥ ८.९८.५६ ॥
于是般度之子高声吹响海螺,见迦尔纳被阿周那所杀;克里希那与持财者亦然,欢喜的孪生兄弟也吹响了生于水中的海螺。
8.98.57
तं सोमकाः प्रेक्ष्य हतं शयानं ।
सैन्यैः सार्धं सिंहनादान्प्रचक्रुः।
तूर्याणि सञ्जघ्नुरतीव हृष्टा ।
वासांसि चैवादुधुवुर्भुजांश्च ॥ ८.९८.५७ ॥
看见他被杀倒卧,索摩迦人与他们的军队一同发出狮吼;极为欢喜,他们敲击乐器,挥动衣裳和手臂。
8.98.58
संवर्धयन्तश्च नरेन्द्र योधाः ।
पार्थं समाजग्मुरतीव हृष्टाः।
बलान्विताश्चापरे ह्यप्यनृत्य… ।
न्नन्योन्यमाश्लिष्य नदन्त ऊचुः ॥ ८.९८.५८ ॥
啊,人主!战士们赞美般的,满心欢喜地来到Pārtha身边。其他强健者也起舞;相互拥抱、呼喊着说道。
8.98.59
दृष्ट्वा तु कर्णं भुवि वा विपन्नं ।
कृत्तं रथात्सायकैरर्जुनस्य।
महानिलेनाद्रिमिवापविद्वं ।
यज्ञावसानेऽग्निमिव प्रशान्तम् ॥ ८.९८.५९ ॥
他们看见Karṇa倒在地上,被Arjuna的箭从战车上射落,如同被大风吹倒的山岳,又如祭祀结束后熄灭的火焰。
8.98.60
तदाननं सूर्यसुतस्य राज… ।
न्विभ्राजते पद्मिवावनालम्।
रराज कर्णस्य शिरो निकृत्त… ।
मस्तंगतं भास्करस्येव बिम्बम् ॥ ८.९८.६० ॥
那太阳之子的面容……如同连茎切断的莲花般闪耀。Karṇa被斩下的头颅如同落日之圆盘般光辉。
8.98.61
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः ।
रराज देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥ ८.९८.६१ ॥
Karṇa的身体,四肢被箭覆盖,浸在血流之中,犹如以自身光芒照耀的太阳。
8.98.62
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः ।
बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥ ८.९८.६२ ॥
Karṇa这颗太阳以炽热的箭芒炙烤敌军,却被强大的Arjuna——如同时间——引向了落日。
8.98.63
अस्तं गच्छन्यथाऽदित्यः प्रभामादाय गच्छति ।
तथा जीवितमाहाय कर्णस्येषुर्जगाम सः ॥ ८.९८.६३ ॥
正如太阳落下时带走它的光辉而离去,那支箭也带走了Karṇa的生命而飞去。
8.98.64
अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष ।
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥ ८.९८.६४ ॥
尊者啊,午后,御者之子迦尔纳的头颅在战场上被一支新月形箭头的箭斩断,从高处坠落。
8.98.65
उपर्युपरि सैन्यानां विनिघ्नन्नितराञ्जनान् ।
शिरः कर्णस्य सोऽत्सेधमिषुः सोप्यहरद्द्रुतम् ॥ ८.९८.६५ ॥
那支箭越过军队,射杀他人,也迅速地带走了迦尔纳高高扬起的头颅。
8.98.66
कर्णं तु शूरं पतितं पृथिव्यां ।
शराचितं शोणितदिग्धगात्रम्।
दृष्ट्वा शयानं भुवि मद्रराज… ।
श्छिन्नध्वजेनाथ ययौ रथेन ॥ ८.९८.६६ ॥
见英雄迦尔纳倒在地上,身被箭矢覆盖,浑身沾满鲜血,摩德罗王……随即乘坐旗杆折断的战车离去。
8.98.67
हते कर्णे कुरवः प्राद्रवन्त ।
भयार्दिता गाढविद्धाश्च सङ्ख्ये।
अवेक्षमाणा मुहुरर्जुनस्य ।
ध्वजं महान्तं वपुषा ज्वलन्तम् ॥ ८.९८.६७ ॥
迦尔纳被杀后,俱卢人因恐惧而痛苦,又在战中受了重伤,纷纷逃跑,一再回头望向阿周那那面巨大而耀眼的旗帜。
8.98.68
तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम् ।
यदृच्छयेव पतितं मण्डलं चाण्डदीधितेः ॥ ८.९८.६८ ॥
婆罗多族中最优秀的人啊,那颗头颅装点了大地,仿佛太阳的圆盘偶然坠落。
8.98.69
तं दृष्ट्वा समरविमर्द लब्धनिद्रं ।
दष्टोष्ठं रुधिरपीरतकातराक्षम्।
राधेयं रथवरपृष्ठसन्निषण्णं ।
हीनांशुर्दिवसकरो मुहूर्तमासीत् ॥ ८.९८.६९ ॥
见迦尔纳被战斗压垮,似已入睡,咬着嘴唇,双眼因惊恐而被血染黄,坐在上等战车的后部,太阳顿时失去光芒片刻。
8.98.70
निःशब्दतूर्यं हतयोधमुख्यं ।
प्रशान्तदर्पं धृतराष्ट्रसैन्यम्।
न शोभते सूर्यसुतेन हीनं ।
वृन्दं ग्रहाणामिव चन्द्रहीनम् ॥ ८.९८.७० ॥
战鼓与法螺都沉默了,主要的勇士已经阵亡,持国之军的傲气也已平息。没有日神之子(迦尔纳),那支军队就像失去月亮的群星,黯然无光。
8.98.71
सहस्रनेत्रप्रतिमानकर्मणः ।
सहस्रपत्रप्रतिमाननं शुभम्।
सहस्ररश्मिर्दिवसक्षये यथा ।
तथाऽपतत्कर्णशिरो वसुन्धराम् ॥ ८.९८.७१ ॥
迦尔纳的头颅,其功业如同千眼之神,面容美如千瓣莲花,就像千道光芒的太阳在日暮时坠落一样,落到了大地上。
8.98.72
व्यूढोरस्कं कमलवदनं तप्तहेमावभासं ।
कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम्।
पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो ।
मन्दम्मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः ॥ ८.९८.७२ ॥
太阳光线黯淡,看到迦尔纳胸膛宽阔、面如莲花、闪耀如熔金,倒在地上被阿周那的箭所灼伤,便缓缓走向自己的居所,一再回望自己那沾满尘土、污秽不堪的儿子。